साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 90, कुल 506 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः । ३९ नालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम्। हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणेऽतिप्रसङ्गः स्यात्, इत्युक्तम्—'रूढेः प्रयोजनाद्वापि' इति । केचित्तु 'कर्मणि कुशल.' इति रूढावुदाहरन्ति। तेषामयमभिप्रायः- कुशाँल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योऽर्थः प्रकृतेऽसंभव- न्विवेचकत्वादिसार्धर्म्यसंबन्धसंबन्धिनं दक्षरूपमर्थं बोधयति। तदन्ये^1 इति । प्रतिपादयतीति प्रतिपादनं वाक्यम्, तदलभ्यस्य । मुख्यशब्दघटितवा- क्येनाप्रतिपाद्यस्येत्यर्थ । तीरस्य विप्रकृष्टतागतशीतत्वापेक्षया सन्निकृष्टतागतशीत- त्वादेराधिक्यमत्रातिशय । एवं च 'अतिशीतेऽतिपावने तीरे घोष' इति व्यञ्जना- जन्यबोधो लाक्षणिकशब्दप्रयोगस्य प्रयोजनमिति भाव । 'कथंचिन्न लक्षयित' इति लक्षणाया निषेध उक्त । अशक्तितो रूढिप्रयोजनविरहात् । यथा—'स्मरो चरणाघातं मुख मुमुखि तेऽकरोत्' । अत्र निर्जितत्व लक्ष्यते । एषा नेयार्थ- लक्षणा दोषतया वक्ष्यते । सा च कविप्रयोगानर्हत्वात् प्रकृतलक्षणस्य लक्ष्या न भवतीति तत्रातिव्याप्तिवारणाय चरमहेतुद्वय न्यस्तम्। तदेव दर्शयति—हेतु- मिति । रूढिप्रयोजनयोरन्यतरमित्यर्थ । संबन्धिनो मुख्यसंबन्धिन । ल- क्षणे लक्षणायाम् । उदाहरन्ति 'काव्यप्रकाशकारादय' इति शेष । लाति गृह्णाति। व्युत्पत्तिः प्रकृतिप्रत्ययविभागकल्पना, ताभ्यस्तत्प्रतिपाद्य । प्रकृते प्रस्तुत- कर्मान्वयेऽसंभवन्वियोग्यतामलभमान. । पदार्थस्यान्वयानुपपत्तिप्रतिसंधानद्वारा लक्षणायामुपयोगित्वमित्यभिप्रायेणेदम् । अन्य इति । स्वपक्षानिप्रायेण दूषय- 1 तदन्य इति। तद्रुचिरमेतत्। अगति बाधनेऽप्यन्तराले रूढिमनुद्धा विवक्षित- पायोगेन मुख्यसदृशं वृत्तमिति प्रत्युक्तत्वात्सन्त्वेव। नित्य प्रयोज्यप्रवृहैकेन प्रकृति- निमित्तहीनेरे यौगिकव्यवहारस्य मुख्यतैव दुर्वारे । यथा कालस्वभावतोत्प्रेक्षा- हेतोरादिकेऽपि निपुणस्य चन्द्रपरस्य इति योगस्य निवृत्तिमन्तमन्तरेण प्रवृत्त- निमित्तं ते मत्वार्थेव गन्धर्वपुरेऽनतिरेवव्यवहारेऽपीति गने त्वात्सम्भवत्येवेति ध्येयम् । अत एव लक्षणादिरूपोऽविधेयोऽपि शब्दः। यथाऽऽहुरन्येषां साविकशब्दानां हि रू- ढिशब्देन यौगिकशब्देषूच्यते । 'रूढिशब्दस्तु' इति ग्रन्थसन्दर्भेण चेदम् । यच्च मान्त्रवर्णिकोऽयं शब्दप्रयोगस्तत्र रूढार्थस्यानुसन्धानमेव केवलं प्रकृत- तीरवृत्तित्वानुवृत्त्यर्थं न तेन दोषम् इत्युक्तं तदेतत् प्रत्युक्तम् । यतोऽत्र ही लक्ष्यार्थः स्वरूपं विनाऽपि रूढिकृतत्वाद् दृश्यते विनाऽनुभवं विना प्रयोजनं विभूतिगुणातिरेकेणैव स्यात् । यि च .... प्रवृत्तिमित्यतः सापि रूढितः प्रवृत्त्यान्यैरुद्भाव्यतेऽतः सप्रयोजनरूढि- रक्तम् । एषा च प्रयोजन रूढौ चापि न तु प्रकृतलक्षणायां गन्धमात्रं लभ्यते नह्यागन्तुकान् द्वितीयाद्यर्थान् लक्षयितुं प्रभवन्तीति—इति ग्रन्थव्याख्यातारः ।