समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 101, कुल 726 में से
संदर्भ में पढ़ें३६ समराङ्गणसूत्रधारे वास्तुद्रव्यविभागेषु यानेषु च विशेषतः । प्रारभेत यतो मानं कल्पयेद् देवतास्ततः ॥ १५॥ विद्धैश्च द्रव्यमध्यैश्च देवताभिश्च १पीडिते । प्रत्येकं त्रिदशस्थाने यथोक्तं फलमादिशेत् ॥ १६॥ शिरोर्त्तिरनलप्लोषो मरणं स्थपतेर्वधः । २अतिसारो मरुद्व्याधिरर्थभ्रंशो भयं नृपात् ॥ १७॥ कुलपीडा च महती कर्तृकारक३योरिति । यथाक्रमममी दोषा ब्रह्मादीनां निपीडनात् ॥ १८॥ ब्रह्मानलकयोर्मध्ये यदा हस्तं तु ४धारयेत् । कर्मस्वधिगतस्तेषां पुत्रलाभो भविष्यति ॥ १९॥ कर्मणः सुष्ठुनिष्पत्ति(स्तिष्ठतेभोग ? स्थपतेर्भोग्य)मक्षयम् । ब्रह्मा यमस्तयोर्मध्ये यदा हस्तं तु धारयेत् ॥ २०॥ कर्ता सशिल्पिकश्चैव(अ ? न)चिरेण५ विनश्यति । विश्वानलकयोर्मध्ये हस्तसूत्रं यदा धृतम्६ ॥ २१॥ ७सु(ष्ठु)कर्मणि मध्यान्तं निष्पन्ने पुरवृद्धिता । यमजलदयोर्मध्ये मध्यमं च विनिर्दिशेत् ॥ २२॥ पवनो विश्वकर्मा चोभयोर्मध्ये च धारणम् । यदा तु तत्र कर्मान्तं ८शुभं तत्सर्वकामदम् ॥ २३॥ ९नीरधनदयोर्मध्ये मध्यमं च विनिर्दिशेत् । एषां मध्ये यदा वत्सहस्तं तत्र यदा धृतम्१०(?) ॥ २४॥ अनावृष्टिभयं लोके देशभङ्गो न संशयः । रुद्रपवनयोर्मध्ये रुचिहस्तं तु धारयेत् ॥ २५॥ तत्र लक्ष्मीवतस्तस्य कार्यसिद्धिर्न संशयः । विष्णुधनदयोर्मध्ये यदा पाणिकरा११र्यैतः ॥ २६॥ १ द. ख. ग. पीडितैः । २ द. प्रमीसारो । ३ द. क. ख. ॰योरपि । ४ क. कारयेत् । ५ द. कर्तारो शिल्पिनश्चैव अचिरेण विनश्यति । ६ द. वृतम् । ७ द. क. सुमतिर्मणिमध्यान्तं । ८ द. शुभं तं सर्वं°; क. शुभान्तं सर्वं° । ९ द. नीरदधन° । १० द. एषां मध्ये न हस्तं तत्र यदा वृतम् । ११ द. ख. ग. काराप्रतः ।