भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७९ बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रितौ । खवर्णवन्ति वृत्तानि रामणीयकवन्ति च ॥ ९४ ॥ १भङ्गपातविपर्या(सो?स)सिद्धयः पिटकोद्भवाः । पीडार्त्तिमृत्युवेऽव्यर्थमेकैकस्य प्रकीर्त्तिताः ॥ ९५ ॥ शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च । वसुमत्याश्च धाम्नां च नृपते राष्ट्र(म?प)स्य च ॥ ९६ ॥ केतुषड्भागविस्तारा रज्जवोऽष्टौ सुवर्त्तिताः । विधेयाः स्युर्ध्वजायामत्रिगुणायतयो दृढाः ॥ ९७ ॥ छादितं छ(वि?दि)भिः पूर्वं कुट्टनीसहितं शुभम् । यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ॥ ९८ ॥ अर्केन्दुग्रहताराङ्कं वेणुगुल्मेन्द्रशीर्षकम् । साष्टकण्ठगुणं दण्डसूत्रादर्शान्वितं शुभम् ॥ ९९ ॥ ससस्यफलपुष्पाढ्यं शुभवस्त्रमलङ्कृतम् । दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥ १०० ॥ ३ध्वजपट्टं विदध्याच्च चित्रं सुरचितं तथा । निमित्तार्थं च लोकानां शोभाहेतोर्ध्वजस्य च ॥ १०१ ॥ सपत्तनपुरारामगन्धर्वत्रिदशासुरम् । निखिलं जगदालेख्यमस्मिन्नद्रिद्रुमाकुलम् ॥ १०२ ॥ ध्वजाग्रे रश्मिभिर्नद्धं (स?सु)विन्यस्तं च भूतले । विन्यसेत् तमResource/तमसम्मूढमधोभागसमाश्रितम् ॥ १०३ ॥ प्रमोदगीतवादित्रनटनर्तकैःसंयुतः । तदग्रे जागरः कार्यः समस्तामेव तां निशाम् ॥ १०४ ॥ पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रियः । अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥ १०५ ॥


१ द. भङ्गे पात विपर्य्यासासिद्धयः; शा० विपर्यासात् । २ क. पूर्ण । ३ द. ध्वजयष्टे । ४ द. °नर्तन° ।

कृतवोपलेपनं तस्मिन्नुल्लेखाभ्युक्षणैस्ततः । संस्कृत्यास्तीर्य दर्भांश्च ज्वालयेत् तत्र पावकम् ॥ १०६ ॥ तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च । द्रव्याणि वाचनीयानि समिधश्च पलाशजाः ॥ १०७ ॥ सौवर्णौ स्रुक्स्रुवाविन्द्रभक्तं च बलयोऽपि च । इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥ १०८ ॥ पुत्रदारपशुद्रव्यसैन्ययुक्तस्य भूपतेः । विजयावाप्तिजनकैर्मन्त्रैः शान्तिविधायिभिः ॥ १०९ ॥ सुस्वनः सुमहर्चिश्च स्निग्धश्चेद्धोऽपि च स्वयम् । कान्तिमान् सुरभिर्जिघ्रन् होतारं शस्यतेऽनलः ॥ ११० ॥ तप्तकाञ्चनसच्छाया लाक्षाभः किंशुकच्छविः । प्रवालविद्रुमाशोकसुरगोपसमद्युतिः ॥ १११ ॥ ध्वजाङ्कुशगृहच्छत्रयूपप्राकारतोरणैः । सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥ ११२ ॥ स्निग्धः प्रदक्षिणशिखो विधूमो विपुलोऽनलः । सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥ ११३ ॥ धूम्रो विवर्णः परुषः पीनो वा नीलकोऽथवा । विच्छिन्नो भैरवरवो वामावर्त्तशिखोऽल्पकः ॥ ११४ ॥ मन्दार्चिर्धुतिमुक्तोऽसृग्वसागन्धैः स्फुलिङ्गवान् । धूमावृतः सफेनश्च हुतभुग् न जयावहः ॥ ११५ ॥ दर्भाणां संस्तरं वह्निर्होमाङ्गान्यपराणि वा । हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥ ११६ ॥ होमे वोत्सर्पयेत् पीठं दह्यमानो (?) यदाग्निना । भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्षणात् ॥ ११७ ॥ सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान् । यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥ ११८ ॥ १ द. कृतोप°, शा. कृतोपलेवनं । २ द. ख. वसागन्धिः ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८१ दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम् । आज्यं राज्यच्छिदे प्राहुर्हूयते यच्च भस्मनि ॥ ११९ ॥ हीनाधिकप्रमाणाश्च विदीर्णा घुणभक्षिताः । वातरुग्णद्रुमोत्थाश्च समिधोऽर्थक्षयावहाः ॥ १२० ॥ सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः । कुर्वन्त्युपद्रवं दर्भा दुष्प्रलूनाश्च ये तथा ॥ १२१ ॥ दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च । बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥ १२२ ॥ माल्यं विगन्धि प्रम्लानं न पीतं न सितं च यत् । कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥ १२३ ॥ विस्रावीण्युद्गतान्युग्रखण्डितस्फुटितानि च । दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥ १२४ ॥ अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते । बलौ च शक्रभक्ते च क्षुन्मारः केश¹भाजि च ॥ १२५ ॥ यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात् । भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ॥ १२६ ॥ वितीर्य गन्धमाल्यादीन् देवताभ्यो यथादिशम् । पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद् बलिम् ॥ १२७ ॥ ध्वजनैर्ऋतदिग्भागे द्विजमुख्यानुपस्थितान् । शीलवृत्तयुतान् भूरिगन्धमाल्यैः² स्वलङ्कृतान् ॥ १२८ ॥ वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान् । मनःप्रियान् पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ॥ १२९ ॥ शुक्लाम्बरान् दर्शनीयान् गौरप्रायान् बलान्वितान् । अमुण्डा³जटिला⁴क्लीबा(न् ?)दीक्षितान् व्याधिताकृशान् ॥ १३० ॥ यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा । साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥ १३१ ॥ १ क. ‘केशैश्चैव विदूषिते । २ क. ‘ल्यैरलं’ । ३ ‘ण्डान् ज’, । ४ ‘लान् क्ली’, । वा. ११

