समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
९४ समराङ्गणसूत्रधारे । वेश्मनामेकशालानां शतमष्टाधिकं स्मृतम् । द्वापञ्चाशद् द्विशालानां त्रिशालानां द्विसप्ततिः ॥ २ ॥ चतुःशालानि वेश्मानि यानि तेषां शतद्वयम् । पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥ ३ ॥ सहस्रं पञ्चशालानां स्यात् तथा पञ्चविंशतिः । षट्शालानां षण्णवतिः स्यात् सहस्रचतुष्टयम् ॥ ४ ॥ अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः । द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥ ५ ॥ शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम् । द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥ ६ ॥ द्विनवत्युत्तराण्येवं शतानि दश सप्त च । षोडशैव सहस्राणि षोडशोना चतुःशती ॥ ७ ॥ वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया । पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥ ८ ॥ गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत् । लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥ ९ ॥ गृहाणां नवशालानां चत्वारिंशच्चतुर्युता । दशलक्षसहस्राणि चत्वारिंशत् तथाष्ट च ॥ १० ॥ शतानि दशशालानां पञ्च षट्सप्ततिस्तथा । गृहद्वितययोगेन संयुक्तान्यपि विंशतिः ॥ ११ ॥ गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम् । दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥ १२ ॥ गृहमालाथ सङ्घट्टो गृहनाभिर्गृहाङ्गणम् । उद्भिन्नं भिन्नकक्षं च निलीनं प्रतिपादितम् ॥ १३ ॥ १ द. चतुर्विंशतिः । २ क. प्रोक्तमष्टाधिकं शतम् , द. ख. चतुःशालशताष्टकम् । ३ द. °षष्टि° ४ द. गृहत्रितय°
चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९५ अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम् । लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते¹ ॥ १४ ॥ वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः । सेनापतेश्चतुःषष्टिरस्तद्वदेव पुरोधसः ॥ १५ ॥ श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम् । चतुःषडष्टहान्या स्युः पञ्चमं च पृथक् पृथक् ॥ १६ ॥ विशोधयेत् कनीयोभिर्मध्यमानि यथाक्रमम् । नरेन्द्रपुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥ १७ ॥ गृहाणि शोधयेत् प्राग्वज्ज्यायांस्यपि च मध्यमैः । भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ॥ १८ ॥ दशांशयुक्तो विस्तारा²दायामो विप्रवेश्मनाम् । अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥ १९ ॥ यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम् । विट्शूद्रयोः स्यादाधिक्यं³ मध्ये ज्येष्ठे च सद्मनि ॥ २० ॥ कर्णसूत्राद् बहिः स्तम्भान् न्यसेत् सर्वान् प्रयत्नतः । धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥ २१ ॥ वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः । शालाव्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥ २२ ॥ तस्याः⁴ षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा । सप्तमांशत्रयेण स्याद् द्वयोरपरवेद्मनोः ॥ २३ ॥ अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः । पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनगैः करैः ॥ २४ ॥ दैर्घ्यं स्याद् दशभिः सार्धैः शालायाः षोडशादिषु । निवेशदशमांशो यः स युतः सप्तभिः करैः ॥ २५ ॥ १ द. प्रतिपद्यते । २ द. विस्तार आयामो । ३ द. ॰धिकामथ ज्येष्ठेथ वेद्मनोः । ४ क तस्यां ।
९६ समराङ्गणसूत्रधारे
शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम् । अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥ २६ ॥ यच्छालालिन्दयोः शेषं भवेद् गर्भगृहं हि तत् । मूषावच्छिन्नमिच्छन्ति शालादैर्घ्यं विपश्चितः ॥ २७ ॥ शालाव्यासप्रमाणा स्यात् सर्वेषामवकोसिमा । दिशासु भवने शाला विदिशाकर्णसामयः (?) ॥ २८ ॥ कर्णशाला (त?तु) या प्रोक्ता सा च ज्ञेयावकोसिमा । अलिन्दशालयोर्मध्ये या स्यान्मूषेति सा स्मृता ॥ २९ ॥ *पूर्वद्वारं नियम्यादावादिमूषा तदुत्तरा । मूषा भद्रा इति प्राहुस्तत्संख्यामवधारयेत् ॥ ३० ॥ यावन्मूषं भवेद् वेश्म तावद् भद्रं तदुच्यते । भद्रा'भद्रे शक्रदिक्स्थे सौम्यासौम्ये यमाश्रिते ॥ ३१ ॥ शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे । अलिन्दा इति केऽप्याहुर्मूषा इत्यपरे विदुः ॥ ३२ ॥ भद्रा इति जगुः केचिदन्ये परिसरा इति । एकद्वित्रिचतुःपञ्चषट्सप्ता(ष्टौ?ष्ट)क्रमेण याः ॥ ३३ ॥ मूषास्तासां प्रवहणैसंज्ञाः स्युर्वेश्मनामिह । तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥ ३४ ॥ नामतो गुणतश्चैव शुभाशुभफलोदयात् । अष्टावादौ गुरून् न्यस्येत् ततश्चाद्यगुरोरधः ॥ ३५ ॥ लघुं न्यस्येत् ततः शेषान् विदधीत यथोपरि । गुरुभिः पूरयेदादिं यावत् स्युर्लघवोऽखिलाः ॥ ३६ ॥
१ क. मूषाविच्छिन्नं । २ क. कर्णमाला, द. कर्णशाला । ३ क. मूखेति । ४ द. ख. यावन्मूषां । ५ क. प्रवहणाः । ६ क. फलोदयः । ७ द. ख. अष्टक्षादौ ।
- 'पूर्वद्वारमियं यावत्रादिमूषा' इति पाठः स्यात् [ शालिनीः ] ।
चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९७ *आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् । अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥ ३७ ॥ मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम् । अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥ ३८ ॥ तमङ्गभद्रविन्यासरचनाभिरनेकधा । अपरस्परसंबाधात् १संवृत्तैर्विवृतैरपि ॥ ३९ ॥ गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते । यत्संबद्धं२चतुश्शालममूषालिन्दकं हि तत् ॥ ४० ॥ एकभद्रादिगेहानां ब्रूमो नामान्यतः परम् । यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥ ४१ ॥ कथयन्त्येकभद्राणि क्रमसंख्याविभागतः । प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥ ४२ ॥ प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् । अष्टौ तान्येकभद्राणि द्विभद्राण्यभिदध्महे ॥ ४३ ॥ पूर्वोत्तरोत्तरं पूर्वाद् भद्रादिह विधानतः । स्यातां ३प्राङ्मेलकाद्यद्वत् पूर्वाद्या दक्षिणा परे( ? ) ॥ ४४ ॥ ईरं सुनीर्थमाग्नेयं ५द्वीपमाप्यं सुसंयमम् । अर्धर्चमैभं व्याकोशं नैर्ऋतं वृषभं विनम् ॥ ४५ ॥ काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम् । गवयं श्रीवहं श्लिष्टं गणं भीममयोगर्मम् ॥ ४६ ॥ १ द. संवृते विवृतेरपि । २ क. °बद्धं । ३ द. ख. प्राश्लेषिका । ४ क. °तमा° । ५ द. ख. दीप्यं वाप्यमु° । ६ द. ख. कव्यं तिगस । ७ द. ख. विपश्चितम् । ८ द. ख. भीमं मयोग° ।
- ‘आद्यपङ्क्तौ प्रथमायामावलौ एको गुरुः, तस्याधस्तादपरो लघुः कर्तव्यः । एवं यथाक्रमं प्रस्तारसङ्ख्याक्रमित्यालिखेत् । तद्यथा—चतुर्गृहप्रस्तारे षोडश गुरुलघवः । ततस्तदग्रतो द्वौ गुरू द्वौ लघू इति एकैकस्याव्रो न्यसेत् । तदग्रतोऽपि चत्वारो गुरवश्चत्वारो लघवः । ततोऽपि अष्टौ गुरवः अष्टौ लघवः । एवं प्रतिपङ्क्ति द्विगुणान् गुरुलघून् न्यसेत् । अयमपरः प्रस्तारः ।’ इति टिप्पणमस्ति । [ शाखिणः ] बा. १३
९६ समराङ्गणसूत्रधारे
वर्तं चलं शठं क्रान्तमित्यष्टाविंशको गणः । द्विभद्राणां समाख्यातस्त्रिभद्राणामतः परम् ॥ ४७ ॥ ऐन्द्रं विलोममायातं वधमेकाक्षमन्तिकम् । प्रकाशं पैत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥ ४८ ॥ क्षेमं विघातमायातं कान्तं चित्रं ३द्विमन्दिरम् । सुदक्षिणं भयं श्लिष्टं प्रमोदं व्यायतं वियत् ॥ ४९ ॥ ४आप्यं सुनागं नागेन्द्रमीरितं शोभनं घनम् । शास्तोत्तरं ककं कर्णं कुष्ठं ५क्रान्तं क्रमागतम् ॥ ५० ॥ द्विशस्तं द्विभयं प्रोक्तं चक्रं मलयमायतम् । वनं भारं सुगाराख्यमागारं वीरमेव च ॥ ५१ ॥ व्यायाममायुतं तद्वद् व्याहृतं च ततः परम् । दुर्गमं क्षो६भसंज्ञं च कृत्रिमं क्षोभणं तथा ॥ ५२ ॥ चारुरुच्याभिधानं च ध्रुवं कथमिति क्रमात् । षट्पञ्चाशत् त्रिभद्राणि चतुर्भद्राण्यतः परम् ॥ ५३ ॥ कृतमर्चायनं पौष्णमुद्धतं मिश्रमुत्सुकम् । विघ्नं विपक्षमाहूतं रुचकं वर्धनं पृथु ॥ ५४ ॥ *कलहं छेलमायास्यं त्रिनाभं स्वस्तिकं स्थिरम् ॥ ५५ ॥ शशलं द्विगुणं नाद्यं चित्रं भ्रान्तं विधारणम् । साधारणं नतं ८त्र्यंशमृषं रोगं विशेषणम्§ ॥ ५६ ॥ ९प्रतीच्यं त्रिसमं स्वैरं सुप्रतीकं नलं क्षपम् । व्याप्तमाक्रीडनं व्यर्थमीशानं सुखमव्ययम् ॥ ५७ ॥ मगधं क्षिप्रमागस्त्यमेक्रोजं द्विर्गतं लिहम् । पर्कं विलोममुद्दण्डं मुण्डं मातङ्गमाखिलम्‡ ॥ ५८ ॥
१ द. मन्तकं । २ द. क्षमं, ख. क्षेमं । ३ द. हि । ४ द. आद्यं, ख. अप्यं । ५ द. कान्तं । ६ ख. क्षोमं । ७ द. ख. चउं । ८ द. तत्तत्त्र्यंशं क्रां । ९ प्रतीच्यमारभ्य (श्लो० ५७) प्रभम् यावन् (श्लो० ६२) अंशः द. प्रतौ नास्ति ।
- वक्ष्यामाणलक्षणश्लोके तु कलभमिति पठ्यते । § लक्षणे तु विशेषणमेति पठ्यते । ‡ ख. पुस्तकेऽर्धमिदं लुप्तम् ।
चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९९
खर्वं पिनाकमुद्यन्तं विशिखं प्रसमं रजम् । खुरु?(रुच)कं स?(सै)फलं वामं वर्धनं धावनं सहम् ॥ ५९ ॥ चयं सेठ्यं कलं तीर्णं चतुर्भद्राणि सप्ततिः । पञ्चभद्रान्यथोच्यन्ते षट्पञ्चाशदनुक्रमात् ॥ ६० ॥ कानलं लोलुपं जिह्मं प्रगालं सालिनं जिनम् । सुजयं विजयं यामं जयं ज्ञातं जपं तपम् ॥ ६१ ॥ जमं वरं चरं वैरं † विशिषं सुप्रभं प्रभम् । प्रतीक्षं क्षमिणं युक्तं शान्तं त्रैतं विनोदनम् ॥ ६२ ॥ सन्दोहं विप्रदोहं च विद्रुतं सततं ततम् । व्याकुलं लीनमालीनं विचित्रं लम्बनं खरम् ॥ ६३ ॥ शेखरं विबुधं चैत्रं व्यासक्तं संपदं पदम् । त्रिशिखं चतुरं प्रातं सुस्थितं दुःस्थितं स्थितम् ॥ ६४ ॥ चक्रं वक्रं लघं लाभं संपर्कं मूलमव्ययम् । अष्टाविंशतिरन्यानि षड्भद्राणि निबोधत ॥ ६५ ॥ किन्नरं कौस्तुभं हर्म्यं धार्मिकं ४निषधं वसु । ५साटिकं वामनं गौरमस्थिरं क्रमिणं ६खलम् ॥ ६६ ॥ ७विवरं वालिशं धौमं त्रिपुष्टं मन्दिरं भवम् । अशोकं भास्करं चौष्यं लातव्यं ८सुखनं मखम् ॥ ६७ ॥ वाजि नेत्रं भ्रमं घोषं सप्तभद्रायतः परम् । भाण्डीरं * वैसेहं प्रस्थं प्रतानं वासुलं ९कैटम् ॥ ६८ ॥ लक्ष्मीवासं सुगन्धान्तमष्टधैतानि नामतः । अन्यच्च सर्वतोभद्रमेकं भद्राभिरष्टभिः ॥ ६९ ॥ संप्रकल्प्यं चतुःशालं ब्रूमश्चैषां शुभाशुभम् । प्रदक्षिणा शुभा मूषा विपरीता विपर्यये ॥ ७० ॥
१ क. क्षिमिणं । २ द. सुस्थितं । ३ द. ख. नक्तं । ४ क. निषिधं । ५ द. साकीटं । ६ द. ख. खरम् । ७ द. ख. विचनं वाभिसं । ८ द. सुध्वनं । ९ क. वैसमं । १० द. टक्म् । † ख. पुस्तकदृष्टलक्षणापाठरीत्या तु विरोषमिति पाठ्यम् । * लक्षणानुसाराद् बैसनमिति पाठ्यम् ।
