समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 120, कुल 726 में से
संदर्भ में पढ़ेंनाड्यादिसिंगदिविकल्पो नाम द्वादशोऽध्यायः ५५ चरकान्ता जयन्ताद्या ये बाह्यस्थितयोऽमराः । १भोगोऽर्धपदिकस्तेषां षोडशानामपि स्मृतः ॥ ७ ॥ चतुरश्रीकृते क्षेत्रे त्रयस्त्रिंशद्विभाजिते । अन्त्ये२पङ्क्तिद्वयं सार्धं चरक्याद्यर्थमुत्सृजेत् ॥ ८ ॥ अन्तरे वीथिकामर्धपदिकामुत्सृजेत् ततः । मध्ये तु सप्तविंशत्या भोगैर्वास्तु विभजयेत् ॥ ९ ॥ एकोनत्रिंशता युक्तं पदानां शतसप्तकम् । यद् भवेत् तत्र गर्भे स्यादेकाशीतिपदः स्वभूः ॥ १० ॥ अष्टादशपदाश्चाष्टौ चापप्रभृतयः पृथक् । अर्यमाद्यं चतुःपञ्चाशत्पदं स्याच्चतुष्टयम् ॥ ११ ॥ ईशाद्यस्त्वदित्यन्ता बाह्या नवपदाः सुराः । देशानां सन्निवेशोऽसौ साहस्त्रो वास्तु रुच्यते ॥ १२ ॥ अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे । एकश्चतुःषष्टिपद३भोगः शतपदोऽपरः ॥ १३ ॥ अष्टधा ४भाजिते वृत्तविष्कम्भे भागिकान्तरान् । चतुरः परिधीन् कुर्यान्मध्यवृत्तं द्विभागिकम् ॥ १४ ॥ स्याद् बहिर्वृत्तवलयमष्टाविंशतिभागिकम् । तदन्तर्वृत्तवलयमष्टाष्टांशोज्झितं क्रमात् ॥ १५ ॥ एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम् । इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ॥ १६ ॥ दशधा भाजिते वृत्तविष्कम्भे भागिकान्तराः५ । कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥ १७ ॥ बहिस्थं वलयं तस्य भजेत् षट्त्रिंशता ततः । शेषं चतुःषष्टिपदस्थित्या ६स्याच्छतवास्तुनि ॥ १८ ॥ १ द. भागार्थं । २ क. अन्ते पङ्क्तित्रयं । ३ द. ख. ॰पदस्तयोः शतपदोत्तरः । ४ द. वृत्त- विभक्ते विष्कम्भे, क. वृत्तत्रिष्कम्भे विभक्ते । ५ द. भागिकान्तरात् । ६ क. स्याद्वृत्तवा० ।