८२ समराङ्गणसूत्रधारे शक्रं ते चाष्टभिः कुम्भैः सुहृदैर्वारिपूरितैः । स्वर्चितैरभिषिञ्चेयुर्मूले 'चाकृष्टमण्डलैः ॥ १३२ ॥ स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः । राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥ १३३ ॥ कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् । दोषान् जनपदस्यापि दशाहं विषहेत वै ॥ १३४ ॥ सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् । ध्वजोच्छ्रायं शुचिर्भूयः सबलः प्रतिपालयेत् ॥ १३५ ॥ सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रियः । कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥ १३६ ॥ ओं नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा । सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः । तथा नृपस्य देवेन्द्र ! जयायोत्तिष्ठ पूजितः ॥ १३७ ॥ स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् । कारयेद् देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥ १३८ ॥ स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः । पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥ १३९ ॥ सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः । हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥ १४० ॥ गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः । हृष्टोत्कृष्टोद्धतध्वानैर्गजस्यन्दनवाजिभिः ॥ १४१ ॥ तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः । दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छ्रयेत् ॥ १४२ ॥ यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च । नृपक्ष्शिवाहनादीनां निमित्तान्यवलोकयत् ॥ १४३ ॥ १ 'वा', । २ 'अ' ख. पाठः।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८३ कुटनीनिहिताभोगं पताकादर्पणोज्ज्वलम् । चिलपट्टस्फुटाटोपमर्केन्दुगुणभूषणम् ॥ १४४ ॥ अस्रस्तमाल्यालङ्कारमशीर्णच्छत्रमस्तकम् । अकम्पितमदीर्णाङ्गमदिग्भ्रष्टं सुरेश्वरम् ॥ १४५ ॥ सममूर्ध्वं१समश्लिष्टमनवक्षतमद्भुतम् । अविलम्बितविश्रान्तं२ऋजुमार्गंसमुद्धतम् ॥ १४६ ॥ इत्थं शक्रध्वजोत्थानं कृतं राज्ञो जयावहम् । पौरजानपदानां च क्षेमारोग्यसुभिक्षकृत् ॥ १४७॥ यदा शक्रध्वजः प्राचीमुच्छ्रितः३ प्रतिपद्यते । तदामन्त्रिगणक्षत्रनृपप्राग्वासिवृद्धिदः ॥ १४८ ॥ आग्नेयीं ककुभं याते वर्धन्ते वह्निजीविनः । प्रारब्धकार्यनिष्पत्तिर्यत्नाच्चोपजायते ॥ १४९ ॥ दक्षिणां दिशमायाते केतने नमुचिद्विषः । तदा स्युर्वैश्यलोकस्य पूजाधान्यधनर्द्धयः ॥ १५० ॥ सर्वाशासंपदः श्रेष्ठा जायन्ते नैर्ऋताश्रिते । न स्याद् गर्भो वृथा तद्वद् वधबन्धभयं न च ॥ १५१ ॥ श्रिते प्राचेतसीमाशामास्मिञ् शूद्रजयो भवेत् । क्षुत्तृष्णाग्निभयं न स्याद् वृष्टिरिष्टा च जायते ॥ १५२ ॥ द्रुमशस्यफलर्द्धिः स्यात् केतौ वायोः श्रिते दिशम् । चतुष्पदविवृद्धिश्च रोगोच्छित्तिश्च जायते ॥ १५३ ॥ चतुर्णामपि वर्णानां सम्पत् स्यात् सौम्यदिग्गते । विशेषात् सा द्विजेन्द्राणां तथा सिध्यन्ति चाध्वराः ॥ १५४ ॥ ऐशीमाशां श्रिते धर्मपरो भवति पार्थिवः । वृद्धिर्जनपदस्य स्यात् तथा पाषण्डिनामपि ॥ १५५ ॥ यदि किञ्चिद् व्रजेत् पूर्वं रज्ज्वाकृष्टः शतक्रतुः । विजिगीषोर्नरेन्द्रस्य तदा यात्रा प्रसिध्यति ॥ १५६ ॥ १ 'सुश्लिष्टमनवक्षतमद्भुतम्' ख. पाठः । २ 'न्तं नृपमा' क. पाठः । ३ द. मुत्थितः ।

