समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 112, कुल 726 में से
संदर्भ में पढ़ेंपुरनिवेशो दशमोऽध्यायः । ४७ कर्मस्वधिकृता ये च ये चापि परिकर्मिणः । शौण्डिका ये च तान् सर्वान् वायोर्दिशि निवेशयेत् ॥ ९३ ॥ यतीनामाश्रयान् ब्रह्मवत्सानां च तथा सभाम् । प्रपाश्च पुण्यशालाश्च कुर्याद् दिशि धनेशितुः ॥ ९४ ॥ घृतविक्रयिणो ये च फलविक्रयिणश्च ये । निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥ ९५ ॥ पूर्वभागे बलाध्यक्षान् राज्ञो मुख्यांस्तथा बले । निवेशयेत् तथाग्नेय्यां बलं नानाविधं सुधीः ॥ ९६ ॥ श्रेष्ठिनो दक्षिणाशायां तथा देशमहत्तरान् । याम्येकहारान्( ? )कुर्वीत तथा ककुभि निर्ऋतेः ॥ ९७ ॥ कोशपालमहामात्रादेशिकान् कारुकानपि । १निर्यामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ॥ ९८ ॥ वायोः ककुभि कुर्वीत दण्डनाथान् सनायकान् । पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥ ९९ ॥ विप्राः सौम्य२ दिशो भागे क्षत्रियाः शक्रदिग्गताः । वैश्यशूद्रास्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥ १०० ॥ निधेया वणिजो वैद्या मुख्याश्चापि चतुर्दिशम् । चतुर्दिशं विशेषेण स्थापयीत बलानि च ॥ १०१ ॥ नगरस्य बहिः प्राच्यां लिङ्गस्थान् विनिवेशयेत् । श्मशानानि तथा तत्स्थान् याम्यायां स्थपतिः सुधीः ॥ १०२ ॥ सर्वतोदिशमुद्दिष्टो विभागो नगरे यथा । तथा ग्रामेषु खेटेषु सेनायाश्च निवेशने ॥ १०३ ॥ नगराभिमुखौ कार्यौ संपूर्णाङ्गम३होदयौ । द्वारे द्वारे सौम्यमुखौ लक्ष्मीवैश्रवणौ शुभौ ॥ १०४ ॥ १ द. प्रतेः श्रेष्ठः पाठः निर्यामकांश्च, अन्यत्र नियामकांश्चेत्यपपाठः । २ क. सौम्यदिशो, शा. सौम्या दिशो । ३ क. द. ˚सहोदरौ ।