भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

नाड्यादिसिंगदिविकल्पो नाम द्वादशोऽध्यायः ५५ चरकान्ता जयन्ताद्या ये बाह्यस्थितयोऽमराः । १भोगोऽर्धपदिकस्तेषां षोडशानामपि स्मृतः ॥ ७ ॥ चतुरश्रीकृते क्षेत्रे त्रयस्त्रिंशद्विभाजिते । अन्त्ये२पङ्क्तिद्वयं सार्धं चरक्याद्यर्थमुत्सृजेत् ॥ ८ ॥ अन्तरे वीथिकामर्धपदिकामुत्सृजेत् ततः । मध्ये तु सप्तविंशत्या भोगैर्वास्तु विभजयेत् ॥ ९ ॥ एकोनत्रिंशता युक्तं पदानां शतसप्तकम् । यद् भवेत् तत्र गर्भे स्यादेकाशीतिपदः स्वभूः ॥ १० ॥ अष्टादशपदाश्चाष्टौ चापप्रभृतयः पृथक् । अर्यमाद्यं चतुःपञ्चाशत्पदं स्याच्चतुष्टयम् ॥ ११ ॥ ईशाद्यस्त्वदित्यन्ता बाह्या नवपदाः सुराः । देशानां सन्निवेशोऽसौ साहस्त्रो वास्तु रुच्यते ॥ १२ ॥ अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे । एकश्चतुःषष्टिपद३भोगः शतपदोऽपरः ॥ १३ ॥ अष्टधा ४भाजिते वृत्तविष्कम्भे भागिकान्तरान् । चतुरः परिधीन् कुर्यान्मध्यवृत्तं द्विभागिकम् ॥ १४ ॥ स्याद् बहिर्वृत्तवलयमष्टाविंशतिभागिकम् । तदन्तर्वृत्तवलयमष्टाष्टांशोज्झितं क्रमात् ॥ १५ ॥ एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम् । इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ॥ १६ ॥ दशधा भाजिते वृत्तविष्कम्भे भागिकान्तराः५ । कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥ १७ ॥ बहिस्थं वलयं तस्य भजेत् षट्त्रिंशता ततः । शेषं चतुःषष्टिपदस्थित्या ६स्याच्छतवास्तुनि ॥ १८ ॥ १ द. भागार्थं । २ क. अन्ते पङ्क्तित्रयं । ३ द. ख. ॰पदस्तयोः शतपदोत्तरः । ४ द. वृत्त- विभक्ते विष्कम्भे, क. वृत्तत्रिष्कम्भे विभक्ते । ५ द. भागिकान्तरात् । ६ क. स्याद्वृत्तवा० ।

५६ समराङ्गणसूत्रधारे देवतापदसङ्क्षिप्तिरनयोश्चतुरश्रवत् । एवं कार्यवशात् कार्या वास्त्वोऽन्येऽपि धीमता ॥ १९ ॥ त्र्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत् । वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम् ॥ २० ॥ एक एव पुमानेषु^१ बहुधा परिकल्पितः । सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेत् ततः ॥ २१ ॥ शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत् । मुखं मूर्धा ततः श्रोत्रे दृक्तालुवोष्ठरदाः क्रमात् ॥ २२ ॥ वक्षः कण्ठः स्तनौ नाभिर्मेढ्रमुष्कावथो गुदम् । बाहू प्रबाहू पाणी स्फिगूरुजङ्घं पदद्वयम् ॥ २३ ॥ कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः । सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥ २४ ॥ मर्मा‌ण्यथ महावंशा लक्ष्या वास्तुशरीरगाः । सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥ २५ ॥ पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम् । महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥ २६ ॥ प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः । वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥ २७ ॥ यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः । सम्पाता ये स्युरेतेषां मर्म तत् संप्रचक्षते ॥ २८ ॥ उपमर्माणि तान्याहुः पदमध्यानि यानि हि । भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥ २९ ॥ पदतो मानमिष्टं स्याद् वंशादीनामनुक्रमात् । वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥ ३० ॥ ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते^२ चानुसन्धयः । वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥ ३१ ॥ १ क. द. पुमानेष । २ द. तत्रानुसंधयः ।

तदर्थमनुसन्धीनां प्रमाणं समुदीरितम् । यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥ ३२ ॥ द्रव्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत् । महावंशस्य नाक्रान्तिं कुर्याद् द्रव्येण केनचित् ॥ ३३ ॥ इतरेषु पुनर्द्रव्यं मध्यवंशेषु सन्त्यजेत् । महावंशसमाक्रान्तौ भवेत् स्वामिवधो ध्रुवम् ॥ ३४ ॥ वर्षेण तपनाद् भीतिं वंशानां पीडनाद् विदुः । उपमर्माणि रोगाय मर्माणि कुलहानये ॥ ३५ ॥ उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः । कलिः स्यात् १सन्धिद्विद्वेषु पीडितेष्वनुसन्धिषु ॥ ३६ ॥ तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत् । ज्ञात्वा सिराः सानुसिराश्च नाडीर्वंशानुवंशानपि वास्तुदेहे । यत्नेन मर्माणि फलानि चैषां वेधं त्यजेद् यस्तमुपैति नापत् ॥३७॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे नाडीवंशानुवंशानां सिरानुसिरामर्मानुमर्मवेधविकल्पो नाम द्वादशोऽध्यायः ॥

अथ मर्मवेधस्त्रयोदशोऽध्यायः ।

एकाशीतिपदो यः स्यात् तथा शतपदश्च यः । चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥ १ ॥ यद् येन विभजेत् तेषु तदिदानीं प्रचक्ष्महे । यानि मर्माणि चैतेषां कथ्यन्त इह तान्यपि ॥ २ ॥ वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् । एकाशीतिपदेनेन्द्रस्थानं च विभजेत् सुधीः ॥ ३ ॥ प्रासादा विविधास्तद्वद् विचित्राश्चात्र मण्डपाः । तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥ ४ ॥


