समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 117, कुल 726 में से
संदर्भ में पढ़ें'षट्पदः स्यात् ततो मित्रः काष्ठायां पत्युरम्भसः । कर्णेऽपरोत्तरे यक्ष्मा रुद्रश्च पदिकावुभौ ॥ ४ ॥ षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः । आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ॥ ५ ॥ इत्यन्तःसंश्रया देवाः प्रोक्ता ब्रूमो बहिःस्थितान् । ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥ ६ ॥ ^२अग्निस्तदनु पर्जन्यो जयन्तश्चेन्द्र एव च । रविः सत्यो भृशश्चेति नभस्तस्मात् ततोऽनिलः ॥ ७ ॥ पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ । गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ॥ ८ ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो ^३जलेश्वरः । असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥ ९ ॥ रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च । चरकोऽथादितिर्दैत्यमातेति पददेवताः ॥ १० ॥ वह्नेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद् बहिः । चरकी च विदारी च पूतना पापराक्षसी ॥ ११ ॥ पदै^४भोगोऽस्ति नैतासां स्थानमेव हि केवलम् । ^५पदभोगमथ ब्रूमो बहिःस्थानां नभःसदाम् ॥ १२ ॥ तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च । वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः ॥ १३ ॥ एभ्यः शेषा बहिर्ये तु ते स्युः पदभुजः सुराः । एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥ १४ ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । भवेच्छतपदो वास्तुर्ब्रूमोऽत्राप्यमरस्थितिम् ॥ १५ ॥ १ द. षट्पदाम्यन्तरो । २ ख. ईशस्तं । ३ क. जलोद्विपः (? जलाधिपः) । ४ द. पदभागो । ५ द. पदभागं ।