समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 144, कुल 726 में से
संदर्भ में पढ़ेंइन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७९ बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रितौ । खवर्णवन्ति वृत्तानि रामणीयकवन्ति च ॥ ९४ ॥ १भङ्गपातविपर्या(सो?स)सिद्धयः पिटकोद्भवाः । पीडार्त्तिमृत्युवेऽव्यर्थमेकैकस्य प्रकीर्त्तिताः ॥ ९५ ॥ शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च । वसुमत्याश्च धाम्नां च नृपते राष्ट्र(म?प)स्य च ॥ ९६ ॥ केतुषड्भागविस्तारा रज्जवोऽष्टौ सुवर्त्तिताः । विधेयाः स्युर्ध्वजायामत्रिगुणायतयो दृढाः ॥ ९७ ॥ छादितं छ(वि?दि)भिः पूर्वं कुट्टनीसहितं शुभम् । यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ॥ ९८ ॥ अर्केन्दुग्रहताराङ्कं वेणुगुल्मेन्द्रशीर्षकम् । साष्टकण्ठगुणं दण्डसूत्रादर्शान्वितं शुभम् ॥ ९९ ॥ ससस्यफलपुष्पाढ्यं शुभवस्त्रमलङ्कृतम् । दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥ १०० ॥ ३ध्वजपट्टं विदध्याच्च चित्रं सुरचितं तथा । निमित्तार्थं च लोकानां शोभाहेतोर्ध्वजस्य च ॥ १०१ ॥ सपत्तनपुरारामगन्धर्वत्रिदशासुरम् । निखिलं जगदालेख्यमस्मिन्नद्रिद्रुमाकुलम् ॥ १०२ ॥ ध्वजाग्रे रश्मिभिर्नद्धं (स?सु)विन्यस्तं च भूतले । विन्यसेत् तमResource/तमसम्मूढमधोभागसमाश्रितम् ॥ १०३ ॥ प्रमोदगीतवादित्रनटनर्तकैःसंयुतः । तदग्रे जागरः कार्यः समस्तामेव तां निशाम् ॥ १०४ ॥ पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रियः । अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥ १०५ ॥
१ द. भङ्गे पात विपर्य्यासासिद्धयः; शा० विपर्यासात् । २ क. पूर्ण । ३ द. ध्वजयष्टे । ४ द. °नर्तन° ।