१ द. सन्धिष्ण (? ष्टू) द्वेगः पी° । वा. ८

९८ समराङ्गणसूत्रधारे । यः पुनः स्याच्चतुःषष्टिपदस्तैन विभाजयेत् । नरेन्द्रशिबिरग्रामखेटादि नगरादि च ॥ ५ ॥ अन्तस्त्रयोदश सुरा द्वात्रिंशद् बाह्यतश्च ये । तेषां स्थानानि मर्माणि सिरा वंशाश्च तेषु तु ॥ ६ ॥ मुखे हृदि च नाभौ च मूर्ध्नि च स्तनयोस्तथा । मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते ॥ ७ ॥ वंशानुवंशसम्पाताः पदमध्यानि यानि च । देवस्थानानि तान्याद्ये पदषोडशकान्विते ॥ ८ ॥ देवस्थानानि सम्पाताश्चतुःषष्टिपदे पुनः । तथैकाशीतिपदिके पदान्तशतिकेऽपि च ॥ ९ ॥ चतुर्ष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् । मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥ १० ॥ भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः । मर्म यत् पीड्यते येन गृहे तत्रोच्यते फलम् ॥ ११ ॥ द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् । दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा ॥ १२ ॥ भवेत् स्वामिक्षयः स्तम्भैस्तुलाभिः स्त्रीपरिक्षयः । स्नुषावधो जयन्तीभिर्बन्धुनाशश्च सङ्ग्रहैः ॥ १३ ॥ मर्मस्थानगतैः १कार्यैर्भर्तुः कायो निपीड्यते । सुहृद्विश्लेषमिच्छन्ति सन्धिपालैश्च तद्विदः ॥ १४ ॥ नागपाशैर्धनोच्छेदो२ नागदन्तैः सुहृत्क्षयः । कपिच्छकैश्च मर्मस्थैः प्रेष्याणां क्षयमादिशेत् ॥ १५ ॥ षड्दारुकाण्यनुसिरागवाक्षालोकनानि च । मर्ममध्योपगान्येतान्यावहन्ति धनक्षयम् ॥ १६ ॥ द्वारद्रव्यतुलास्तम्भनागदन्तगवाक्षकैः । द्वारमध्यार्दितै रोगकुलपीडाधनक्षया( : ? न् ) ॥ १७ ॥ १ क. कार्यैर्भ । २ द. धनोच्चाटो ।

पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः । ५९ नृपदण्डभयं पत्युः पीडनं च प्रचक्षते । द्वारमध्येषु षड्दारुमध्येष्वपि च सूरयः ॥ १८ ॥ कर्णद्रव्यादिभिर्विद्धेष्वेवमेव फलं विदुः । शय्यानुवंशवि²हिता गृहिणां कुलनाशिनी ॥ १९ ॥ क्षयावहा नागदन्ता भर्तुः शय्या³वितानगाः । वातायनैरथ स्तम्भैर्यै विद्धा नागदन्तकाः ॥ २० ॥ ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः । द्रव्यधान्यविनाशाय शोकाय कलहाय च ॥ २१ ॥ गृहमध्यगतं द्वारं भवेत् स्त्रीदूषणाय च । द्रव्येणान्यतरेणापि महामर्म निपीडितम् ॥ २२ ॥ भवेत् सर्वस्वनाशाय गृहिणो मरणाय ⁵च । अंशुकाश्चोर्ध्ववंशाश्च६ तुम्बिकाः सेन्द्रकीलकाः ॥ २३ ॥ पुरप्रासादगेहानां वेधेऽप्येते न दोषदाः ॥ इत्थं सुरक्षितिपवर्णगृहाश्रितोऽयं भेदः पदेष्वखिलमर्मगतो व्यधश्च । उक्तः पृथक्पृथगमुष्य फलं च सम्यग् ब्रूमोऽथ वास्तुपुरुषाङ्गविभागमत्र⁷ ॥ २४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मर्मवेधो नाम त्रयोदशोऽध्यायः ॥ अथ पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः । देवतानां पदैरित्थं संविभक्तैः पृथग्विधैः । स्थपतिः प्रयतः कुर्याद् वास्तुमित्थं पुमाकृतिम् ॥ १ ॥ १ द. भयापत्यं । २ क. निहिता । ३ क. शय्यावहानगाः, द. शय्यागतानगाः । ४ क. मर्मणि पीडिते, द. महामर्मनिपीडिते । ५ द. वा । ६ क. चार्थवंशवास्तु, द. सोर्ध्ववंशास्तु । ७ द. ॰मग्रे ।

६० समराङ्गणसूत्रधारै शिरस्तस्याग्निरुद्दिष्टं दृष्टिरित्यम्बुदाधिपौ । जयन्तश्चादितिश्चास्य कर्णौ वायुर्मुखे स्थितः ॥ २ ॥ अर्कः स्याद् दक्षिणे वामे भुजे सोमः प्रतिष्ठितः । महेन्द्रचरकौ सापवत्सावस्योरसि स्थितौ ॥ ३ ॥ स्तनेऽर्यमा दक्षिणे स्याद् वामे च पृथिवीधरः । यक्ष्मा रोगश्च नागश्च मुख्यो भल्लाट इत्यमी ॥ ४ ॥ दक्षिणेतरमेतस्य बाहुं देवाः समाश्रिताः । सत्यो भृशो नभो वायुः पूषा चेत्यथ दक्षिणम् ॥ ५ ॥ पश्चापि बाहुमेतस्य संश्रितास्त्रिदिवौकसः । सावित्रसवितारौ च रुद्रशक्तिधरावपि ॥ ६ ॥ चत्वारोऽमी १क(लाधि ? फोणि)स्थाः करयोर्हृदि च स्वभूः । वितथौकः क्षतौ पार्श्वे दक्षिणेऽस्य व्यवस्थितौ ॥ ७ ॥ वामे पुनः स्थितावस्य देवौ शोषासुराभिधौ । मित्राभिधो विवस्वांश्च द्वावप्युदरमाश्रितौ ॥ ८ ॥ मेढ्रमध्यस्थितावस्य सुराविन्द्रजयाभिधौ । यमश्च वरुणश्चोर्वोः क्रमाद् दक्षिणवामयोः ॥ ९ ॥ गन्धर्वभृङ्गौ २समृगौ जङ्घां राज्यामथेतराम् । द्वास्थसुग्रीवपुष्पाख्याः ३ संश्रिताः पितरोऽङ्घ्रिगाः ॥ १० ॥ एकाशीतिपदस्येशदिग्विभागाश्रितं शिरः । माहेन्द्रीसंश्रितं विद्याच्चतुःषष्टिपदस्य तु ॥ ११ ॥ एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः । यः षोडशपदः स स्याच्चतुष्षष्टिपदोद्भवः ॥ १२ ॥ मध्ये य ४एव देवानां स्थितो ब्रह्माब्जसंभवः । स सहस्राननोऽचिन्त्यविभवो जगतां प्रभुः ॥ १३ ॥ १ द. कलाधिस्थाः । २ द. सशृङ्गौ । ३ द. ॰सुग्रीवपुष्पाख्यौ । ४ द. एष ।

पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः । ६१ योऽयं वह्निरिहोक्तः स सर्वभूतहरो हरः । पर्जन्यनामा यश्चायं १वृष्टिमानम्बुदाधिपः ॥ १४ ॥ जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः । महेन्द्रस्तु सुराधीशो दनुजानां विमर्दनः ॥ १५ ॥ आदित्यं पुनरिच्छन्ति विवस्वन्तमहस्करम् । सत्यो भूतहितो धर्मो भृशः कामोऽथ मन्मथः ॥ १६ ॥ योऽन्तरिक्षः स्मृतो देवस्तन्नभः समुदाहृतम् । मारुतो वायुरुद्दिष्टः पूषा मातृगणः स्मृतः ॥ १७ ॥ अधर्मो वितथाख्यः स्यात् कलेरप्रतिमः सुतः । गृहक्षतः पुनर्योऽत्र स चन्द्रतनयो बुधः ॥ १८ ॥ प्रेताधिपो मतः श्रीमान् यमो वैवस्वतश्च सः । गन्धर्वो भगवान् देवो नारदः परिकीर्तितः ॥ १९ ॥ भृङ्गराजमिहेच्छन्ति राक्षसं निर्ऋतेः सुतम् । यो मृगोऽस्मिन्ननन्तः स स्वयंभूर्धर्म इत्यपि ॥ २० ॥ आदिः प्रजापतिः २स्रष्टा मनुः सुग्रीव ईरितः । पुष्पदन्तस्तु विनतातनयः स्यान्महाजवः ॥ २१ ॥ वरुणः पाथसां नाथो लोकपालः स कीर्तितः । असुरो राहुरर्केन्दुमर्दनः सिंहिकात्मजः ॥ २२ ॥ शोषस्तु भगवानेष सूर्यपुत्रः शनैश्चरः । पापयक्ष्मा क्षयः प्रोक्तो रोगस्तु कथितो ज्वरः ॥ २३ ॥ भुजङ्गमानामधिपः श्रीमान् नागस्तु वासुकिः । त्वष्टा स्यान्मुख्यसंज्ञोऽत्र विश्वकर्माभिधश्च सः ॥ २४ ॥ चन्द्रो भल्वाट३ इत्युक्तः कुबेरः सोमसंज्ञितः । चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ॥ २५ ॥ १ द. वृष्टिमान् स घनाधिपः । २ क. ब्रह्मा । ३ भल्लाट इति प्राक् पाठः ।

दितिरत्रोच्यते शर्वः शूलभृद् वृषभध्वजः । हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥ २६ ॥ आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते । १देवी गङ्गात्र विद्वद्भिः सवितेति प्रकीर्तिता ॥ २७ ॥ मृत्युः शरीरहर्त्तासौ विवस्वानिति स स्मृतः । जयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥ २८ ॥ मित्रो हलधरो माली रुद्रस्तूक्तो महेश्वरः । राजयक्ष्मा गुहः प्रोक्तः क्षितिध्रोऽनन्त उच्यते ॥ २९ ॥ चरकी च विदारी च पूतना पापराक्षसी । रक्षोयोनिभवा ह्येता देवतानुचरीर्विदुः ॥ ३० ॥ इत्येष वास्तुदेवानां निघण्डुः परिकीर्तितः । क्षो मूर्ध्नि हो दृशोर्मध्ये सो घ्राणे चिबुके तु षः ॥ ३१ ॥ शः कण्ठे हृदये वः स्याल्लकारो नाभिदेशगः । रेफो बस्तौ यकारस्तु मेढ्रे मः २(पुष्य? मुष्क)कावुभौ ॥ ३२ ॥ नकार ऊरुणो जानु ञकारः पिण्डिकाश्रितः । ३(ड ? ङ)कारो गुल्फयोरन्ते पकारोऽङ्घ्रितले स्मृतः ॥ ३३ ॥ उक्तानि वास्तुपुरुषस्य यथावदित्यमङ्गानि वास्तुपददैवतनामभेदाः । वर्णाश्च वास्त्ववयवेष्विह षोडशैव ब्रूमोऽथ दैवतवशेन पुरे ४निवेशम्॥३४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पुरुषाङ्गदेवतानिघण्ट्वक्षराङ्गनिर्णयो नाम चतुर्दशोऽध्यायः । अथ राजनिवेशो नाम पञ्चदशोऽध्यायः । कृते पुरनिवेशेऽथ चतुःषष्टिपदाश्रये । नियुक्तपरिखासालगोपुराट्टालकेऽपि च ॥ १ ॥ १ इत आरभ्यार्धपञ्चक, द. ख. पुस्तकयोर्न पठ्यते । २ ‘पुष्यकावि’ति क. पाठः, ‘पुत्रका- वि’ति द. ख. पाठश्चाशुद्धौ, ग. पुस्तके तु पत्रं लुप्तम् । ३ ‘डगुल्फगष्टकारोङ्गोः सिकारोऽङ्घ्रि (?)’ द. ख. पाठः । ४ क. निवासम्, द. निवेशा ।

