समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 132, कुल 726 में से
संदर्भ में पढ़ेंवनप्रवेशः षोडशोऽध्यायः। ६७ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजनिवेशो नाम पञ्चदशोऽध्यायः ॥ अथ वनप्रवेशो नाम षोडशोऽध्यायः । प्राग्वोदग्वापि गेहार्थं द्रव्यं विधिवदानयेत् । गन्तव्यमेव धिष्ण्येषु¹ मृदुक्षिप्रचरेषु च ॥ १ ॥ उपवास्यं च तेष्वेव च्छेद्यं भेद्यं च दारुणैः । प्रवेशनं स्थिरैः कार्यमारम्भः शस्यते चरैः ॥ २ ॥ गत्वा शुभे शुचौ देशे निवेशं कारयेत् ततः । तस्मिन्निवेश्य कर्मान्तमन्नपानेन तर्पयेत् ॥ ३ ॥ पुष्टतुष्टपरीवारः क्षपायां समु Schneiderोषितः । गृहयोग्यं परीक्षेत न्यस्तशस्त्रस्ततोऽङ्घ्रिपम् ॥ ४ ॥ पुरश्मशानग्रामाध्वह्रदचैत्याश्रमोद्भवान् । क्षेत्रोपवनसीमान्तविषमस्थलनिम्नजान् ॥ ५ ॥ कट्वम्लतिक्तलवणाखवनीषु नथोद्गताम् । श्वभ्रावृतान् स्थिरोर्वीषु सम्भूतांश्च त्यजेद् द्रुमान् ॥ ६ ॥ सम्यक् संलक्ष्य वृक्षाणां वर्णस्नेहत्वगादिकम् । विजानीयाद् वयस्तेषां बालान् वृद्धांश्च सन्त्यजेत् ॥ ७ ॥ शतानि त्रीणि वर्षाणां सारद्रुमवयः स्मृतम् । गृह्णीयात् षोडशादूर्ध्वं सार्धवर्षशतावधेः ॥ ८ ॥ वयसः परिणामेन निर्वीर्यत्वं यथा नृणाम् । प्रोक्तं तद्वद् द्रुमाणां च स्यात् तथा छिद्रपत्रता ॥ ९ ॥ भङ्गुराः सुषिरास्ते स्युः सकोलाक्षाः खरत्वचः । तस्मादिमांस्त्यजेद् वृक्षस्तथा चैवोर्ध्वशोषिणः ॥ १० ॥ वक्रान् रूक्षानवप्लुष्टान् दुःस्थितानपि च द्रुमान् । वर्जयेद् भग्नशाखांश्च ह्येकशाखान्वितांस्तथा ॥ ११ ॥ १ धिष्ण्येषु नक्षत्रेषु । २ द. वृक्षान्ये तथा चोर्ध्वशोषिणः ।