समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 124, कुल 726 में से
संदर्भ में पढ़ेंपुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः । ५९ नृपदण्डभयं पत्युः पीडनं च प्रचक्षते । द्वारमध्येषु षड्दारुमध्येष्वपि च सूरयः ॥ १८ ॥ कर्णद्रव्यादिभिर्विद्धेष्वेवमेव फलं विदुः । शय्यानुवंशवि²हिता गृहिणां कुलनाशिनी ॥ १९ ॥ क्षयावहा नागदन्ता भर्तुः शय्या³वितानगाः । वातायनैरथ स्तम्भैर्यै विद्धा नागदन्तकाः ॥ २० ॥ ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः । द्रव्यधान्यविनाशाय शोकाय कलहाय च ॥ २१ ॥ गृहमध्यगतं द्वारं भवेत् स्त्रीदूषणाय च । द्रव्येणान्यतरेणापि महामर्म निपीडितम् ॥ २२ ॥ भवेत् सर्वस्वनाशाय गृहिणो मरणाय ⁵च । अंशुकाश्चोर्ध्ववंशाश्च६ तुम्बिकाः सेन्द्रकीलकाः ॥ २३ ॥ पुरप्रासादगेहानां वेधेऽप्येते न दोषदाः ॥ इत्थं सुरक्षितिपवर्णगृहाश्रितोऽयं भेदः पदेष्वखिलमर्मगतो व्यधश्च । उक्तः पृथक्पृथगमुष्य फलं च सम्यग् ब्रूमोऽथ वास्तुपुरुषाङ्गविभागमत्र⁷ ॥ २४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मर्मवेधो नाम त्रयोदशोऽध्यायः ॥ अथ पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः । देवतानां पदैरित्थं संविभक्तैः पृथग्विधैः । स्थपतिः प्रयतः कुर्याद् वास्तुमित्थं पुमाकृतिम् ॥ १ ॥ १ द. भयापत्यं । २ क. निहिता । ३ क. शय्यावहानगाः, द. शय्यागतानगाः । ४ क. मर्मणि पीडिते, द. महामर्मनिपीडिते । ५ द. वा । ६ क. चार्थवंशवास्तु, द. सोर्ध्ववंशास्तु । ७ द. ॰मग्रे ।