समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 129, कुल 726 में से
संदर्भ में पढ़ें६४ समराङ्गणसूत्रधारे वितथेऽथ भ्रमांस्तद्वद् विदधीत प्रदक्षिणान् । वास्तौ विभक्ते पुरवत् कॢप्तेऽमरपदव्रजैः ॥ १५ ॥ तत्र मैत्रपदस्थाने निवेशायावनीपतेः । प्रासादः प्राङ्मुखः कार्यों यथावत् पृथिवीञ्जयः ॥ १६ ॥ श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम् । यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् ॥ १७ ॥ शालापरिक्रमोपेतकर्मान्तैरपि चान्वितम् । तत्र प्राच्यां भवेद् गेहमादित्यपदसंश्रितम् ॥ १८ ॥ धर्माधिकरणं सत्ये व्यवहारेक्षणाय च । भृशे च कोष्ठागारं स्यादम्बरे मृगपक्षिणाम् ॥ १९ ॥ अग्नेः ककुभमाश्रित्य कार्यं वायोर्महानसम् । सभाजनाश्रयं पूष्णि विदध्याद् भोजनास्पदम् ॥ २० ॥ सावित्रे वाद्यशाला स्यात् सवितुस्थाश्च वन्दिनः । चर्माणि वितथे कुर्यान् तयोग्यान्यायुधानि च ॥ २१ ॥ स्वर्णरूप्यादिकर्मान्तान् विदधीत गृहक्षते । याम्ये दक्षिणतो गुप्तिं कोष्ठागारं च कल्पयेत् ॥ २२ ॥ प्रेक्षासङ्गीतकानि स्युर्गन्धर्वे वासवेश्म च । कार्या वैवस्वते शाला रथानां दन्तिनां तथा ॥ २३ ॥ पश्चिमोत्तरभागस्थां वापीमपि च कारयेत् । वा(यौ ? यु)सुग्रीवपदयोर्गन्धर्वस्य च बाह्यतः ॥ २४ ॥ कुर्यादन्तःपुरस्थानं प्राकारवलयावृतम् । कुर्यात् तद्गोपुरद्वारमुदगास्यं जयाभिधे ॥ २५ ॥ कार्यः स्थपतिना चैव प्रासादश्चापराङ्मुखः । क्रीडादोलालयन् भृङ्गे कुमारीभवनं तथा ॥ २६ ॥ नृपान्तःपुरमिच्छन्ति मृगे पित्र्ये त्ववस्करम् । नृपस्त्रीणामुपस्थानगृहमिन्र्द्रपदे विदुः ॥ २७ ॥ १ द. ख. व्रजेत् । २ क. पृथिवीजयः, द. पृथिवींजयः । ३ द. ख. पक्षिणः । ४ द. ˚इन्दु˚ ।