समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 128, कुल 726 में से
संदर्भ में पढ़ेंराजनिवेशः पञ्चदशोऽध्यायः । ६३ विभक्तरथ्ये परितः प्रविभाजितचत्वरे । क्रमादन्तर्बहिः कॢप्तदेवतायतनस्थितौ ॥ २ ॥ प्रागुदक्प्रवणे देशे प्राग्द्वाराभ्युन्नतेऽथवा । यशःश्रीविजयाधायि मैत्रं पदमधिष्ठितम् ॥ ३ ॥ यथावर्णक्रमायातं चतुरश्रं समं शुभम् । पुरमध्यादपरतोदिक्स्थं कुर्यान्नृपालयम् ॥ ४ ॥ दुर्गेषु भूवशात् कार्यं यद्वा दिक्ष्वपरास्वपि । विवस्वद्भूधरार्यम्णां कार्यमन्यतमे पदे ॥ ५ ॥ त्रिचत्वारिंशता युक्ते ज्येष्ठं स्याद् द्वे धनुःशते । मध्यं शतं तु द्वाषष्टिः शतं साष्टकमन्तिमम् ॥ ६ ॥ ज्येष्ठे पुरे विधातव्यं ज्येष्ठं राजनिवेशनम् । मध्यमे मध्यमं कार्यं कानिष्ठं च कनीयसि ॥ ७॥ प्राकारपरिखागुप्तं चारुकान्ति समन्ततः । तमङ्गाभ्रमनिर्यूहसुदृढाट्टालकान्वितम् ॥ ८ ॥ एकाशीत्या पदैर्भक्तं विधेयं नृपमन्दिरम् । राजमार्गं समाश्रित्य वास्तुद्वारमुदङ्मुखम् ॥ ९ ॥ युक्त्यानयैव कर्तव्यमन्यदिक्संश्रयेऽपि च । भल्लाटपदवर्त्यस्य गोपुरद्वारमिष्यते ॥ १० ॥ तत्पुरद्वारविस्तारोच्छ्रायसम्मितमिष्टदम् । महेन्द्रं द्वारमिच्छन्ति निविष्टस्य महीधरे ॥ ११ ॥ वैवस्वते पुष्पदन्तमर्यम्णि च गृहक्षतम् । अन्येष्वेषामपरतः प्रदक्षिणपदेष्वथ ॥ १२ ॥ अन्यान्यपि स्वासु दिक्षु द्वाराण्येवं प्रकल्पयेत् । आभिमुख्ये च सर्वेषां शस्यन्ते गोपुराणि च ॥ १३ ॥ तदीयनगरद्वाराद् विंशात्यंशोज्झितानि वा । पक्षद्वाराणि सुग्रीवे जयन्ते मुख्यनाम्नि च ॥ १४ ॥ १ द. ख. यथावर्ण ।