समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 115, कुल 726 में से
संदर्भ में पढ़ें५० समराङ्गणसूत्रधारे मध्ये पुरस्य कर्तव्यं गृहमम्भोजजन्मनः । निवेशनं तथेन्द्रस्य तथैव हलिकृष्णयोः ॥ १३० ॥ मातृयक्षगणाधीशान् शिवकान् भूतसङ्घकान्१ । विनापि वेश्मभिः कुर्यात् पुरे चत्वरमार्गगान् ॥ १३१ ॥ राज्ञा वर्णाश्रमकलापण्यशिल्पोपजीविनः । स्वदिक्पदस्थाः कर्तव्यास्ते देवाश्चेच्छता श्रियम् ॥ १३२ ॥ प्रासादे सति भक्तीच्छाशक्तियुक्तो यदापरम् । प्रासादं कारयेत् पूर्वं न तदा पीडयेत् सुधीः ॥ १३३ ॥ प्रतिवेश्म प्रतिग्रामं प्रतिदेवकुलं तथा । कुर्यात् प्रतिपुरं चापि न प्राज्ञानगुणाधिकम् ॥ १३४ ॥ पूर्वप्रासादतो रुद्रसोमयोर्ब्रह्मणोऽथवा । प्रासादे विहितेऽन्यस्मिन् भवेत् पीडाग्रजन्मनाम् ॥ १३५ ॥ कृते धामन्यधिकेऽन्यस्मिन् वहेर्वाचस्पतेरुत । पुरोधसां भयं विद्याद् ध्रुवं ज्योतिर्विदां तथा ॥ १३६ ॥ धनाधिपामराधीशयमानां वरुणस्य वा । अधिके विहिते धाम्नि भयं विद्यान्महीपतेः ॥ १३७ ॥ स्कन्दधाम्नोऽधिकेऽन्यस्मिन् विहिते तस्य वेश्मनि । सेनापतेर्बलानां च पीडा सञ्जायते ध्रुवम् ॥ १३८ ॥ प्रजापतेरभ्यधिकं हरेर्वान्यत् कृतं गृहम् । कर्तुः कारयितुश्च स्याद् बन्धाय२ च विनष्टये ॥ १३९ ॥ गणेशयक्षफणिनामधिकोऽन्यः कृतो यदि । प्रासादः स्यात् तदा नित्यं सेनाङ्गानां महद्भयम् ॥ १४० ॥ स्त्रीनाम्न्यो देवतास्तासां पीड्यन्ते यदि वेश्मभिः । मुख्यानां पुरनारीणां तदा कुर्वन्त्युपद्रवम् ॥ १४१ ॥ पूर्वामरेषु सर्वेषु पीडितेष्वमरालयैः । अन्यैस्तल्लिङ्गिनां पीडा चैत्यैर्वा चैत्यपीडितैः ॥ १४२ ॥ १ क. ढ. सिंहकान् । २ द. ख. बन्धायाथ ।