साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 89, कुल 506 में से
संदर्भ में पढ़ें३८ साहित्यदर्पणे 'कलिङ्गः साहसिक' इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे ऽर्थेऽसंभवत्तया शब्दशक्त्या तत्संयुक्तान्पुरुषादीन्प्रत्याययति, यया च 'गङ्गायां घोषः' इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वाल्ल- क्षणार्थसंबन्धं सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा सम्बन्धिना साम्प्रतिकेनेरा ईश्वराद्युद्भाविता वा शक्तिर्लक्षणा नाम। पूर्वत्र हेतु रूढिः प्रसिद्धिरत्रे। उत्तरत्र 'गङ्गातटे घोषः' इति प्रतिपाद- नाद् ... 'रामोऽस्मि सर्वं सहे' इति वक्ष्यमाणायां स्वार्थस्यैव दुःखा- तिशयेन बोधनायां रामशब्दलक्षणायामव्याप्त्यापत्तेश्च। अत एव 'कदली कदली' इत्यादौ व्यङ्ग्यान्तरसंक्रमितवाच्यलक्षणाया मूलानेरुदाहरणमपि संग- च्छते। अत्र द्वितीयादि कदलीशब्दानां पौनरुक्त्यात् कदलीत्वादिना अन्वयासम्भ- वेऽपि सौन्दर्यादिना कदल्यादिरूपमुख्यार्थस्यैव बोधकतया लक्षणास्वीकारात्। तथा चोक्तम्- 'अतः परं प्रबोधाय करसङ्कचितां कुरु करद्वयीम्।' अत्र द्वितीयकरपदस्य पूर्वोपात्तार्थसाधारण्येऽपि करविशेषप्रतीतावपि लक्षणा। एवं च अन्यत्राप्येवंरीत्याऽपि लक्षणा संभवति। शक्यतावच्छेदकघटितविशि- ष्टशक्यसंबन्धरूपा लक्षणा स्वीकारात्। यथा 'त्वामस्मि वच्मि'- इत्यादौ द्रष्टव्यम्। सा च रूढिप्रयोजनरूपा, तथा ज्ञानात्। अतो द्वयोरेकतरसद्भावादेव सर्वत्रापि लक्षणाप्रयोजनेनाह। प्रयोजनञ्च शीतपावनत्वादिप्रतीतिः साम्प्रतं न सम्भवति तस्य हेतुत्वमुपगतम्। 'प्रयो- जनवतः' इत्यर्थः। अत्र प्रागुक्तयोर्दृष्टान्तयोरुभयोरेव विवक्षितयोरेव यथोक्तलक्षणासंभवेऽप्युभयोर्द्वैविध्येनोभयत्रोदाहरणं भवतीति ज्ञापनायाय द्वित्रि- प्रयोगेन च तेषां निर्देशः। वस्तुगत्या तु हि लक्षणा। तत्रोभयोस्तु रूपान्तरमेवेति बोध्यम्। तच्च ग्रन्थकारेणैवोक्तम्। 'कलिंग' इत्यादिना साक्षात् संयोगादिना लक्षणाऽनन्तरं देशसंबन्धाल्लक्षणायां मुख्यस्तद्वान्प्रतीय- मानः पुरुषः। मुख्यशक्यस्य कलिङ्गदेशस्य वा प्रत्यक्षानुपलम्भेन देशसंबन्धाल्लक्ष- णाभ्युपगमात्। तत्र चेत्थं मुख्यार्थबाधः। कलिङ्गः साहसिक इत्यादौ मुख्यार्थबाधः कलिङ्ग इति। साहसिकत्वासम्भवे मुख्योऽर्थे कलिङ्गादिशब्द इति। द्वितीयोदाहरणेऽपि तादृशं बाधमाह - गङ्गायामिति। गङ्गापदस्य प्रवाहविशेषे रूढत्वात्प्रवाह- स्याधारत्वेनावस्थितेर्घोषस्याधारत्वं न सम्भवतीत्याह-जलमयेत्यादिना। यत्त्वत्रापि शैत्यपावनत्वादिप्रतीतिर्भवति, तदग्रिमग्रन्थैरेव व्यक्तीभवि- ष्यतीति प्रतिपादयति-इत्यादिना। ननु रूढौ प्रयोजने च कथं लक्षणे- त्याशङ्क्य तयोर्लक्षणं दर्शयति - पूर्वत्रेत्यादिना। पूर्वत्र कलिङ्गादौ रूढिर्हेतुः। रूढिर्नाम प्रसिद्धिरित्यर्थः। उत्तरत्र गङ्गायां घोष इत्यादौ