समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 145, कुल 726 में से
संदर्भ में पढ़ेंकृतवोपलेपनं तस्मिन्नुल्लेखाभ्युक्षणैस्ततः । संस्कृत्यास्तीर्य दर्भांश्च ज्वालयेत् तत्र पावकम् ॥ १०६ ॥ तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च । द्रव्याणि वाचनीयानि समिधश्च पलाशजाः ॥ १०७ ॥ सौवर्णौ स्रुक्स्रुवाविन्द्रभक्तं च बलयोऽपि च । इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥ १०८ ॥ पुत्रदारपशुद्रव्यसैन्ययुक्तस्य भूपतेः । विजयावाप्तिजनकैर्मन्त्रैः शान्तिविधायिभिः ॥ १०९ ॥ सुस्वनः सुमहर्चिश्च स्निग्धश्चेद्धोऽपि च स्वयम् । कान्तिमान् सुरभिर्जिघ्रन् होतारं शस्यतेऽनलः ॥ ११० ॥ तप्तकाञ्चनसच्छाया लाक्षाभः किंशुकच्छविः । प्रवालविद्रुमाशोकसुरगोपसमद्युतिः ॥ १११ ॥ ध्वजाङ्कुशगृहच्छत्रयूपप्राकारतोरणैः । सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥ ११२ ॥ स्निग्धः प्रदक्षिणशिखो विधूमो विपुलोऽनलः । सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥ ११३ ॥ धूम्रो विवर्णः परुषः पीनो वा नीलकोऽथवा । विच्छिन्नो भैरवरवो वामावर्त्तशिखोऽल्पकः ॥ ११४ ॥ मन्दार्चिर्धुतिमुक्तोऽसृग्वसागन्धैः स्फुलिङ्गवान् । धूमावृतः सफेनश्च हुतभुग् न जयावहः ॥ ११५ ॥ दर्भाणां संस्तरं वह्निर्होमाङ्गान्यपराणि वा । हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥ ११६ ॥ होमे वोत्सर्पयेत् पीठं दह्यमानो (?) यदाग्निना । भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्षणात् ॥ ११७ ॥ सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान् । यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥ ११८ ॥ १ द. कृतोप°, शा. कृतोपलेवनं । २ द. ख. वसागन्धिः ।