राजनिवेशः पञ्चदशोऽध्यायः । ६३ विभक्तरथ्ये परितः प्रविभाजितचत्वरे । क्रमादन्तर्बहिः कॢप्तदेवतायतनस्थितौ ॥ २ ॥ प्रागुदक्प्रवणे देशे प्राग्द्वाराभ्युन्नतेऽथवा । यशःश्रीविजयाधायि मैत्रं पदमधिष्ठितम् ॥ ३ ॥ यथावर्णक्रमायातं चतुरश्रं समं शुभम् । पुरमध्यादपरतोदिक्स्थं कुर्यान्नृपालयम् ॥ ४ ॥ दुर्गेषु भूवशात् कार्यं यद्वा दिक्ष्वपरास्वपि । विवस्वद्भूधरार्यम्णां कार्यमन्यतमे पदे ॥ ५ ॥ त्रिचत्वारिंशता युक्ते ज्येष्ठं स्याद् द्वे धनुःशते । मध्यं शतं तु द्वाषष्टिः शतं साष्टकमन्तिमम् ॥ ६ ॥ ज्येष्ठे पुरे विधातव्यं ज्येष्ठं राजनिवेशनम् । मध्यमे मध्यमं कार्यं कानिष्ठं च कनीयसि ॥ ७॥ प्राकारपरिखागुप्तं चारुकान्ति समन्ततः । तमङ्गाभ्रमनिर्यूहसुदृढाट्टालकान्वितम् ॥ ८ ॥ एकाशीत्या पदैर्भक्तं विधेयं नृपमन्दिरम् । राजमार्गं समाश्रित्य वास्तुद्वारमुदङ्मुखम् ॥ ९ ॥ युक्त्यानयैव कर्तव्यमन्यदिक्संश्रयेऽपि च । भल्लाटपदवर्त्यस्य गोपुरद्वारमिष्यते ॥ १० ॥ तत्पुरद्वारविस्तारोच्छ्रायसम्मितमिष्टदम् । महेन्द्रं द्वारमिच्छन्ति निविष्टस्य महीधरे ॥ ११ ॥ वैवस्वते पुष्पदन्तमर्यम्णि च गृहक्षतम् । अन्येष्वेषामपरतः प्रदक्षिणपदेष्वथ ॥ १२ ॥ अन्यान्यपि स्वासु दिक्षु द्वाराण्येवं प्रकल्पयेत् । आभिमुख्ये च सर्वेषां शस्यन्ते गोपुराणि च ॥ १३ ॥ तदीयनगरद्वाराद् विंशात्यंशोज्झितानि वा । पक्षद्वाराणि सुग्रीवे जयन्ते मुख्यनाम्नि च ॥ १४ ॥ १ द. ख. यथावर्ण ।

६४ समराङ्गणसूत्रधारे वितथेऽथ भ्रमांस्तद्वद् विदधीत प्रदक्षिणान् । वास्तौ विभक्ते पुरवत् कॢप्तेऽमरपदव्रजैः ॥ १५ ॥ तत्र मैत्रपदस्थाने निवेशायावनीपतेः । प्रासादः प्राङ्मुखः कार्यों यथावत् पृथिवीञ्जयः ॥ १६ ॥ श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम् । यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् ॥ १७ ॥ शालापरिक्रमोपेतकर्मान्तैरपि चान्वितम् । तत्र प्राच्यां भवेद् गेहमादित्यपदसंश्रितम् ॥ १८ ॥ धर्माधिकरणं सत्ये व्यवहारेक्षणाय च । भृशे च कोष्ठागारं स्यादम्बरे मृगपक्षिणाम् ॥ १९ ॥ अग्नेः ककुभमाश्रित्य कार्यं वायोर्महानसम् । सभाजनाश्रयं पूष्णि विदध्याद् भोजनास्पदम् ॥ २० ॥ सावित्रे वाद्यशाला स्यात् सवितुस्थाश्च वन्दिनः । चर्माणि वितथे कुर्यान् तयोग्यान्यायुधानि च ॥ २१ ॥ स्वर्णरूप्यादिकर्मान्तान् विदधीत गृहक्षते । याम्ये दक्षिणतो गुप्तिं कोष्ठागारं च कल्पयेत् ॥ २२ ॥ प्रेक्षासङ्गीतकानि स्युर्गन्धर्वे वासवेश्म च । कार्या वैवस्वते शाला रथानां दन्तिनां तथा ॥ २३ ॥ पश्चिमोत्तरभागस्थां वापीमपि च कारयेत् । वा(यौ ? यु)सुग्रीवपदयोर्गन्धर्वस्य च बाह्यतः ॥ २४ ॥ कुर्यादन्तःपुरस्थानं प्राकारवलयावृतम् । कुर्यात् तद्गोपुरद्वारमुदगास्यं जयाभिधे ॥ २५ ॥ कार्यः स्थपतिना चैव प्रासादश्चापराङ्मुखः । क्रीडादोलालयन् भृङ्गे कुमारीभवनं तथा ॥ २६ ॥ नृपान्तःपुरमिच्छन्ति मृगे पित्र्ये त्ववस्करम् । नृपस्त्रीणामुपस्थानगृहमिन्र्द्रपदे विदुः ॥ २७ ॥ १ द. ख. व्रजेत् । २ क. पृथिवीजयः, द. पृथिवींजयः । ३ द. ख. पक्षिणः । ४ द. ˚इन्दु˚ ।

राजनिवेशः पञ्चदशोऽध्यायः । ६५ सुग्रीवपदसंसक्तमरिष्टारमिष्टदम् । द्वारस्थसुग्रीवपि(त्र्यं ? त्र्यां)शपश्चाद्भागे मनोहरा ॥ २८ ॥ विधेयाशोकवनिका स्नानधारागृहाणि च । लतामण्डपसंयुक्ताः स्युरत्रैव लतागृहाः ॥ २९ ॥ दारुशैलाश्च वाप्यश्च पुष्पवीथ्यः सुकल्पिताः । पुष्पदन्ते भवेद् य(त्त ? न्त्र)कर्मान्तः पुष्पवेश्म च ॥ ३० ॥ वरुणस्य पदे कुर्याद् वापीपानगृहाणि च । स्यात् कोष्ठागारमसुरे शोषे त्वायुधमन्दिरम् ॥ ३१ ॥ भाण्डागारं तु रौद्राख्ये विदध्यात् स्थपतिः श्रिये । उलूखलशिलायन्त्रभवनं पापयक्ष्मणि ॥ ३२ ॥ दारुकर्मान्तमप्याहुः श्रेयसे राजयक्ष्मणि । ²स्यादोषधेरधिष्ठानं रोगे दिशि नभस्वतः ॥ ३३ ॥ नागानां शस्यते स्थानं पदे नागस्य सूरिभिः । भवन्ति मुख्ये व्यायामनाट्यचित्रगृहाणि च ॥ ३४ ॥ गवां स्थानं तथा क्षीरगृहं ³भल्लाटनामनि । उदक्प्रदेशे सौम्यस्य पुरोधःस्थानमिष्यते ॥ ३५ ॥ ⁴राज्ञोऽभिषेचनं चात्र दानाध्ययनशान्तयः । चामरच्छत्रधाम स्यान्मन्त्रै⁵वेश्म च भूधरे ॥ ३६ ॥ कार्याणां चात्र कार्याणि स्थितः पश्येन्नराधिपः । विधेया मन्दुराश्वानामुत्तरं पार्श्वमाश्रिता ॥ ३७ ॥ महीधरपदस्यैव यथावद् दक्षिणामुखी । कार्या सर्वत्र चाश्वानां शाला राज्ञो यथागृहम् ॥ ३८ ॥ विशतो दक्षिणेन स्याद् वामेन च विषाणिनाम् । वेश्मानि राजपुत्राणां विदध्याच्चरकाभिधे ॥ ३९ ॥