८४ समराङ्गणसूत्रधारे प्रतिष्ठां लभते भूमौ भ्रमं भित्त्वा यदि ध्वजः । सशैलकाननामुर्वी तदा जयति पार्थिवः ॥ १५७ ॥ दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वज्रिणः । विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥ १५८ ॥ यदि स्वलङ्कृतः पूर्वं योज्यमानः शतक्रतुः । उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ॥ १५९ ॥ शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ । तदा नृपं राजदारान् कुमारं वा विनाशयेत् ॥ १६० ॥ उत्थितोऽर्धोत्थितो वापि यदि क्षुभ्यति कम्पते । स्थानान्तरं व्रजेद् वापि सञ्चरेद् वा कथञ्चन ॥ १६१ ॥ विगृह्यते तदा भूपो भ्रश्येति स्थानतोऽपि वा । भयाज्जनपदो वास्य चलत्येव न संशयः ॥ १६२ ॥ आकृष्टासु यदाष्टासु छिद्यते कापि रज्जुषु । अमात्यमरणं तत् स्यादेकैकांशन निश्चितम् ॥ १६३ ॥ मूलमध्याग्रभागे वा प्रोच्छ्रितो³ यदि ⁴भज्यते । पौरसेनापतिनृपान् क्रमशॊ हन्त्यसौ तदा ॥ १६४ ॥ छत्रार्कवेणुगुल्मेन्द्रशीर्षकण्ठगुणा यदि । पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥ १६५ ॥ नृपो वधमवाप्नोति तैर्भग्नैः पतितैर्धुतैः⁵ । अभग्नैर्विधुतैरेतैः क्षयं व्रजति साधनम् ॥ १६६ ॥ क्रमशॊ हन्युरादर्शवैजयन्तीन्दुतारकाः । पतन्त्यो ह्वचमूनाथपुरोधःस्त्रीर्महीपतेः ॥ १६७ ॥ माल्यैर्विभूषणैर्यानैः शस्त्रवस्त्रफलाशनैः । यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥ १६८ ॥ १ द. स्तोकमर्धोत्थितोऽपि वा । २ क. भ्रश्यते । ३ द. प्रोत्थितो । ४ क. भिद्यते । ५ क. द्रुतैः । ६ क. ˚द्रुतै˚ ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८९ शीर्यते शक्रपिटकं कूटैभ्यः शक्रवेक्ष्म वा । यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥ १६९ ॥ भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् । पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥ १७० ॥ भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः । राष्ट्रं हन्युर्नरेन्द्रस्य प्रियामातृसुतान् क्रमात् ॥ १७१ ॥ निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा । अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥ १७२ ॥ कुर्वन्ति मक्षिकाः शके मधुच्छत्रं समुच्छ्रिते । यस्मिंस्तत्र द्विषद्रोधं षण्मासाच्चादिशेत् पुरे ॥ १७३ ॥ मक्षिका वा खगा वा चेद् अमेयुः पार्श्वतो हरेः । प्रदक्षिणा बहिस्थानंमासाच्चाहुस्तदा मृतिम् ॥ १७४ ॥ गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि । तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥ १७५ ॥ यदि केतौ निलीयन्ते कुररोलूकवायसाः । राज्ञः क्रमात् तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥ १७६ ॥ मयूरो यदि वा हंसः समाश्रयति वासवम् । समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥ १७७ ॥ चक्री बलाका हंसी वा यदि केतौ निलीयते । तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥ १७८ ॥ खगैः सुवृष्टिर्जलजैः सुभिक्षं स्यात् फलाशिभिः । विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात् पिशिताशिभिः ॥ १७९ ॥ यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः । विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥ १८० ॥ १. द. ख. 'नमासमाहुस्तदितिरा मृ.' (?) ।