१०० समराङ्गणसूत्रधारे समवाये यथा भूयो जानीयात् साध्वसाधु च । तथाष्टावेकभद्राणि सप्तभद्राणि च क्रमात् ॥ ७१ ॥ द्विभद्राण्यष्टभिर्युक्ता षड्भद्राणि च विंशतिः । षट्पञ्चाशत् त्रिभद्राणि पञ्चभद्राणि चोन्नयेत् ॥ ७२ ॥ सप्ततिश्च चतुर्भद्राण्येकं भद्राभिरष्टभिः । एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥ ७३ ॥ भद्रैः पूर्वविधानेन चतुःशालाक्रियादिषु । मूषा स्यात् कुड्यजैस्तेषु चतुश्शालेषु वेश्मसु ॥ ७४ ॥ अनुवंशाश्रिते मूषे स्वस्तिके स्तःपराङ्मुखे । मुखायते च पुरतो द्वे स्यातामवकोसिमे ॥ ७५ ॥ नोदङ्मुखः स कर्तव्यः कार्यः प्राग्जीवसंयुतः । वर्धमाने तथा कार्ये?(र्यो) यथा प्राग्ग्रीवसंयुतः ॥ ७६ ॥ वर्धमाने तथा कार्ये द्वारमूषे मुखायते । मूषाया दक्षिणे स्यातां दीर्घवामेऽवकोसिमे ॥ ७७ ॥ नन्द्यावर्तगृहे सर्वा नन्द्यावर्ता भवन्ति ताः । द्वे स्तरु?(मू)षे रुचके स्यातामायते त्ववकोसिमे ॥ ७८ ॥ सर्वद्वारवहा मूषाः सर्वतोभद्रवेश्मनि । आदिमूषा भवेदेका गृहं प्रागायतं हि तत् ॥ ७९ ॥ द्वितीया प्राग्विलग्नमेकया तदनन्तरम् । प्रदक्षिणेन वेश्मानि जयादीन्येकयैकया ॥ ८० ॥ मूषया स्युः क्रमादेवं कथ्यन्ते तत्फलान्यथ । धनमर्थविनाशश्च जयश्चैवाशुभं सदा ॥ ८१ ॥ प्रीतिरुद्वेगकल्याणकलहाश्चाप्यनुक्रमात् । यत्र पूर्वे उभे मूषे तदीरं परिकीर्तितम् ॥ ८२ ॥ यत्र पूर्वा तृतीया च तत् १सुनीतं गृहं विदुः । आग्नेये द्वितृतीये स्तो द्वीपे चाद्यचतुर्थिके ॥ ८३ ॥ १ द. सुनीथं ।
चतुःशालविधानं नामैकोनविंशोऽध्यायः । १०१ द्विचतुर्थ्यौ तथा चाप्ये त्रिचतुर्थ्यौ सुसंयमे । अर्धर्चे त्वाद्यपञ्चम्यौ द्वितीयेभे सपञ्चमी ॥ ८४ ॥ व्याकोशे च त्रिपञ्चम्यौ नैरृते द्विशराभिधे । वृषभे प्रथमाषष्ठ्यौ द्विषष्ठ्यौ च तथा विने ॥ ८५ ॥ काव्ये तृतीया षष्ठी च विपासेऽब्धिरसाभिधे । आनीरे पञ्चमीषष्ठ्यौ साद्या कान्ते च सप्तमी ॥ ८६ ॥ सौभे द्वितीयासप्तम्यौ त्रिसप्तम्यौ विपश्चिमे¹ । गवये सप्तमीतूर्ये श्रीवहे पञ्चसप्तमी ॥ ८७ ॥ सषष्ठी सप्तमी श्लिष्टे गणे पूर्वाष्टमी तथा । भीमेऽष्टमी द्वितीया च त्र्यष्टम्यौ चाप्ययोगमे ॥ ८८ ॥ वर्ते चतुर्थ्यष्टमी च पञ्चमी चाष्टमी चले । षष्ठ्यष्टम्यौ शठे क्रान्ते सप्तमी चाष्टमीति च ॥ ८९ ॥ इत्यष्टाविंशतिः प्रोक्ता द्विभद्राणामिहौकसाम् । अथ ब्रूमस्त्रिभद्राणि तत्रैन्द्रं पुष्टिवर्धनम् ॥ ९० ॥ स्याद् याम्यपश्चिमद्वारमाद्यमूषात्रयान्वितम् । आद्या द्वितीया तुर्या च यस्य द्वारं विपश्चिमम् ॥ ९१ ॥ विलोमं नाम तद् वेश्म शूद्राणां पुष्टिवर्धनम् । आद्या तृतीया तुर्या स्यादायामे सर्वतोमुखे ॥ ९२ ॥ वधे द्वित्रिचतुर्थ्यः स्युर्द्वारं च स्यादुदग्दिशि । यत्र साद्ये द्विपञ्चम्यावेकाक्षं तदुदाहृतम् ॥ ९३ ॥ साग्र्ये यत्र द्विपञ्चम्यौ तत् प्रोक्तं गृहमन्तिकम् । यत्र स्युर्द्वित्रिपञ्चम्यः प्रकाशं सर्ववृद्धिकृत् ॥ ९४ ॥ पूर्वा चतुर्थीपञ्चम्यौ यत्र तत् पैत्रमुच्यते । पञ्चमी द्विचतुर्थ्यौ च यत्राग्रस्तं तदीरितम् ॥ ९५ ॥ त्रिचतुःपञ्चमीयुक्तं भद्रमाहुर्मनीषिणः । आद्या द्वितीया³ षष्ठी च यत्र तत् प्रान्तशब्दितम् ॥ ९६ ॥ १ क. शोभे । २ द. ख. ॰ते । ३ द. ख. तृतीया ।
आद्या तृतीया षष्ठी च स्यात् प्रसाधकवेश्मनि । तद् भवेत् सर्वतोद्वारं तथा सर्वार्थसाधकम् ॥ ९७ ॥ द्वितीया च तृतीया च षष्ठी च क्षमनामनि । तस्य प्रत्यग्दिशि द्वारं शूद्रवर्गस्य चेष्टदम् ॥ ९८ ॥ षष्ठी चतुर्थी चाद्या च स्युर्विघाताह्वयवेश्मनि । षष्ठी द्वितुर्ये यस्मिंस्तदायातं दक्षिणामुखम् ॥ ९९ ॥ षट्चतुस्त्रियुतं कान्तं तत् स्यात् सर्वार्थसाधकम् । षट्पञ्चाद्यान्वितं चित्रं तच्च स्याद् याम्यदिङ्मुखम् ॥ १०० ॥ द्वितीयापञ्चमीषष्ठ्यो यस्मिन् स्युस्तद् द्विमन्दिरम् । यत्र त्रिपञ्चमीषष्ठ्यस्तद् वदन्ति सुदक्षिणम् ॥ १०१ ॥ चतुर्थीपञ्चमीषष्ठयो भये स्युस्तन्न वृद्धिकृत् । पूर्वाद्वातीयासप्तम्यो यत्र तच्छ्लिष्टसंज्ञितम् ॥ १०२ ॥ याम्यास्यमिदमिच्छन्ति शुभं सर्वार्थदं नृणाम् । साद्ये तृतीयासप्तम्यौ प्रमोदे परिकीर्तिते ॥ १०३ ॥ यत्र स्युर्द्वित्रिसप्तम्यस्तद् वेश्म व्यायतं स्मृतम् । यत्राद्या च चतुर्थी च सप्तम्यपि च तद् वियत् ॥ १०४ ॥ द्विचतुःसप्तमीमूषमाप्यं स्याद् दक्षिणामुखम् । त्रिचतुस्सप्तमीभिस्तु सुनागं वेश्म कीर्त्यते ॥ १०५ ॥ तच्च याम्यापरमुखं धनधान्यसुखप्रदम् । सप्तमी पञ्चमी पूर्वा मूषा नागेन्द्रसंज्ञिते ॥ १०६ ॥ मूषा द्विपञ्चसप्तम्यो याम्यं च मुखमीरितम् । त्रिपञ्चसप्तमीमूषाशोभितं शोभनं भवेत् ॥ १०७ ॥ चतुर्थी पञ्चमी यत्र सप्तम्यपि च तद् घनम् । पूर्वा षष्ठी सप्तमी च स्मृता शस्तोत्तरे गृहे ॥ १०८ ॥ द्वितीयासप्तमीषष्ठ्यो यस्मिंस्तत् कफसंज्ञितम् । द्वारं वारुणमेतस्य हितं च स्याद् द्विजन्मनाम् ॥ १०९ ॥
१ द. ख. ॰योच्छिष्टं ।