१ क. दन्तकर्मान्तः, द. यन्त्रकर्मान्तः । २ द. स्यादौषधैरधिष्ठानं । ३ द. भल्वाट° । ४ क. राजाभिषेचनं । ५ द. ख. मन्त्रि° । वा. ९

३६ समराङ्गणसूत्रधारे अत्रैव विद्याधिगमशालाश्चैषां निवेशयेत् । नृपस्य मातुरदितिस्थाने कुर्यान्निवेशनम् ॥ ४० ॥ पृथगत्रैव शिबिकाशय्यासनगृहं विदुः । नृपद्विपानां शस्ता स्यादापे सदनकल्पना ॥ ४१ ॥ अभिषेकनकं स्थानमिहैव स्याद् विषाणिनाम् । आपवत्सपदे हंसक्रौञ्चसारसनादिताः ॥ ४२ ॥ स्युः फुल्लाब्जवनाः स्वच्छसलिलाः सलिलाशयाः । पितृव्यमातुलादीनां कार्य दितिपदे गृहम् ॥ ४३ ॥ अन्येषामपि चात्रैव १सामन्तानां महीपतेः । ऐशान्यामनलस्थाने वोच्छ्रितस्तम्भवेदिकम् ॥ ४४ ॥ कार्यं देवकुलं चारु २ सुश्लिष्टमणिकुट्टिमम् । पर्जन्यस्य पदे होराज्योतिर्विद्गृहमिष्यते ॥ ४५ ॥ जये सेनापतेर्वेश्म विधेयं विजयप्रदम् । द्वारं प्राकारमाश्रित्य पदेऽर्यम्णः प्रशस्यते ॥ ४६ ॥ प्राग्दक्षिणाश्रितं शस्त्रकर्मान्तं शस्त्रमत्न च । विमुञ्चेद् ब्रह्मणः स्थानमिन्द्रध्वजयुतं नृणाम् ॥ ४७ ॥ तत्राशुभानि वेश्मानि विवेश्याश्वासुखावहाः । गवाक्षस्तम्भशोभिन्यो विधेयाश्चानुकामतः ॥ ४८ ॥ सभा यथादिक्प्रभवा नृपवेश्माभिगुप्तये । सर्वत्र नृपतेः सौधान् नृपसौधस्य सम्मुखा ॥ ४९ ॥ पश्चाद्भागाश्रिता यद्वा शाला कार्या विषाणिनाम् । इत्यास्पदं सुरपदास्पदकल्पमाद्य- मेतद् यथावदनुतिष्ठति यः सैव । स क्ष्मामिमां भुजबलक्षपितारिपक्षः सप्ताम्बुराशिरशनां नृपतिः प्रशास्ति ॥ ५० ॥


१ द. समन्तानां । २ क. चात्र ।

वनप्रवेशः षोडशोऽध्यायः। ६७ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजनिवेशो नाम पञ्चदशोऽध्यायः ॥ अथ वनप्रवेशो नाम षोडशोऽध्यायः । प्राग्वोदग्वापि गेहार्थं द्रव्यं विधिवदानयेत् । गन्तव्यमेव धिष्ण्येषु¹ मृदुक्षिप्रचरेषु च ॥ १ ॥ उपवास्यं च तेष्वेव च्छेद्यं भेद्यं च दारुणैः । प्रवेशनं स्थिरैः कार्यमारम्भः शस्यते चरैः ॥ २ ॥ गत्वा शुभे शुचौ देशे निवेशं कारयेत् ततः । तस्मिन्निवेश्य कर्मान्तमन्नपानेन तर्पयेत् ॥ ३ ॥ पुष्टतुष्टपरीवारः क्षपायां समु Schneiderोषितः । गृहयोग्यं परीक्षेत न्यस्तशस्त्रस्ततोऽङ्घ्रिपम् ॥ ४ ॥ पुरश्मशानग्रामाध्वह्रदचैत्याश्रमोद्भवान् । क्षेत्रोपवनसीमान्तविषमस्थलनिम्नजान् ॥ ५ ॥ कट्वम्लतिक्तलवणाखवनीषु नथोद्गताम् । श्वभ्रावृतान् स्थिरोर्वीषु सम्भूतांश्च त्यजेद् द्रुमान् ॥ ६ ॥ सम्यक् संलक्ष्य वृक्षाणां वर्णस्नेहत्वगादिकम् । विजानीयाद् वयस्तेषां बालान् वृद्धांश्च सन्त्यजेत् ॥ ७ ॥ शतानि त्रीणि वर्षाणां सारद्रुमवयः स्मृतम् । गृह्णीयात् षोडशादूर्ध्वं सार्धवर्षशतावधेः ॥ ८ ॥ वयसः परिणामेन निर्वीर्यत्वं यथा नृणाम् । प्रोक्तं तद्वद् द्रुमाणां च स्यात् तथा छिद्रपत्रता ॥ ९ ॥ भङ्गुराः सुषिरास्ते स्युः सकोलाक्षाः खरत्वचः । तस्मादिमांस्त्यजेद् वृक्षस्तथा चैवोर्ध्वशोषिणः ॥ १० ॥ वक्रान् रूक्षानवप्लुष्टान् दुःस्थितानपि च द्रुमान् । वर्जयेद् भग्नशाखांश्च ह्येकशाखान्वितांस्तथा ॥ ११ ॥ १ धिष्ण्येषु नक्षत्रेषु । २ द. वृक्षान्ये तथा चोर्ध्वशोषिणः ।