८६ समराङ्गणसूत्रधारे अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः । सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥ १८१ ॥ वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च । फलपुष्पावतंसानि वनान्युपवनानि च ॥ १८२ ॥ देवतायतना(न्याद्य?न्यष्ट)गोपुराणि पुराणि च । भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥ १८३ ॥ प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः । पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥ १८४ ॥ चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः । सगोत्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥ १८५ ॥ मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च । विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥ १८६ ॥ यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च । क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥ १८७ ॥ एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ । प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥ १८८ ॥ स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले । उपप्लवो नरेन्द्रस्य भवेज्जनपदस्य च ॥ १८९ ॥ राजते यद्यलङ्कारः सकलो यावदुत्सवम् । अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥ १९० ॥ नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च । शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥ १९१ ॥ ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः । सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद् ध्रुवम् ॥ १९२ ॥ १ क. राज्ये विनिर्दिशेत् । २. क. पठत्स्वपि ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८७ अमङ्गलैषिणो¹ ये स्युर्विकृता दीनचेतसः । पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥ १९३ ॥ प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव । अदीनाश्च स्वतन्त्राश्च नृपतेर्विजयावहाः ॥ १९४ ॥ आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हृष्टचेतसः । हेषमाणा हयाश्चापि शंसन्ति नृपतेर्जयम् ॥ १९५ ॥ सतडिद्गर्जिताम्भोदा वृष्टिश्चैज्जायते तदा । महीपतेर्जयं विद्यात् सुभिक्षं क्षेममेव च ॥ १९६ ॥ अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि । शक्रस्य ²पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥ १९७ ॥ ततः समाजे ³निर्वृत्ते शक्रकेतौ प्रतिष्ठिते । गन्धतोयैश्च पुष्पैश्च विदधीताम्बुसेवनम् ॥ १९८ ॥ अमेध्यैर्वस्त्रखण्डैर्वा भस्मकेशास्थिकर्दमैः । यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥ १९९ ॥ विप्राः प्राँच्यां विल(म्पे?म्बे)युः पतन्तं वासवध्वजम् । सुभिक्षं क्षेममारोग्यमन्यथा स्याद् विपर्ययः ॥ २०० ॥ अष्टाङ्गोक्तो ध्वजाङ्गे यो विशेषः सोऽथ कथ्यते । पुरे ब्रह्मपुरात् प्राच्यामिन्द्रस्थानं विधीयते ॥ २०१ ॥ मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम् । चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥ २०२ ॥ एकाशीतिपदेनैव भजेत् क्षेत्रं विभागतः । शैलस्यार्धेन कुर्वीत ध्वजायामं प्रमाणतः ॥ २०३ ॥ ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः अर्धाङ्गुलं वा वृद्धिः स्याद् ध्वजस्येन्द्रस्य कुत्रचित् ॥ २०४ ॥ १ द. ख. अमङ्गल्यै° २ द. ख. शत° । ३ द. निवृत्ते । ४ ख. ताम्बुसेचनम् । ५ द. ख. प्राक्चैर्विलम्पेयुः; क. प्राच्यां विलुपे ।

८८ समराङ्गणसूत्रधारे तावद् वृद्धिविधातव्या यावत् क्षेत्रसमोऽङ्गुलैः । ततः प्रमाणमाग्यं यत् तत् पुनर्विनियोजयेत् ॥ २०५ ॥ प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् । तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥ २०६ ॥ ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः । ब्रह्मणोऽनन्तरं प्राच्यां भवेद् दैवतमार्यमा ॥ २०७ ॥ तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पं(मौ?दौ) । तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥ २०८ ॥ ततः प्रभृति यन्त्रस्य( वाम ? ) वेधो नतो भवेत् । पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥ २०९ ॥ यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् । वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥ २१० ॥ खानिले(?)चतुरो हस्तान् दशहस्तोच्छ्रिते च ते । रुद्रस्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥ २११ ॥ सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी । षष्ठी च सवितुर्भागे यमभागे च सप्तमी२ ॥ २१२ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे इन्द्रँध्वजनिरूपणं नाम सप्तदशोऽध्यायः ॥ अथ नगरादिसंज्ञा नामाष्टादशोऽध्यायः । नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् । निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥ १ ॥ १ द. ख. षट्यमौ । २ द. सप्तमीत्यनन्तरम् अष्टमीत्यधिकः पाठः । ३ द. ख. इन्द्रसंपदाध्या° ।

नगरादिसंज्ञा नामाष्टादशोऽध्यायः । ८९ यत्रास्ते नगरे राजा राजधानीं तु तां विदुः । शाखानगरसंज्ञानि ततोऽन्यानि प्रचक्षते ॥ २ ॥ शाखानगरमेवाहुः कर्वटं नगरोपमम् । ऊनं कर्वटमेवेह गुणैर्निगम उच्यते ॥ ३ ॥ ग्रामः स्यान्निगमादूनो ग्रामकल्पो गृहस्त्वसौ । गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम् ॥ ४ ॥ उपस्थानं भवेद् राज्ञां यत्र तत् पत्तनं विदुः । बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम् ॥ ५ ॥ विधाय कुटिका यत्र पत्रशाखातृणोपलैः । पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका ॥ ६ ॥ नगरं वर्जयित्वान्यत् सर्वं जनपदः स्मृतः । नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥ ७ ॥ आवासः सदनं सद्म निकेतो मन्दिरं मतम् । संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥ ८ ॥ अगारं संश्रयो नीडं गेहं शरणमालयः । निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥ ९ ॥ गृहस्योपरिभूमिर्या हर्म्यं तत् परिकीर्तितम् । तस्यारोहणमार्गो यः सोपानं तत् प्रचक्षते ॥ १० ॥ कोष्ठकैर्यत्र रचितं स्थूणयोरधिरोहणम् । सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः ॥ ११ ॥ स्मृतः काष्ठविटङ्कोऽसौ यत् काष्ठैः संवृतं गृहम् । सुधालिप्ततलं हर्म्यं सौधं स्यात् कुट्टिमं च तत् ॥ १२ ॥ वर्षाभयेन या छन्ना तालशाँकदलादिभिः । स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥ १३ ॥ १ द. ख. कल्पगृहं । २ क. पुटभेदकम् । ३ क. कोष्ठकैः । ४ क. शाल । वा. १२

