समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 122, कुल 726 में से
संदर्भ में पढ़ेंतदर्थमनुसन्धीनां प्रमाणं समुदीरितम् । यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥ ३२ ॥ द्रव्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत् । महावंशस्य नाक्रान्तिं कुर्याद् द्रव्येण केनचित् ॥ ३३ ॥ इतरेषु पुनर्द्रव्यं मध्यवंशेषु सन्त्यजेत् । महावंशसमाक्रान्तौ भवेत् स्वामिवधो ध्रुवम् ॥ ३४ ॥ वर्षेण तपनाद् भीतिं वंशानां पीडनाद् विदुः । उपमर्माणि रोगाय मर्माणि कुलहानये ॥ ३५ ॥ उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः । कलिः स्यात् १सन्धिद्विद्वेषु पीडितेष्वनुसन्धिषु ॥ ३६ ॥ तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत् । ज्ञात्वा सिराः सानुसिराश्च नाडीर्वंशानुवंशानपि वास्तुदेहे । यत्नेन मर्माणि फलानि चैषां वेधं त्यजेद् यस्तमुपैति नापत् ॥३७॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे नाडीवंशानुवंशानां सिरानुसिरामर्मानुमर्मवेधविकल्पो नाम द्वादशोऽध्यायः ॥
अथ मर्मवेधस्त्रयोदशोऽध्यायः ।
एकाशीतिपदो यः स्यात् तथा शतपदश्च यः । चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥ १ ॥ यद् येन विभजेत् तेषु तदिदानीं प्रचक्ष्महे । यानि मर्माणि चैतेषां कथ्यन्त इह तान्यपि ॥ २ ॥ वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् । एकाशीतिपदेनेन्द्रस्थानं च विभजेत् सुधीः ॥ ३ ॥ प्रासादा विविधास्तद्वद् विचित्राश्चात्र मण्डपाः । तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥ ४ ॥
१ द. सन्धिष्ण (? ष्टू) द्वेगः पी° । वा. ८