६८ समराङ्गणसूत्रधारे अन्यैरधिष्ठितान् विद्युत्पातवातसरित्क्षतान् । ग्रन्थिनिर्यूक्तदानांश्च भ्रमराह्निकृताश्रयान् ॥ १२ ॥ संसृष्टानकतो ³भ्रष्टान् मधुभिर्बलिभिर्वृतान । मांसामेध्याशनैस्तद्वद् दूषितानपि पक्षिभिः ॥ १३ ॥ लूतातन्त्वावृतान् वन्यसत्त्वोद्घृष्टान् गजक्षतान् । बुघ्नतोऽतिबृहत्स्कन्धांश्छिद्रभूतांस्तथाध्वनः ॥ १४ ॥ अकाले पुष्पफलिनो रोगैरपि च पीडितान् । वासभूतानुलूकानां त्यजेदन्यानपीदृशान् ॥ १५ ॥ खदिरो बीजकः सालो मधूकः शाकशिंश (पौ ? पे) । सर्जार्जुनाञ्जनाशोकाः कदरो रोहिणीतरुः ॥ १६ ॥ विकङ्कतो देवदारुः श्रीपर्णीपादपस्तथा । कुटुम्बिनाममी प्रोक्ताः पुष्टिदा जीवदास्तथा ॥ १७ ॥ वृक्षाणां लक्ष्यते येषां भारवारिसहिष्णुता । ते यथायोग्यमन्येऽपि शस्यन्ते गृहकर्मणि ॥ १८ ॥ कर्णिकारधवप्लक्ष कपित्थविषमच्छदाः । शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधचम्पकाः ॥ १९ ॥ निम्बाम्रकोविदाराँश्चव्याधिघातांश्च गर्हिताः । गृहकर्मणि नेष्टास्ते यतस्तेऽनिष्टदायिनः ॥ २० ॥ नेष्टाः कण्टकिनः स्वादुफलाः क्षीरद्रुमाश्च ये । सुगन्धयश्च ये तद्वद् ध्रुवं तेषु पशुक्षयः ॥ २१ ॥ सत्त्वप्रमाणच्छाया तु नियतं दृश्यते यदा । द्रुमच्छाया तदा ग्राह्या तत्प्रमाणस्तु स द्रुमः ॥ २२ ॥ नक्षत्रं लक्षयेद् वृक्षे पूर्वस्यां दिशि तत्क्षितेः । स्याद् भस्याद्यक्षरं यस्य तत्र जातं तमादिशेत् ॥ २३ ॥ १ द. ख. वाताशनिक्षतान् । २ क. ग्रन्थिभिर्युक्तं, द. ग्रन्थिभिर्युक्तहीनांश्च । ३ द. ग्रस्तान् । ४ क. कोविदराख्या विधेयास्ते च ।

[Header] वनप्रवेशः षोडशोऽध्यायः । ६९

[Main Text] क्षेम्यं तं स्वामिनो वृक्षं ज्ञात्वा साधकमेव च । अग्रन्थिकोटरं स्निग्धमृजुं सारसमन्वितम् ॥ २४ ॥ पीनस्कन्धं हरितपत्रं वृत्तं चाभ्यर्च्य पादपम् । द्विजान् सन्तर्प्य च स्वस्ति वाच्यं च स्थपतिस्ततः ॥ २५ ॥ पक्वापक्वामिषैस्तद्वद् भूतभक्तैः सुरासवैः । गन्धैश्च धूपमाल्यैश्च बलिं दद्यान्निशागमे ॥ २६ ॥ १अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि । २कल्पनं वर्तयिष्यामि क्रियतां वासपर्ययः ॥ २७ ॥ धन्यः शिवः पुष्टिकराः प्रजावृद्धिकरो भव । स्वस्ति (ते ? च )न्द्रानिलयमाः सूर्यरुद्रानलास्तथा ॥ २८ ॥ दिशो नद्यस्तथा शैलाः पान्तु त्वामृषिभिः सह । जल्पेद् यो मानुषगिरा कम्पते वाभिमन्त्रितः ॥ २९ ॥ स त्याज्यः स्यात् तथा म्लानप्रवालकुसुमश्च यः । ततो भास्करमालोक्य वृक्षं कृत्वा प्रदक्षिणम् ॥ ३० ॥ स्वस्तिवाक्येन विप्राणां छेत्ता स्थित्वोदगाननः । प्राङ्मुखो वा तरुं छिन्द्याच्छस्त्रैः क्षौद्रार्दिताननैः ॥ ३१ ॥ शाखिनश्छिद्यमानस्य जायते यद्यसृक्स्रुतिः । कम्पनं वा ध्वनिर्वादपि मृत्युः स्याद् गृहिणस्तदा ॥ ३२ ॥ यद्वा दधिमधुक्षीरघृनानि स्रवति द्रुमः । छिद्यमानस्तदा विद्याद् ३बन्धव्याधिन् कुटुम्बिनः ॥ ३३ ॥ अतीव यस्य स्रवति श्यामः स्नेहान्वितो रसः । सुगन्धिः स्वल्पमधुरः कषायः स प्रशस्यते ॥ ३४ ॥ प्राच्यां शुभस्तरोः पान उदीच्यां कर्मसाधकः । याम्यप्रत्यङ्निपाते तु शान्तिं कृत्वा द्रुमं त्यजेत् ॥ ३५ ॥ ज्ञातितः स्यात् तदा भीतिर्यदान्यं मर्दयेत् पतन् । दूरं दलति यो मू(लं ? ले) च्छिन्नो वा धरणीरुहः ॥ ३६ ॥

[Footnotes] १ द. आक्रमन्ति च भूतानि । २ द. कल्पान्तं वर्तयिष्यामि । ३ द. वधव्याधीन् ।