९० समराङ्गणसूत्रधारे वातायनं तु भित्तीनामवलोकनमुच्यते । लघुर्वातयनो यः स्यादवलोकनकं हि तत् ॥ १४ ॥ हर्म्यस्य मध्ये यच्छिद्रं स उ लोक इति स्मृतः । १हर्म्यप्राकारकः स स्यात् कण्ठो² हर्म्यतलस्य योँ³ ॥ १५ ॥ वितर्दिकाष्ठमाला स्यात् सर्वतश्छदमूलगा⁴ । तत्तस्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥ १६ ॥ निर्यूहो हर्म्यदेशाद्⁵ यः काष्ठानामुपनिर्गमः । वलीकमिति विज्ञेयं काष्ठं छेदाद् विनिर्गतम् ॥ १७॥ ६छन्नैश्चतुर्भिः पार्श्वैर्यत् तच्चतुश्शालमुच्यते । त्रिभिस्त्रिशालं तत् प्राहुर्द्वाभ्यां तत् स्याद् द्विशालकम् ॥ १८ ॥ एकशालकमेकेन च्छन्नेन गृहमुच्यते । गृहमेकं तु यच्छन्नं सर्वं⁷ शालेति सा स्मृता ॥ १९ ॥ शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा । संछन्ना (चा ? सा)पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ २० ॥ गृहे महाजनस्थानं त्रिकुड्यं यत् प्रकल्पितम् । उपस्थानं तदत्राहुः स्याच्चोपस्थानकं लघु ॥ २१ ॥ प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता । दीर्घप्रासादिका यासौ वलभत्यभिधीयते ॥ २२ ॥ शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् । शालां विना तु वलभी वलभेति⁸ निगद्यते ॥ २३ ॥ अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः । गृहे चाभ्यन्तरंस्थानं शुद्धान्त इति कीर्त्यते ॥ २४ ॥ १०प्रतोलीं तां विदुर्लोकः सुरङ्गामिव यां वसेत् । सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥ २५ ॥

१ द. ख. हर्म्यः प्रा० । २ क. कण्ठो । ३ क. यः । ४ क. श्छद्° । द. ख. शा. श्छेद्° । ५ देशाग्रका° । ६ क. छिन्नै° । ७ क. सर्वशाले । ८ द. ख. वलभ्येति विधीयते । ९ क. ॰न्तरे । १० द. प्रतोलीनां विदुर्लोके सुरंगामित्रं ।

नगरादिसंज्ञा नामाष्टादशोऽध्यायः । ९१ यदुपस्थानकं नाम ये चापवरकास्तथा । ते कोष्ठका या तु कण्ठा कुड्यं¹ भित्तिश्चयश्च सा ॥ २६ ॥ ²भक्तशाला भवेद् या तु तन्महानसमुच्यते । यच्छन्नं द्वारदेशे तु तमाहुर्द्वारकोष्ठकम् ॥ २७ ॥ प्रवेशनमिति प्राहुर्द्वारनिर्गमनं तथा । जलनिर्गमनस्थानं विज्ञेयमुदकभ्रमः ॥ २८ ॥ भवनस्याङ्गणं यत्तु तदाहुर्भवनाजिरम् । वनाजिरं वनमही त्वाश्रमाजिरमाश्रमे ॥ २९ ॥ उत्तरोदुम्बरस्याधः श्लिष्टां मध्ये च कु³ड्ययोः । तज्ज्ञास्तां देहलीत्याहुः कपाटाश्रयमेव च ॥ ३० ॥ कपाटं द्वारपक्षः स्यात् कपाटपुटमेव च । पक्षः पिधानं⁴वरणो द्वारसंवरणं तथा ॥ ३१ ॥ कपाटं संपुटस्ते द्वे(?) कपाटयुगलं च तत् । कलिका द्वारबन्धार्था या स्यात् तामर्गलां विदुः ॥ ३२ ॥ सा स्यादर्गलसूचीति यदि दीर्घा प्रमाणतः । पुराणां सा तु परिघः फलिहो गजवारणम् ॥ ३३ ॥ छिद्रैर्गवाक्षप्रतिमैश्छिद्रितं सर्वतस्तु यत् । फलकं तद् गवाक्षः स्याज्जालमित्यपि कथ्यते ॥ ३४ ॥ हर्म्यद्वारे गृहद्वारे तथा हर्म्यावलोकने । प्राकारान्तरपृष्ठे तु या च प्रासादिका भवेत् ॥ ३५ ॥ पार्श्वयोरुभयोरेषां फलकद्वयमुच्छ्रितम् । उपर्युपरि संक्षिप्तमर्धचन्द्रद्वयाकृति ॥ ३६ ॥ आनने द्वे यथा चास्मिन् श्लिष्टैरग्रैर्महाधरैः⁵ । तयोरुपरि सन्धौ च तारकाकृति मण्डलम् ॥ ३७ ॥


१ द. कुड्यमिति । २ क. भुक्तिशां । ३ द. ख. पिंडयोः । ४ क. पिधानावरणो । ५ द. ˚रिहाधरैः ।

