साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
The provided image is blank and contains no legible text to transcribe.
दशमः परिच्छेदः । ६०५ दण्डापूपिकान्यार्थागमोऽर्थापत्तिरिष्यते । मूषिकेण दण्डो भक्षित इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवतीति नियतसमानन्यायादर्थान्तरमापततीत्येष न्यायो दण्डापूपिका । अत्र च क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकर- णिकार्थात्प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणम्— 'हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥' 'विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् । अतितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् ॥' अत्र च समानन्यायस्य श्लेषमूलत्वे वैचित्र्यविशेषो यथोदाहृते 'हारोऽयं-' इत्यादौ । न चेदमनुमानम् । समानन्यायस्य संबन्धरूप- त्वाभावात् । विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयु(य)तः ॥ ८३ ॥ अर्थापत्त्यलंकारमाह—दण्डापूपिकयेति । दण्डापूपन्यायेनेत्यर्थः । अन्यार्थागमो भिन्नार्थप्रतीतिः ॥ दण्डापूपन्यायमाह—मूषिकेनेति । इतिशब्दो हेतौ । अनेन मूषिकेण तत्सहचरितं दण्डभक्षणसहचरितमर्थादौचित्यादायातमवगतं भवतीत्यन- न्तरं 'वदन्यत्रापि' इति पूरणीयम् । नियतेति । नियतस्य तद्भूत्वेन निश्चितस्य स- मानन्यायात्तुल्यसामर्थ्यादर्थान्तरं तु शब्दात् । आपतति प्रतीतिविषयो भवति । मूषि- कस्य हि दण्डभक्षणं दुष्करं तन्निष्पत्तौ तत्सहचरितापूपभक्षणमतिसुकरत्वाद्यथा संभाव्यते तथात्रापि सहचरितैकसिद्धेरापरसिद्धिरौचित्यात्संभाव्यत इति भावः ॥ हारोऽयमिति । मुक्तानां हारघटकरत्नविशेषाणां निवृत्तसंसारदुःखानां च । मु- क्तानां तादृशोपिमर्द्दनं दुर्घटं तन्निष्पत्तावनुक्तानामसत्त्वं सुतरां तन्व्यादिति पुं- स्त्वमत्र समानो धर्मः । मुक्तानां वर्णनीयत्वेन प्राकरणिकत्वम् ॥ विललापेति । सोऽजः । द्रव्यसमः समानो धर्मः । अयसो वर्णनीयत्वाभावादप्राकरणिकत्वम् । संबन्धरूपत्वाभावादिति । व्याप्तिरूपाभावादित्यर्थः । व्याप्तिर्ह्यन्यथानुप- पद्योरव्यभिचरितसामानाधिकरण्यरूपः । प्रकृते तु एकस्य नायमर्थग्रहेण औचित्या- त्सत्समानस्य तादृशार्थान्तरग्रहो भवतीति हायस्थानपरयोर्व्याप्त्यसंभवादिति भावः ॥ विकल्पालंकारमाह—विकल्प इति । तुल्यबलत्वं तत्तदुदाहरणे यथायथं बोध्यम् ।
- दण्डेति । दण्डापूपयोरितो दण्डापूपिका । 'द्वन्द्वान्ते श्रूयमाणः' इति द्वन्द्वः । इतरेतरद्वन्द्वाद्भावप्रत्यय इति केचित् । अन्ये तु दण्डापूपौ विद्येते यस्यां सा दण्डा- पूपिका । 'इवे प्रतिकृतौ' इति प्रतिकृत्यर्थः । अन्ये दण्डापूपमिव दण्डापूपिकेति गौणी' ... व्याचक्षते ॥
इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है। पृष्ठ पूर्णतः रिक्त है या केवल कुछ अस्पष्ट निशान/धब्बे हैं।
इस पृष्ठ पर कोई पठनीय पाठ (text) उपलब्ध नहीं है (पृष्ठ रिक्त है)।
६०८ साहित्यदर्पणे प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे ॥’ इह केचिदाहुः—‘शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वमपि सदसद्योगः’ इति । अन्ये तु—‘शशिप्रभृतीनां स्वतःशोभनत्वं धूसरत्वा- दीनां त्वशोभनत्वमिति सदसद्योगः ।’ अत्र हि शशिप्रभृतिषु धूसरादे- रत्यन्तमनुचितत्वमिति विच्छित्तिविशेषस्यैव शोभनत्वे प्रक्रमादिति । इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः । समाध्यलंकारे त्वेक- कार्यं प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः । ‘अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥’ अत्राद्येऽर्धे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः । उभयोर्यौगपद्ये यथा — ‘कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥’ र्गतत्वपर्यन्तानां ग्रहणम् । खलस्य तु खतोऽशोभनत्वं नृपाङ्गनगतत्वस्य शोभनत्व- मिति वैपरीत्येन सदसद्योगः । मनोदुःखं प्रति धूसरत्वादिविशिष्टचन्द्रादयः कार- णानि कारणीभूतानां विशेष्याणां विशेषणानां च यथासंभवं सतामसता च योग एव सदसद्योग इति भावः । अन्येषां मतमुपपादयति—अत्र हीति । विच्छि- त्तिविशेषस्यैवेत्येवकारेण मनसीत्यादिव्यावृत्तिः । नन्वेतनिरर्थकमत आह—मन- सीति । तथा च वाक्यसमापकत्वेनैव तत्सार्थकमिति भावः । प्रथममतं दूष- यति—नृपाङ्गनगत इति । विशेषस्यैवेत्येवकारेण विशिष्टव्यवच्छेदः । तथा चात्र विशेष्यविशेषणयोर्योग एव वैचित्र्यावहो नतु विशिष्टाना योगः । क्रमभेद- रूपदोषावहत्वादिति भावः । समाध्यलंकारादस्य भेदमाह—इहेति । साहित्येन मिलितत्वेनावतारः । समग्रे समर्थे पर्याप्ते काकतालीयन्यायेन अप्रतिसंहतत्वेना- पतनमुपस्थापनम् । यत्र कार्यविशेषं मिलितान्येव कारणानि जनयन्ति समुच्चयस्य विषयः । यत्र त्वेकस्मिन्कारणे फलसाधनायानुष्ठीयमाने देवादुत्पन्नेन कारणान्त- रेण तत्फलस्य सुकरत्वं स समाधिरिति भावः ॥ गुणयौगपद्ये समुच्चयमाह—अ- रुणे चेति । नायिकां प्रति सख्या उक्तिरियम् । नयने रक्ते इति शेषः ॥ कलु- षमिति । रोषकषायितमित्यर्थः । सितपङ्केरुहस्य सोदरीसदृशी श्रीः शोभा यस्य तत् । अस्य वैयधिकरण्ये एव प्रयोगप्राचुर्यं विच्छित्तिविशेषजनकत्वं च । क्षति- १. ‘शमद्यानं’ इति मुद्रितपुस्तकेऽधिकम् ।
The provided image is completely blank and contains no visible text.