चतुःशालविधानं नामैकोनत्रिंशोऽध्यायः १०३ कर्णं स्यात् पश्चिमद्वारं त्रिषष्ठीसप्तमीयुतम् । चतुर्थीसप्तमीषष्ठयो मूषाः स्युः क्रुष्टसंज्ञिते ॥ ११० ॥ सप्तमीपञ्चमीषष्ठीयुक्तं क्रान्तं यशस्करम् । आद्याष्टमी द्वितीया च मूषा प्रोक्ता क्रमागते ॥ १११ ॥ आद्याष्टमी तृतीया च द्विशस्ते भवने स्मृताः । यत्राष्टमी त्रिद्वितीये द्विभयं तदुदाहृतम् ॥ ११२ ॥ आद्याष्टमी चतुर्थी च यत्र तच्चक्रसंज्ञितं । तुर्याष्टमी द्वितीया च यत्र तन्मलयं विदुः ॥ ११३ ॥ तुर्याष्टमी तृतीया च यत्र तत् प्रोक्तमायतम् । आद्याष्टमी पञ्चमी च स्याद् यस्मिंस्तद् वनं स्मृतम् ॥ ११४ ॥ द्वितीया पञ्चमी मूषा यत्र स्यादष्टमी तथा । तद् १भाराख्यमुदग्वक्त्रं शुभं विघ्नकृदन्यथा ॥ ११५ ॥ २त्रिपञ्चम्यष्टमीभिस्तु सुगारं परिकीर्तितम् । यत्राष्टमी तदागारं चतुर्थी पञ्चमी तथा ॥ ११६ ॥ यस्मिन्नाद्याष्टमीषष्ठयो वीरं तदिह कीर्तितम् । षष्ठयष्टमी द्वितीया च गृहे व्यायामनामनि ॥ ११७ ॥ षष्ठयष्टमीतृतीयाभिर्मूषाभिः प्रोक्तमायुतम् । षष्ठयष्टमीचतुर्थ्यः स्युर्यत्र तद् व्याहृतं विदुः ॥ ११८ ॥ षष्ठयष्टमीपञ्चमीभिर्दुर्गमं व्याधिकृन्मतम् । आद्याष्टमीसप्तमीभिः संयुक्तं क्षोभमुच्यते ॥ ११९ ॥ द्विसप्तम्यष्टमीयुक्तं गृहं कृत्रिमसंज्ञितम् । त्रिसप्तम्यष्टमीभिस्तु मूषाभिः क्षोभणं भवेत् ॥ १२० ॥ चारुरुच्यं चतुःसप्तम्यष्टमीभिः समन्वितम् । सप्तपञ्चम्यष्टमीभिर्युक्तं ध्रुवमिति स्मृतम् ॥ १२१ ॥ षट्सप्तम्यष्टमीयुक्तं कथं सर्वार्थसिद्धिदम् । इत्युक्तानि त्रिभद्रानि शस्तान्येतेषु यानि च ॥ १२२ ॥ १ द. भावाक्षं। २ द. प्रतौ श्लोकार्धं नास्ति ।
तानि नित्यं प्रयोज्यानि वर्णानां च मनीषिभिः । आद्याश्चतस्रो मूषाः स्युर्यत्र तत् कृतसंज्ञितम् ॥ १२३ ॥ सर्वद्विगुणकृत् पूर्वप्रत्यग्द्वारं नचान्यथा । आद्यास्तिस्रः पञ्चमी च यस्मिन्नर्चायनं हि तत् ॥ १२४ ॥ तद् भवेत् पश्चिमद्वारं सर्वगुणान्वितम् । यस्मिन्नाद्या द्वितीया च चतुर्थी पञ्चमी तथा ॥ १२५ ॥ तत् पौष्णं दक्षिणद्वारं सर्ववृद्धिकरं नृणाम् । आ?(द्या)¹द्यास्तिस्रस्तथाद्या च यस्मिंस्तद् गृहमुद्गतम् ॥ १२६ ॥ द्वारेण पश्चिमेनैतच्छस्यते दक्षिणेन वा । द्वयाद्याश्चतस्रो यत्र स्युस्तन्मित्रं प्रीतिवर्धनम् ॥ १२७॥ प्रशस्तं क्षत्रियादीनामस्य द्वाः प्राच्यपाचि वा । आद्यास्तिस्रस्तथा षष्ठी यस्मिन् मूषास्तदुत्सुकम् ॥ १२८ ॥ तच्छस्तं पश्चिमद्वारं विप्रादीनां जयावहम् । आद्या द्वितीया तुर्या च मूषा षष्ठी च यत्र तत् ॥ १२९ ॥ याम्य²प्रत्यङ्मुखं शस्तं विन्नं नाम कुलर्द्धितम् । आद्या तृतीया तुर्या च यस्मिन् षष्ठी च तच्छुभम् ॥ १३० ॥ विपक्षं नाम धाम स्याद् द्वारमस्य च पश्चिमम् । द्व्याद्यास्तिस्रो गृहे यस्मिन् मूषा षष्ठी च तच्छुभम् ॥ १३१ ॥ स्याद् याम्यपश्चिमद्वारमाहूतं नाम तद् गृहम् । आद्याद्वितीयापञ्चम्यो यत्र षष्ठी च तद् भवेत् ॥ १३२॥ रुचकं नाम याम्यप्राग्द्वारं सकलकामदम् । एकत्रिपञ्चषष्ठयः स्युर्यत्र तद्वर्धमानकम् ॥ १३३॥ प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्यस्य वृद्धिदम् । यत्र स्युर्द्वित्रिपञ्चम्यो मूषाः षष्ठी च तद् गृहम् ॥ १३४ ॥ स्यात् पूर्वदक्षिणद्वारं प्रथितं पृथुसंज्ञया । यस्मिन्नाद्या³श्चतुःपञ्चषष्ठ्यस्तत् कलभं विदुः ॥ १३५॥ १ द. द्व्याद्यां । २ क. याम्यप्रत्यं । ३ 'द्य' क. पाठः ।