९२ समराङ्गणसूत्रधारे तत् तोरणमिति प्रोक्तं यच्च तेन परिष्कृतम् । सुवर्णतोरणं च स्यान्मणितोरणमेव च ॥ ३८ ॥ पुष्पतोरणमप्येतत् क्रियते पुष्पकादिभिः । तोरणाग्रे ठकारो यः सिंहकर्णः स ¹उच्यते ॥ ३९ ॥ नाम्ना संयमनानीति गृहसञ्च²रभूमयः । गृहस्य पार्श्वे यद्यस्मिंस्तत् तत्सं³यमनं विदुः ॥ ४० ॥ भित्तेर्यद्वाह्य दारूणां तरङ्गाग्रवदो⁴न्नतम् । मरालपा⁵ली सा हर्म्या(त्) प्रणाली निर्गमोऽम्भसः ॥ ४१ ॥ स च प्राकार इत्युक्तः कण्ठः स्यादङ्गणस्य यः । द्वार⁶स्य तु समीपं यत् प्रद्वारं तदिहोच्यते ॥ ४२ ॥ यदिष्टकचितं मूले द्वारस्य भवति स्थलम् । दीर्घं वा ह्रस्वमथवा तदास्थलकमिष्यते ॥ ४३ ॥ मूत्रभूमिरमेध्येति वर्चस्कोऽवस्करस्तथा । गृहाच्च भित्तिसामान्यं बाह्यं परिसरो मतः ॥ ४४ ॥ विस्तीर्णमुच्छ्रितं यत् स्याद् वेश्म सोऽट्ट उदाहृतः । संक्षिप्तमेतदेवोक्तं तज्ज्ञैरट्टालकाख्यया ॥ ४५ ॥ तदेवाल्यन्तसंक्षिप्तमट्टालीति निगद्यते । अट्टाली या तु नात्युच्चा तामत्राट्टालिकां विदुः ॥ ४६ ॥ एकनाडीगतच्छिद्रैः काष्ठनालैः परिश्रितम् । यत्र काष्ठप्रणाली⁷तं छदपृष्ठेऽम्बु धावति ॥ ४७ ॥ स्तम्भशीर्षकरूपाणि काष्ठमूलाश्रितानि च । सुषिराणि प्रयत्नेन काष्ठनाडीमुखान्तरैः ॥ ४८ ॥ रूपाणामथ तेषां तु स्तननासामुखाक्षिभिः । नानास्थानस्थितानां च वृषवानरदंष्ट्रिणाम् ॥ ४९ ॥ १ द. कथ्यते । २ द. ख. गृहसंचारभूमयः । ३ संयावनं । ४ °दानवम् । ५ द. ख. मराल्या भित्तिसामान्यं बाह्यं परिसरो मतः । विस्तीर्णमुच्छ्रितांयली सा हर्म्या । ६ क. °स्य च समीपे । ७ क. °प्रणालीभिः ।

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९३ कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः । तद् धारागृहमित्युक्तं धारागारादिनामभृत् ॥ ५० ॥ कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः । निचिता यस्य भित्तिः स्यात् तद् दर्पणगृहं १विदुः ॥ ५१ ॥ पक्षद्वारं तदत्राहुरन्यन्महाद्वारतोऽपरम् । यत् प्राकाराश्रितं द्वारं पुरे तद् गोपुरं विदुः ॥ ५२ ॥ निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा । उपका(ल्या?र्या) इति प्रोक्ताः ३क्षेमाश्चाट्टालका मताः ॥ ५३ ॥ चयप्रकारशालाः स्युः पुरीसंवरणाभिधाः । प्राकारादनुपालास्तु प्राकार उपनिष्कलाः(?) ॥ ५४ ॥ क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते । तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥ ५५ ॥ क्रीडागृहं यदत्रोक्तं क्रीडागारं तदुच्यते । विहारभूमिराक्रीडभूमिरित्यभिधीयते ॥ ५६ ॥ देवधिष्ण्यं सुरस्थानं चैत्यमर्चार्गृहं च तत् । देवतायतनं प्राहुर्विबुधागारमित्यपि ॥ ५७ ॥ छन्नं भवेद् यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला । गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥ ५८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे नगरखर्वटग्रामगृहायतनसंज्ञा नामाष्टादशोऽध्यायः । अथ चतुःशालविधानं नामैकोनविंशोऽध्यायः ॥ ब्रूमो नृपचमूनाथवर्णिनां भवनान्यथ । प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥ १ ॥ १ द. ख. जगुः । २ क. उपकाम्या इति, द. ख. उपकल्या इति । ३ क. द. ख. क्षेमाश्चा° । शा. क्षौमाश्चा° ।

९४ समराङ्गणसूत्रधारे । वेश्मनामेकशालानां शतमष्टाधिकं स्मृतम् । द्वापञ्चाशद् द्विशालानां त्रिशालानां द्विसप्ततिः ॥ २ ॥ चतुःशालानि वेश्मानि यानि तेषां शतद्वयम् । पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥ ३ ॥ सहस्रं पञ्चशालानां स्यात् तथा पञ्चविंशतिः । षट्शालानां षण्णवतिः स्यात् सहस्रचतुष्टयम् ॥ ४ ॥ अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः । द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥ ५ ॥ शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम् । द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥ ६ ॥ द्विनवत्युत्तराण्येवं शतानि दश सप्त च । षोडशैव सहस्राणि षोडशोना चतुःशती ॥ ७ ॥ वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया । पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥ ८ ॥ गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत् । लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥ ९ ॥ गृहाणां नवशालानां चत्वारिंशच्चतुर्युता । दशलक्षसहस्राणि चत्वारिंशत् तथाष्ट च ॥ १० ॥ शतानि दशशालानां पञ्च षट्सप्ततिस्तथा । गृहद्वितययोगेन संयुक्तान्यपि विंशतिः ॥ ११ ॥ गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम् । दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥ १२ ॥ गृहमालाथ सङ्घट्टो गृहनाभिर्गृहाङ्गणम् । उद्भिन्नं भिन्नकक्षं च निलीनं प्रतिपादितम् ॥ १३ ॥ १ द. चतुर्विंशतिः । २ क. प्रोक्तमष्टाधिकं शतम् , द. ख. चतुःशालशताष्टकम् । ३ द. °षष्टि° ४ द. गृहत्रितय°

