समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 131, कुल 726 में से
संदर्भ में पढ़ें३६ समराङ्गणसूत्रधारे अत्रैव विद्याधिगमशालाश्चैषां निवेशयेत् । नृपस्य मातुरदितिस्थाने कुर्यान्निवेशनम् ॥ ४० ॥ पृथगत्रैव शिबिकाशय्यासनगृहं विदुः । नृपद्विपानां शस्ता स्यादापे सदनकल्पना ॥ ४१ ॥ अभिषेकनकं स्थानमिहैव स्याद् विषाणिनाम् । आपवत्सपदे हंसक्रौञ्चसारसनादिताः ॥ ४२ ॥ स्युः फुल्लाब्जवनाः स्वच्छसलिलाः सलिलाशयाः । पितृव्यमातुलादीनां कार्य दितिपदे गृहम् ॥ ४३ ॥ अन्येषामपि चात्रैव १सामन्तानां महीपतेः । ऐशान्यामनलस्थाने वोच्छ्रितस्तम्भवेदिकम् ॥ ४४ ॥ कार्यं देवकुलं चारु २ सुश्लिष्टमणिकुट्टिमम् । पर्जन्यस्य पदे होराज्योतिर्विद्गृहमिष्यते ॥ ४५ ॥ जये सेनापतेर्वेश्म विधेयं विजयप्रदम् । द्वारं प्राकारमाश्रित्य पदेऽर्यम्णः प्रशस्यते ॥ ४६ ॥ प्राग्दक्षिणाश्रितं शस्त्रकर्मान्तं शस्त्रमत्न च । विमुञ्चेद् ब्रह्मणः स्थानमिन्द्रध्वजयुतं नृणाम् ॥ ४७ ॥ तत्राशुभानि वेश्मानि विवेश्याश्वासुखावहाः । गवाक्षस्तम्भशोभिन्यो विधेयाश्चानुकामतः ॥ ४८ ॥ सभा यथादिक्प्रभवा नृपवेश्माभिगुप्तये । सर्वत्र नृपतेः सौधान् नृपसौधस्य सम्मुखा ॥ ४९ ॥ पश्चाद्भागाश्रिता यद्वा शाला कार्या विषाणिनाम् । इत्यास्पदं सुरपदास्पदकल्पमाद्य- मेतद् यथावदनुतिष्ठति यः सैव । स क्ष्मामिमां भुजबलक्षपितारिपक्षः सप्ताम्बुराशिरशनां नृपतिः प्रशास्ति ॥ ५० ॥
१ द. समन्तानां । २ क. चात्र ।