७० समराङ्गणसूत्रधारे कूजयतीव वायुश्च स्मृतः १सोऽथ शुभप्रदः । खरोष्ट्रयोः शृगालानां दर्शनं भुजगस्य वा ॥ ३७ ॥ छेदे स्यात् कर्मविघ्नाय निगडैर्बन्धनाय वा । हलचक्रपताकाब्जध्वजच्छत्रादिदर्शनम् ॥ ३८ ॥ श्रीवृक्षवर्धमानादिदर्शनं वा शुभप्रदम् । उत्क्षिप्यते यदि छेदात् तदर्द्धिः स्यात् कुटुम्बिनः ॥ ३९ ॥ सर्वतः परिहानिः स्याच्छिन्नश्चाक्षिप्यते यदि । एकवृक्षे यथोद्दिष्टलक्षणोत्क्षेपदर्शने ॥ ४० ॥ शेषान् दोषविनिर्मुक्तान् पादपानुपलक्षयेत् । धीरस्तं कल्पयेत् सम्यगनुलोमार्जवं तरुम् ॥ ४१ ॥ छिन्द्याच्च२ शुभभागार्ध३दशभागाधिकं कृतम् । ४तुङ्गीसाचवमध्यश्च(?) सगर्भो धरणीरुहः ॥ ४२ ॥ ज्ञेयानि मण्डलान्यस्य त(त्क्षणोच्छे ? क्षणे छे)दनेऽपि च । मञ्जिष्ठाभे विदुर्भेकं कपिलाभे च मूषकम् ॥ ४३ ॥ पीतभासि तथा गोधां सर्पं दीर्घसितायते । गुडच्छाये मधु भवेत् कृकलासस्तथारुणे ॥ ४४ ॥ गृहगोधा कपोताभे गौधेरो घृतमण्डभे । रसाञ्जनाभे शक्राभे कमलोत्पलभासि च ॥ ४५ ॥ धौतासियष्टिवर्णे च मण्डले जलमादिशेत् । आकारो यस्य सर्पस्य वर्णो वा संप्रदृश्यते ॥ ४६ ॥ तं सर्पगर्भितं वृक्षमादिशेदविचारयन् । तस्करेभ्यो भयं क्षौद्रे सलिले सलिलाद् भयम् ॥ ४७ ॥ विद्यात् सर्पे विषाद् भीतिं पाषाणे भयमग्नितः । अजाविगोमहिष्युष्ट्ररासभादिनिपीडितम् ॥ ४८ ॥ गोधागौधेरमण्डूककृकलासैश्च गर्भिते । मूषके पुनरिच्छन्ति मरणं वास्तुवेदिनः ॥ ४९ ॥ १ द. सोऽप्यशुभप्रदः । २ क. छिन्द्यातु । ३ शा. गार्थे । ४ द. तुंगीत्याद्यधमध्यस्कं ( ? ) ।

अमुनैव वदन्त्यन्ये गृहपीडां मनीषिणः । क्षेमेण यद्यविघ्नः स्यादासङ्गश्चागमो यदि ॥ ५० ॥ वनान्तरे तदा क्षेमं सुभिक्षं च समादिशेत् अर्घदानविधिना विधानविद् द्रव्यमागतमिहार्चयेद् गृही । प्रत्युपेते^१कुलिशायुधध्वजं द्रव्यमुज्ज्वलमुतावनीपतिः ॥ ५१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वनप्रवेशो नाम षोडशोऽध्यायः ।

अथ इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः ।

सुराणामर्थसिद्ध्यर्थं वधाय च सुरद्रुहाम् । यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥ १ ॥ भगवन्तमथाम्भोजसंभवं वचसांपतिः । प्रोवाच कथमिन्द्रेण जेतव्यास्त्रिदशद्विषः ॥ २ ॥ सोऽब्रवीत् सर्वरत्नानां ध्वजं कुरुत सङ्गताः । तं चाभिचारिकैर्मन्त्रैरुद्द्वहन्तोऽभिमन्त्रितम् ॥ ३ ॥ स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम् । अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥ ४ ॥ सहस्रधारमप्येकमन्यं रिपुकुलान्तकम् । दिव्यरूपमयं प्रादाद् ध्वजमिन्द्राय दुर्धरम् ॥ ५ ॥ वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते । कर्मणानेन निःशेषाञ् शक्रः शत्रूञ् जयेदिति ॥ ६ ॥ जहृषी तमथ क्षिप्रमसृजच्चेतसा ध्वजम् । यन्त्रस्थितं स येनाजावमोहयदरीन् हरिः ॥ ७ ॥ आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ । अलञ्चक्रुस्तमालोक्य मरुतश्च विभूषणैः ॥ ८ ॥


१ द. ख. प्रत्युपेत्य ।

७२ समराङ्गणसूत्रधारे तेजो वीर्यं वपुश्चेष्टां बलमप्येष पश्यताम् । अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥ ९ ॥ तमभ्यर्च्य सुराधीशः शत्रून् बलवतोऽप्यसौ । त्रिरात्रेणाजयद् युद्धे कुलिशेन बलाद् बली ॥ १० ॥ ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ । त्रैलोक्यराज्यं प्राप्याभ्यषिञ्चद् बलनिषूदनः ॥ ११ ॥ स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः । ध्वजमभ्यर्च्य तुष्टाव वाक्यैर्वृत्रनिषूदनः ॥ १२ ॥ ततस्तमन्तिके वीक्ष्य ध्वजं प्रोवाच वासवः । इन्द्रध्वजाक्षया लोकाः करिष्यन्ति तवार्चनम् ॥ १३ ॥ वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः । ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥ १४ ॥ वरप्रदानादिन्द्रस्य नृपैः शक्रध्वजोऽर्च्यते । दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥ १५ ॥ विचित्राः स्थालिकापाका भक्ष्यपानानि यानि च । एतान्यायतनार्तं प्राक् स्युर्यद्द्रव्यानि प्रकल्पयेत् ॥ १६ ॥ विजेतुं यदि वाञ्छन्ति दुर्धर्षान् द्वेषिणो रणे । तेजो बलं यशश्चाप्तुं तदैन्द्रं कारयेद् ध्वजम् ॥ १७ ॥ सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम् । विजयार्थं महीपालैरभिप्रशमनाय च ॥ १८ ॥ यथा शक्रध्वजोत्थानविधानं जगतीभुजः । करिष्यन्ति तथा सम्यक् कार्त्स्न्येन प्रतिपाद्यते ॥ १९ ॥ वनादुपाहृतं द्रव्यमथ प्राग्विधिना सुधीः । पाद्यार्घ्यादिभिरभ्यर्च्य गन्धैर्माल्यैरलङ्कृतम् ॥ २० ॥ द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः । पूर्वाग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥ २१ ॥


