भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 158, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 158

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९३ कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः । तद् धारागृहमित्युक्तं धारागारादिनामभृत् ॥ ५० ॥ कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः । निचिता यस्य भित्तिः स्यात् तद् दर्पणगृहं १विदुः ॥ ५१ ॥ पक्षद्वारं तदत्राहुरन्यन्महाद्वारतोऽपरम् । यत् प्राकाराश्रितं द्वारं पुरे तद् गोपुरं विदुः ॥ ५२ ॥ निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा । उपका(ल्या?र्या) इति प्रोक्ताः ३क्षेमाश्चाट्टालका मताः ॥ ५३ ॥ चयप्रकारशालाः स्युः पुरीसंवरणाभिधाः । प्राकारादनुपालास्तु प्राकार उपनिष्कलाः(?) ॥ ५४ ॥ क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते । तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥ ५५ ॥ क्रीडागृहं यदत्रोक्तं क्रीडागारं तदुच्यते । विहारभूमिराक्रीडभूमिरित्यभिधीयते ॥ ५६ ॥ देवधिष्ण्यं सुरस्थानं चैत्यमर्चार्गृहं च तत् । देवतायतनं प्राहुर्विबुधागारमित्यपि ॥ ५७ ॥ छन्नं भवेद् यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला । गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥ ५८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे नगरखर्वटग्रामगृहायतनसंज्ञा नामाष्टादशोऽध्यायः । अथ चतुःशालविधानं नामैकोनविंशोऽध्यायः ॥ ब्रूमो नृपचमूनाथवर्णिनां भवनान्यथ । प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥ १ ॥ १ द. ख. जगुः । २ क. उपकाम्या इति, द. ख. उपकल्या इति । ३ क. द. ख. क्षेमाश्चा° । शा. क्षौमाश्चा° ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 158, कुल 726 में से · BharatKosha