समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 133, कुल 726 में से
संदर्भ में पढ़ें६८ समराङ्गणसूत्रधारे अन्यैरधिष्ठितान् विद्युत्पातवातसरित्क्षतान् । ग्रन्थिनिर्यूक्तदानांश्च भ्रमराह्निकृताश्रयान् ॥ १२ ॥ संसृष्टानकतो ³भ्रष्टान् मधुभिर्बलिभिर्वृतान । मांसामेध्याशनैस्तद्वद् दूषितानपि पक्षिभिः ॥ १३ ॥ लूतातन्त्वावृतान् वन्यसत्त्वोद्घृष्टान् गजक्षतान् । बुघ्नतोऽतिबृहत्स्कन्धांश्छिद्रभूतांस्तथाध्वनः ॥ १४ ॥ अकाले पुष्पफलिनो रोगैरपि च पीडितान् । वासभूतानुलूकानां त्यजेदन्यानपीदृशान् ॥ १५ ॥ खदिरो बीजकः सालो मधूकः शाकशिंश (पौ ? पे) । सर्जार्जुनाञ्जनाशोकाः कदरो रोहिणीतरुः ॥ १६ ॥ विकङ्कतो देवदारुः श्रीपर्णीपादपस्तथा । कुटुम्बिनाममी प्रोक्ताः पुष्टिदा जीवदास्तथा ॥ १७ ॥ वृक्षाणां लक्ष्यते येषां भारवारिसहिष्णुता । ते यथायोग्यमन्येऽपि शस्यन्ते गृहकर्मणि ॥ १८ ॥ कर्णिकारधवप्लक्ष कपित्थविषमच्छदाः । शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधचम्पकाः ॥ १९ ॥ निम्बाम्रकोविदाराँश्चव्याधिघातांश्च गर्हिताः । गृहकर्मणि नेष्टास्ते यतस्तेऽनिष्टदायिनः ॥ २० ॥ नेष्टाः कण्टकिनः स्वादुफलाः क्षीरद्रुमाश्च ये । सुगन्धयश्च ये तद्वद् ध्रुवं तेषु पशुक्षयः ॥ २१ ॥ सत्त्वप्रमाणच्छाया तु नियतं दृश्यते यदा । द्रुमच्छाया तदा ग्राह्या तत्प्रमाणस्तु स द्रुमः ॥ २२ ॥ नक्षत्रं लक्षयेद् वृक्षे पूर्वस्यां दिशि तत्क्षितेः । स्याद् भस्याद्यक्षरं यस्य तत्र जातं तमादिशेत् ॥ २३ ॥ १ द. ख. वाताशनिक्षतान् । २ क. ग्रन्थिभिर्युक्तं, द. ग्रन्थिभिर्युक्तहीनांश्च । ३ द. ग्रस्तान् । ४ क. कोविदराख्या विधेयास्ते च ।