समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 119, कुल 726 में से
संदर्भ में पढ़ें५४ समराङ्गणसूत्रधारे सौराद् याम्यं पदं नीत्वा वारुणं प्रापयेत् ततः । नयेत् पदं ततः सौम्यं तत आदित्यमानयेत् ॥ २८ ॥ भृशादानीय वितथं शोषारुयं वितथादथ । शोषान्मुख्यं समानीय नयेत् तस्मात् पुनर्भृशम् ॥ २९ ॥ ये विभागाः समुद्दिष्टा यथासङ्ख्येन तैरिरह । यज्ञाऽमरनृणां वास्तु समस्तं विभजेत् सुधीः ॥ ३० ॥ देवैः सर्वैरप्यमीभिर्विशोकः प्रीत्युत्कर्षादित्थमालोक्यतेऽसौ । कृत्स्नानेषोऽप्यब्जपत्रायताक्षः पश्यत्येतान् स्फारितेनेक्षणेन ॥ ३१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वास्तुत्रयविभागो नाम एकादशोऽध्यायः ॥ अथ नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः । अथाभिधीयते वास्तुः कनीयान् षोडशास्पदः । पदैः षोडशभिः स स्यात् तत्र देवान् प्रचक्ष्महे ॥ १ ॥ भुङ्क्ते मध्ये स्थितो मुख्यः पदमेकं सुरोत्तमः । क्लृप्तं पदचतुर्भागैश्चतुर्भिश्चतुराननः ॥ २ ॥ पदार्धभागभोक्तारश्चत्वारोऽमी सुरोत्तमाः । अर्यमा च विवस्वांश्च मित्रश्च क्ष्माधरोऽपि च ॥ ३ ॥ सवित्राद्यापवत्सान्ता येऽष्टौ कोणेषु वेधसः । चतुर्भागभुजस्ते स्युस्त्रिदशास्तपनत्विषः ॥ ४ ॥ चतु(र्थी ? र्धी)शादिकोणेषु ये स्थिताः क्रमशः सुराः । अष्टभागभुजस्तेऽष्टौ विनिर्दिष्टा मनीषिभिः ॥ ५ ॥ ये तथादितिपर्यन्ताः पर्जन्याद्याः सुरोत्तमाः । तेऽष्टौ चतुर्भागभुजो विद्वद्भिरिह कीर्तिताः ॥ ६ ॥ १ क. वारुण्यां । २ क. द. अथो विधीयते । ३ द. ख. चतुषष्टीशादिको° ।