समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 159, कुल 726 में से
संदर्भ में पढ़ें९४ समराङ्गणसूत्रधारे । वेश्मनामेकशालानां शतमष्टाधिकं स्मृतम् । द्वापञ्चाशद् द्विशालानां त्रिशालानां द्विसप्ततिः ॥ २ ॥ चतुःशालानि वेश्मानि यानि तेषां शतद्वयम् । पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥ ३ ॥ सहस्रं पञ्चशालानां स्यात् तथा पञ्चविंशतिः । षट्शालानां षण्णवतिः स्यात् सहस्रचतुष्टयम् ॥ ४ ॥ अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः । द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥ ५ ॥ शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम् । द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥ ६ ॥ द्विनवत्युत्तराण्येवं शतानि दश सप्त च । षोडशैव सहस्राणि षोडशोना चतुःशती ॥ ७ ॥ वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया । पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥ ८ ॥ गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत् । लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥ ९ ॥ गृहाणां नवशालानां चत्वारिंशच्चतुर्युता । दशलक्षसहस्राणि चत्वारिंशत् तथाष्ट च ॥ १० ॥ शतानि दशशालानां पञ्च षट्सप्ततिस्तथा । गृहद्वितययोगेन संयुक्तान्यपि विंशतिः ॥ ११ ॥ गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम् । दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥ १२ ॥ गृहमालाथ सङ्घट्टो गृहनाभिर्गृहाङ्गणम् । उद्भिन्नं भिन्नकक्षं च निलीनं प्रतिपादितम् ॥ १३ ॥ १ द. चतुर्विंशतिः । २ क. प्रोक्तमष्टाधिकं शतम् , द. ख. चतुःशालशताष्टकम् । ३ द. °षष्टि° ४ द. गृहत्रितय°