समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 113, कुल 726 में से
संदर्भ में पढ़ें४८ समराङ्गणसूत्रधारे । राष्ट्रं खेटमथ ग्रामं पश्यन्तेन्तत्पुरं महत्( ? ) । तत्रारोग्यार्थसंसिद्धी प्रजाविजयमादिशेत् ॥ १०५ ॥ क्लेशबन्धवधैर्लोकाः स्युर्मिथः ²स्तूलहिंसकाः । ग्रामं खेटं पुरं राष्ट्रं यदेतौ नैव पश्यतः ॥ १०६ ॥ स्थाप्यन्ते ये यथा देवा नगरे सर्वतोदिशम् । बाह्यान्तरासु भूमीषु ब्रूमहे तानतःपरम् ॥ १०७ ॥ चतुर्दिशं समारभ्य प्राकारपरिखान्ततः । बहिः शते शते सार्धे धनुषां द्विशतेऽपि च ॥ १०८ ॥ धनुःशतमितैः शुद्धैरनिन्द्यैर्धरणीतलैः । स्वस्वप्रासाद्युक्तानि स्वखानुगगृहैः सह ॥ १०९ ॥ निवेशनानि कुर्वीत त्रिदशानां यथाक्रमम् । नगराभिमुखं चित्रवनभाञ्जि शुभानि च ॥ ११० ॥ याम्योत्तरायतं वंशं विकल्पपुरमव्यगम् । बहिरन्तश्च कुर्वीत देवानां विनिवेशनम् ॥ १११ ॥ प्राच्यां प्रत्यङ्मुखान् कुर्यात् प्राङ्मुखांश्चाम्बुभृद्दिशि । याम्योदक्पार्श्वयोस्तस्य ³प्रादक्षिण्येन वंशगान् ॥ ११२ ॥ दक्षिणस्यां न कुर्वीत त्रिदशानप्युदङ्मुखान् । चैत्यशान्तिसभायक्षमातृप्रँथमयान्विताः( ? ) ॥ ११३ ॥ इत्यमी कथिताः सम्यग् ये यथादिङ्मुखाः सुराः । दिक्षु दिक्षु बहिर्ये स्युस्तानिदानीं प्रचक्ष्महे ॥ ११४ ॥ विष्णोर्दिनाधिनाथस्य सहस्रनयनस्य च । धर्मस्य च विधातव्यं दिशि प्राच्यां निकेतनम् ॥ ११५ ॥ सनत्कुमारसावित्र्योर्मरुतां मारुतस्य च । पूर्वदक्षिणदिग्भागे विदधीत निकेतनम् ॥ ११६ ॥ १ क. द. पश्यन्त्ये ते पुरं, ‘पश्यतस्तौ पुरे च यत्’ इति शास्त्रिभिः निर्दिष्टः पाठः । २ द. तत्रहिंसकाः । ३ द. प्राग्दं । ४ क. ॰प्रमथया॰, ॰प्रमथपा॰ इति शास्त्रिभिः निर्दिष्टः पाठः, द. ॰प्रथमया॰ ।