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९५ अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम् । लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते¹ ॥ १४ ॥ वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः । सेनापतेश्चतुःषष्टिरस्तद्वदेव पुरोधसः ॥ १५ ॥ श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम् । चतुःषडष्टहान्या स्युः पञ्चमं च पृथक् पृथक् ॥ १६ ॥ विशोधयेत् कनीयोभिर्मध्यमानि यथाक्रमम् । नरेन्द्रपुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥ १७ ॥ गृहाणि शोधयेत् प्राग्वज्ज्यायांस्यपि च मध्यमैः । भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ॥ १८ ॥ दशांशयुक्तो विस्तारा²दायामो विप्रवेश्मनाम् । अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥ १९ ॥ यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम् । विट्शूद्रयोः स्यादाधिक्यं³ मध्ये ज्येष्ठे च सद्मनि ॥ २० ॥ कर्णसूत्राद् बहिः स्तम्भान् न्यसेत् सर्वान् प्रयत्नतः । धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥ २१ ॥ वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः । शालाव्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥ २२ ॥ तस्याः⁴ षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा । सप्तमांशत्रयेण स्याद् द्वयोरपरवेद्मनोः ॥ २३ ॥ अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः । पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनगैः करैः ॥ २४ ॥ दैर्घ्यं स्याद् दशभिः सार्धैः शालायाः षोडशादिषु । निवेशदशमांशो यः स युतः सप्तभिः करैः ॥ २५ ॥ १ द. प्रतिपद्यते । २ द. विस्तार आयामो । ३ द. ॰धिकामथ ज्येष्ठेथ वेद्मनोः । ४ क तस्यां ।

९६ समराङ्गणसूत्रधारे

शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम् । अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥ २६ ॥ यच्छालालिन्दयोः शेषं भवेद् गर्भगृहं हि तत् । मूषावच्छिन्नमिच्छन्ति शालादैर्घ्यं विपश्चितः ॥ २७ ॥ शालाव्यासप्रमाणा स्यात् सर्वेषामवकोसिमा । दिशासु भवने शाला विदिशाकर्णसामयः (?) ॥ २८ ॥ कर्णशाला (त?तु) या प्रोक्ता सा च ज्ञेयावकोसिमा । अलिन्दशालयोर्मध्ये या स्यान्मूषेति सा स्मृता ॥ २९ ॥ *पूर्वद्वारं नियम्यादावादिमूषा तदुत्तरा । मूषा भद्रा इति प्राहुस्तत्संख्यामवधारयेत् ॥ ३० ॥ यावन्मूषं भवेद् वेश्म तावद् भद्रं तदुच्यते । भद्रा'भद्रे शक्रदिक्स्थे सौम्यासौम्ये यमाश्रिते ॥ ३१ ॥ शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे । अलिन्दा इति केऽप्याहुर्मूषा इत्यपरे विदुः ॥ ३२ ॥ भद्रा इति जगुः केचिदन्ये परिसरा इति । एकद्वित्रिचतुःपञ्चषट्सप्ता(ष्टौ?ष्ट)क्रमेण याः ॥ ३३ ॥ मूषास्तासां प्रवहणैसंज्ञाः स्युर्वेश्मनामिह । तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥ ३४ ॥ नामतो गुणतश्चैव शुभाशुभफलोदयात् । अष्टावादौ गुरून् न्यस्येत् ततश्चाद्यगुरोरधः ॥ ३५ ॥ लघुं न्यस्येत् ततः शेषान् विदधीत यथोपरि । गुरुभिः पूरयेदादिं यावत् स्युर्लघवोऽखिलाः ॥ ३६ ॥


१ क. मूषाविच्छिन्नं । २ क. कर्णमाला, द. कर्णशाला । ३ क. मूखेति । ४ द. ख. यावन्मूषां । ५ क. प्रवहणाः । ६ क. फलोदयः । ७ द. ख. अष्टक्षादौ ।

