समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 130, कुल 726 में से
संदर्भ में पढ़ेंराजनिवेशः पञ्चदशोऽध्यायः । ६५ सुग्रीवपदसंसक्तमरिष्टारमिष्टदम् । द्वारस्थसुग्रीवपि(त्र्यं ? त्र्यां)शपश्चाद्भागे मनोहरा ॥ २८ ॥ विधेयाशोकवनिका स्नानधारागृहाणि च । लतामण्डपसंयुक्ताः स्युरत्रैव लतागृहाः ॥ २९ ॥ दारुशैलाश्च वाप्यश्च पुष्पवीथ्यः सुकल्पिताः । पुष्पदन्ते भवेद् य(त्त ? न्त्र)कर्मान्तः पुष्पवेश्म च ॥ ३० ॥ वरुणस्य पदे कुर्याद् वापीपानगृहाणि च । स्यात् कोष्ठागारमसुरे शोषे त्वायुधमन्दिरम् ॥ ३१ ॥ भाण्डागारं तु रौद्राख्ये विदध्यात् स्थपतिः श्रिये । उलूखलशिलायन्त्रभवनं पापयक्ष्मणि ॥ ३२ ॥ दारुकर्मान्तमप्याहुः श्रेयसे राजयक्ष्मणि । ²स्यादोषधेरधिष्ठानं रोगे दिशि नभस्वतः ॥ ३३ ॥ नागानां शस्यते स्थानं पदे नागस्य सूरिभिः । भवन्ति मुख्ये व्यायामनाट्यचित्रगृहाणि च ॥ ३४ ॥ गवां स्थानं तथा क्षीरगृहं ³भल्लाटनामनि । उदक्प्रदेशे सौम्यस्य पुरोधःस्थानमिष्यते ॥ ३५ ॥ ⁴राज्ञोऽभिषेचनं चात्र दानाध्ययनशान्तयः । चामरच्छत्रधाम स्यान्मन्त्रै⁵वेश्म च भूधरे ॥ ३६ ॥ कार्याणां चात्र कार्याणि स्थितः पश्येन्नराधिपः । विधेया मन्दुराश्वानामुत्तरं पार्श्वमाश्रिता ॥ ३७ ॥ महीधरपदस्यैव यथावद् दक्षिणामुखी । कार्या सर्वत्र चाश्वानां शाला राज्ञो यथागृहम् ॥ ३८ ॥ विशतो दक्षिणेन स्याद् वामेन च विषाणिनाम् । वेश्मानि राजपुत्राणां विदध्याच्चरकाभिधे ॥ ३९ ॥
१ क. दन्तकर्मान्तः, द. यन्त्रकर्मान्तः । २ द. स्यादौषधैरधिष्ठानं । ३ द. भल्वाट° । ४ क. राजाभिषेचनं । ५ द. ख. मन्त्रि° । वा. ९