१ द. ख. इन्द्रध्वजाख्यया । २ शा. काक्षताः । ३ द. न्यायतनानि स्युर्यं । ४ शा. ॰रेमिः ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७३ प्रागुदग् वा पुरस्याथ स्थपतिः कर्मवानपि । कारयेत् सर्वयन्त्राणि ध्वजपूर्वाणि शिल्पिभिः ॥ २२ ॥ श्रेष्ठं द्वात्रिंशता हस्तैर्विंशत्या युतंयाष्टभिः । मानं स्यान्मध्यमं तस्य चतुरन्वितयाधमम् ॥ २३ ॥ मूलविस्तृतिरायामादङ्गुलाधं करे करे । विष्कम्भोऽग्रे च मूलाधोत् तत्तूर्याशाद् वाखिलेष्वपि ॥ २४ ॥ ध्वजमूलाष्टमांशोनं विस्तारात् कुष्यमिष्यते । २विस्तारार्धेन च स्थूलं स्थूलत्वत्रिगुणायतम् ॥ २५ ॥ ध्वजविस्तारबहलं साङ्घ्रिबाहल्यविस्तृतम् । भ्रमपीठं विधातव्यं सार्धायामं शुभावहम् ॥ २६ ॥ सम्मितो ३ध्वजकुष्येण वेधः स्याद् भ्रमपीठगः । कुष्यकोष्ठ्यधिकां४वृत्तावक्षौ कोटिद्वयायतौ ॥ २७ ॥ कार्यावङ्घ्री भ्रमस्थूलौ भ्रमविस्तृतिविस्तृतौ । तद्युक्तिवेधे तावेत(वि ? द्वि) स्तुतेर्द्विगुणोच्छ्रितौ ॥ २८ ॥ ध्वजायतितुर्भागात् पीठमत्र प्रकल्पयेत् । मल्लप्रतिष्ठितं मध्ये प्रान्तयोः स्तम्भधारितम् ॥ २९ ॥ तत्पीठस्तम्भनीयाभ्यां द्वाराभ्यामन्वितं दृढम् । याम्योत्तरप्रतिक्षोभं प्राङ्मुखं सुदृढार्गलम् ॥ ३० ॥ केतुव्यासार्धविस्तारं तद्दैर्ध्याष्टांशकोच्छ्रितम् । विस्तारसदृशायामं मध्ये स्याद् वज्रिणो गृहम् ॥ ३१ ॥ मल्लश्च पीठिकाङ्घ्री च बाहू स्तम्भविनिर्गतौ । शक्रमाता कुमार्यश्च ध्वजविस्तृतिविस्तृताः ॥ ३२ ॥ निम्नभागाश्च सर्वेषां स्वविस्तृतिचतुर्गुणाः । कार्या वा पञ्चगुणिताः सैप्त (का ? वा) मूलदेश(कं ? तः) ॥३३॥ १ द. विस्तरात् । २ द. विस्तारार्धेन । ३ द. ध्वजकुप्येण वधः । ४ शा. द. °त्रिको वृत्ता कक्षौ । ५ द. स्रत्वक्तामूलदेशकः । वा, १०

७४ समराङ्गणसूत्रधारे। कन्यानामुदयः प्रोक्तो यः ष(ष्ठ्यो ?)¹ष्ठांशस्त्रिसंगुणः। इन्द्रमाता तु सर्वाभ्यः स्यात् तदष्टांशतोऽधिका ॥ ३४ ॥ वेधः खविस्तरैः सप्तभागे स्यात् कन्यकोदयात् । निर्वेधश्चतुरश्रः स्याल्लकटस्य समाहितः ॥ ३५ ॥ निर्वेधावरय चोर्ध्वाधः सप्तांशान्तरवर्तिनौ । कार्यौ सूचीव्यधावन्यौ सूचीमानप्रमाणतः ॥ ३६ ॥ कन्याव्यासत्रिभागेन सूची विस्तारतो भवेत् । पादोनबहुला चारुदारुजा दृढसंहिता ॥ ३७ ॥ कुमारीव्याससंयुक्तो² द्विगुणा लकटायतिः । एतद्वाह्यान्तरं ज्ञात्वा यन्त्रं संयोजयेत् ततः ॥ ३८ ॥ तयोरधस्तदर्धेन मृगाल्यौ सूचिविस्तृतौ । क्षेत्रस्य लेखितं कार्यं सम्बन्धै³ सूचिकन्ययोः ॥ ३९ ॥ साङ्घ्रिकेतनमूलार्धं लकटे विस्तृतायती । अक्षाभ्यां योजयेत् सम्यग् दृढं बाह्रक्षवेधयोः ॥ ४० ॥ पञ्चानामपि तुल्यैव कन्यानां स्यात् प्रकल्पना । कृत्वानुपूर्व्या यन्त्राणि स्थापयेदखिलान्यपि ॥ ४१ ॥ आश्विने मासि पक्षे च धवले प्रतिपत्तिथौ । स्थिरोदयैर्ग्रहैः सौम्यैर्वीक्षि⁴ते त्वाष्ट्रभेऽपि च ॥ ४२ ॥ पौरजानपदैः सर्ववादित्रध्वनितेन च । यन्त्राण्युत्क्षिप्य यष्टिं च कर्मस्थानान्नयेज्जलम् ॥ ४३ ॥ चित्रप्रतिसराकीर्णां यष्टिं तत्राज्यलेपिताम् । चूर्णैः सर्वौषधीमिश्र स्थपतिः स्नापयेत् स्वयम् ॥ ४४ ॥ जलाशयात् समुत्तार्य नृणां कलकलस्वनैः । प्रागग्रां स्थापयेद् दारुहस्तिन्योः प्राक्समुन्नताम् ॥ ४५ ॥


१ द. ˚प्रोक्तो यष्टाष्टांशस्˚ २ द. ˚संयुक्तां द्विगुणां लक्रटायतिम् । ३ द. सम्बन्धि- सूचिकानयोः । ४ द. ख. ˚क्षि˚ ।