भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 116, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 116

वास्तुत्रयविभागो नामैकादशोऽध्यायः । ५१ हीनाधिकप्रमाणेषु दुर्निविष्टेषु धामसु । कर्तुः कारयितुः पीडा स्यान्न पूजा तथास्य च ॥ १४३ ॥ नैवातिसंभृतं कुर्यात् स्वल्पमल्पामरालयम् । १पुरं चानाश्रितं कुर्याद् वेधभागाश्रितं न च ॥ १४४ ॥ ज्येष्ठमध्यकनिष्ठानि नवषट्त्रिपदान्तरे । सुरवेश्मानि कुर्वीत दोषायापरथा पुनः ॥ १४५ ॥ कठिनोऽयं विधिः ३स्वैः स्वैस्त्रिदशानां निवेशने । बहिर्निवेशनात् स्वेच्छं विदध्यादमरालयम् ॥ १४६ ॥ नगरेषु समग्रेषु ग्रामेषु निखिलेषु च । खेटकेषु च सर्वेषु सामान्योऽयं विधिः स्मृतः ॥ १४७॥ इत्युक्त एष नगरोपगतः सुराणां स्वस्व४भागविहितः पदसन्निवेशः । ब्रूमो विभागमधुना गृहदेवतानां सम्यक् शुभाशुभफल५विभागयुक्तम् ॥ १४८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारारूपनाम्नि वास्तुशास्त्रे पुरनिवेशो दशमोऽध्यायः ॥ अथ वास्तुत्रयविभागो नामैकादशोऽध्यायः । चतुरश्रीकृते क्षेत्रे विभक्ते नवधा ततः । मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः ॥ १ ॥ तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा । आग्नेयकर्णे सवितृसावित्रौ पदिकावुभौ ॥ २ ॥ ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः । नैर्ऋते पदिकौ कर्णे जयेन्द्रौ कथितावुभौ ॥ ३ ॥ १ द. संभृतं । २ द. स्वं पुरं चानाश्रि° । ३ द. स्वे स्वे । ४ द. °विभाग° । ५ द. प्रविपाकः।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 116, कुल 726 में से · BharatKosha