समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 114, कुल 726 में से
संदर्भ में पढ़ेंपुरनिवेशो दशमोऽध्यायः । ४९ गणेशमातृभूतानां याम्ये प्रेतपतेर्गृहम् । भद्रकाल्याः पितॄणां स्याद् वेश्म चैत्यं च नैऋते ॥ ११७ ॥ सागरस्य नदीनां च शिल्पिभर्तुः प्रजापतेः । निलयं पश्चिमाशायां विदध्याद् वरुणस्य च ॥ ११८ ॥ फणिनां भवनं कार्यमपरोत्तरदिग्गतम् । शनैश्चरस्य चात्रैव कात्यायन्याश्च मन्दिरम् ॥ ११९ ॥ विशाखस्कन्दसोमानां तथा यक्षाधिपस्य च । पृथक्पृथग् विधातव्याः प्रासादाः सौम्यदिग्गताः ॥ १२० ॥ जगद्गुरोर्महेशस्य श्रियो वह्नेश्च मन्दिरम् । पूर्वोत्तरस्यां ककुभि प्रविधेयं मनोरमम् ॥ १२१ ॥ नदीनामम्बुधीनां च समन्तान्नगरस्य च । कान्तारेष्वद्रिषु स्थानं सर्वत्रेष्टमुमापतेः ॥ १२२ ॥ निवेश्यन्ते स्वदिग्भागेष्वेवं यस्मिन् सुरोत्तमाः । सम्यक्समृद्धिमासाद्य चिरं नन्दति तत्पुरम् ॥ १२३ ॥ नगरस्य विदूरेऽपि ककुप्सु निखिलास्वपि । बाह्यतोऽभिमुखा देवाः शस्यन्ते न पराङ्मुखाः ॥ १२४ ॥ क्रियते यदि १भूभागे वंशेन स पराङ्मुखः । विधिमेनं तदा तस्मिंस्तज्ज्ञः शास्त्रोक्तमाचरेत् ॥ १२५ ॥ तद्रूपवर्णभूषास्त्रवाहनैरन्वितं सुरम् । तद्भित्तौ प्रकटाकारं नगराभिमुखं लिखेत् ॥ १२६ ॥ वैकङ्कतशमीबिल्वैः क्षीरकण्टकिभिर्द्रुमैः । उदपानाग्न्यगारेषु स्यान्न दोषोऽन्तरस्थितैः ॥ १२७ ॥ अर्चाश्रितेष्वयं प्रोक्तो विधिर्नालेख्यवर्तिषु । कर्तव्याः सर्वतोवक्त्रास्तस्माच्चित्रगताः सुराः ॥ १२८ ॥ विधानं यद् यथा प्रोक्तं सुरधाम्नां पुराद् बहिः । तत् तथाभ्यन्तरेऽपि स्यात् कार्यं स्वस्वदिगाश्रयम् ॥ १२९ ॥ १ द. भूभागवशेन । वा. ७