  • 'पूर्वद्वारमियं यावत्रादिमूषा' इति पाठः स्यात् [ शालिनीः ] ।

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९७ *आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् । अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥ ३७ ॥ मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम् । अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥ ३८ ॥ तमङ्गभद्रविन्यासरचनाभिरनेकधा । अपरस्परसंबाधात् १संवृत्तैर्विवृतैरपि ॥ ३९ ॥ गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते । यत्संबद्धं२चतुश्शालममूषालिन्दकं हि तत् ॥ ४० ॥ एकभद्रादिगेहानां ब्रूमो नामान्यतः परम् । यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥ ४१ ॥ कथयन्त्येकभद्राणि क्रमसंख्याविभागतः । प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥ ४२ ॥ प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् । अष्टौ तान्येकभद्राणि द्विभद्राण्यभिदध्महे ॥ ४३ ॥ पूर्वोत्तरोत्तरं पूर्वाद् भद्रादिह विधानतः । स्यातां ३प्राङ्मेलकाद्यद्वत् पूर्वाद्या दक्षिणा परे( ? ) ॥ ४४ ॥ ईरं सुनीर्थमाग्नेयं ५द्वीपमाप्यं सुसंयमम् । अर्धर्चमैभं व्याकोशं नैर्ऋतं वृषभं विनम् ॥ ४५ ॥ काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम् । गवयं श्रीवहं श्लिष्टं गणं भीममयोगर्मम् ॥ ४६ ॥ १ द. संवृते विवृतेरपि । २ क. °बद्धं । ३ द. ख. प्राश्लेषिका । ४ क. °तमा° । ५ द. ख. दीप्यं वाप्यमु° । ६ द. ख. कव्यं तिगस । ७ द. ख. विपश्चितम् । ८ द. ख. भीमं मयोग° ।

  • ‘आद्यपङ्क्तौ प्रथमायामावलौ एको गुरुः, तस्याधस्तादपरो लघुः कर्तव्यः । एवं यथाक्रमं प्रस्तारसङ्ख्याक्रमित्यालिखेत् । तद्यथा—चतुर्गृहप्रस्तारे षोडश गुरुलघवः । ततस्तदग्रतो द्वौ गुरू द्वौ लघू इति एकैकस्याव्रो न्यसेत् । तदग्रतोऽपि चत्वारो गुरवश्चत्वारो लघवः । ततोऽपि अष्टौ गुरवः अष्टौ लघवः । एवं प्रतिपङ्क्ति द्विगुणान् गुरुलघून् न्यसेत् । अयमपरः प्रस्तारः ।’ इति टिप्पणमस्ति । [ शाखिणः ] बा. १३

९६ समराङ्गणसूत्रधारे

वर्तं चलं शठं क्रान्तमित्यष्टाविंशको गणः । द्विभद्राणां समाख्यातस्त्रिभद्राणामतः परम् ॥ ४७ ॥ ऐन्द्रं विलोममायातं वधमेकाक्षमन्तिकम् । प्रकाशं पैत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥ ४८ ॥ क्षेमं विघातमायातं कान्तं चित्रं ३द्विमन्दिरम् । सुदक्षिणं भयं श्लिष्टं प्रमोदं व्यायतं वियत् ॥ ४९ ॥ ४आप्यं सुनागं नागेन्द्रमीरितं शोभनं घनम् । शास्तोत्तरं ककं कर्णं कुष्ठं ५क्रान्तं क्रमागतम् ॥ ५० ॥ द्विशस्तं द्विभयं प्रोक्तं चक्रं मलयमायतम् । वनं भारं सुगाराख्यमागारं वीरमेव च ॥ ५१ ॥ व्यायाममायुतं तद्वद् व्याहृतं च ततः परम् । दुर्गमं क्षो६भसंज्ञं च कृत्रिमं क्षोभणं तथा ॥ ५२ ॥ चारुरुच्याभिधानं च ध्रुवं कथमिति क्रमात् । षट्पञ्चाशत् त्रिभद्राणि चतुर्भद्राण्यतः परम् ॥ ५३ ॥ कृतमर्चायनं पौष्णमुद्धतं मिश्रमुत्सुकम् । विघ्नं विपक्षमाहूतं रुचकं वर्धनं पृथु ॥ ५४ ॥ *कलहं छेलमायास्यं त्रिनाभं स्वस्तिकं स्थिरम् ॥ ५५ ॥ शशलं द्विगुणं नाद्यं चित्रं भ्रान्तं विधारणम् । साधारणं नतं ८त्र्यंशमृषं रोगं विशेषणम्§ ॥ ५६ ॥ ९प्रतीच्यं त्रिसमं स्वैरं सुप्रतीकं नलं क्षपम् । व्याप्तमाक्रीडनं व्यर्थमीशानं सुखमव्ययम् ॥ ५७ ॥ मगधं क्षिप्रमागस्त्यमेक्रोजं द्विर्गतं लिहम् । पर्कं विलोममुद्दण्डं मुण्डं मातङ्गमाखिलम्‡ ॥ ५८ ॥


१ द. मन्तकं । २ द. क्षमं, ख. क्षेमं । ३ द. हि । ४ द. आद्यं, ख. अप्यं । ५ द. कान्तं । ६ ख. क्षोमं । ७ द. ख. चउं । ८ द. तत्तत्त्र्यंशं क्रां । ९ प्रतीच्यमारभ्य (श्लो० ५७) प्रभम् यावन् (श्लो० ६२) अंशः द. प्रतौ नास्ति ।

  • वक्ष्यामाणलक्षणश्लोके तु कलभमिति पठ्यते । § लक्षणे तु विशेषणमेति पठ्यते । ‡ ख. पुस्तकेऽर्धमिदं लुप्तम् ।