समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 121, कुल 726 में से
संदर्भ में पढ़ें५६ समराङ्गणसूत्रधारे देवतापदसङ्क्षिप्तिरनयोश्चतुरश्रवत् । एवं कार्यवशात् कार्या वास्त्वोऽन्येऽपि धीमता ॥ १९ ॥ त्र्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत् । वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम् ॥ २० ॥ एक एव पुमानेषु^१ बहुधा परिकल्पितः । सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेत् ततः ॥ २१ ॥ शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत् । मुखं मूर्धा ततः श्रोत्रे दृक्तालुवोष्ठरदाः क्रमात् ॥ २२ ॥ वक्षः कण्ठः स्तनौ नाभिर्मेढ्रमुष्कावथो गुदम् । बाहू प्रबाहू पाणी स्फिगूरुजङ्घं पदद्वयम् ॥ २३ ॥ कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः । सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥ २४ ॥ मर्माण्यथ महावंशा लक्ष्या वास्तुशरीरगाः । सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥ २५ ॥ पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम् । महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥ २६ ॥ प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः । वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥ २७ ॥ यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः । सम्पाता ये स्युरेतेषां मर्म तत् संप्रचक्षते ॥ २८ ॥ उपमर्माणि तान्याहुः पदमध्यानि यानि हि । भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥ २९ ॥ पदतो मानमिष्टं स्याद् वंशादीनामनुक्रमात् । वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥ ३० ॥ ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते^२ चानुसन्धयः । वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥ ३१ ॥ १ क. द. पुमानेष । २ द. तत्रानुसंधयः ।