चतुःशालविधानं नामैकोनविंशोऽध्यायः । १०५ गुणैरुपेतं सकलैरुदग्द्वारं निकेतनम् । द्विचतुःपञ्चमीषष्ठ्यो यस्मिंस्तच्छैलमुच्यते ॥ १३६ ॥ दक्षिणं मुखमेतस्य पश्चिमं वा प्रशस्यते । चतस्रस्त्यादयो यस्मिन्नायास्त्यं तदुदीरितम् ॥ १३७॥ अप्रशस्तं वदन्त्येतत् तद्विदो भवनाधमम् । आद्यास्तिस्रः सप्तमी च मूषाः स्युर्यत्र तद् गृहम् ॥ १३८ ॥ त्रिनाभमुत्तरद्वारं शस्तं सर्वगुणान्वितम् । आद्याद्वितीयासप्तम्यो यत्र तत् स्वस्तिकं स्मृतम् ॥ १३९ ॥ प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्येऽपि शस्यते । आद्योचतुर्थीसप्तम्यो मूषाः स्युर्यत्र वेश्मनि ॥ १४० ॥ तदिह स्थिरमित्युक्तं द्वारं चैतस्य दक्षिणम् । द्व्याद्यास्तिस्रः सप्तमी च यत्र तत् सरलं विदुः ॥ १४१ ॥ तद् भवेत् पश्चिमद्वारं सर्वदोषोज्झितं गृहम् । यत्राद्या च द्वितीया च पञ्चमी सप्तमी तथा ॥ १४२ ॥ द्विगुणं नाम तद् वेश्म द्वारं चास्य यथेप्सितम् । आद्यातृतीयापञ्चम्यः सप्तम्यपि च यत्र तत् ॥ १४३ ॥ नान्यं नामातिशीलाद्यं(?)प्रशस्तं सर्वदेहिनाम् । द्वितीया च तृतीया च पञ्चमी सप्तमी गृहे ॥ १४४ ॥ यत्र तच्चित्रनामेष्टद्वारं चित्रगुणैर्वृतम् । आद्याचतुर्थीपञ्चम्यो यत्र स्युः सप्तमी तथा ॥ १४५ ॥ तद् भ्रान्तं नाम पूर्वोदग्द्वारं भवनमृद्धिकृत् । यत्र द्वितीया तुर्या च पञ्चमी³ सप्तमी तथा ॥ १४६ ॥ विधारणं गृहं तत् स्यात् सर्वकामविवर्धनम् । तृतीया यत्र तुर्या च पञ्चमी सप्तमी तथा ॥ १४७॥ तत् साधारणमित्याहुः सर्वद्वारं सुखावहम् । आद्या द्वितीया षष्ठी च सप्तमी यत्र तन्नसम् ॥ १४८ ॥ १ 'च्छल', २ 'यास्त्रितुर्यांस' ख. पाठः । ३ 'स्यात् षष्ठी' प्रथमप्रकाशनपादः । वा. १४
१०६ समराङ्गणसूत्रधारे आद्या द्वितीया षष्ठी च त्र्यंशे स्यात् सप्तमी तथा । द्वितीया च तृतीया च ऋषे षष्ठी च सप्तमी ॥ १४९॥ आद्या तुर्या च षष्ठी च रोगे स्यात् सप्तमी तथा । यत्र द्वितीया तुर्या च स्यात् षष्ठी सप्तमी च तत् ॥ १५०॥ विशोषणं नाम गृहं दक्षिणोत्तरदिङ्मुखम् । तृतीया यत्र तुर्या च स्यात् षष्ठी सप्तमी गृहे ॥ १५१॥ प्रतीच्यमीप्सितद्वारं तद् गृहं सर्वकामदम् । यत्राद्यापञ्चमीषष्ठीसप्तम्यस्त्रिसमं हि तत् ॥ १५२॥ प्रभूतवृद्धिदं वेश्म समस्तैरन्वितं गुणैः । द्वितीयापञ्चमीषष्ठीसप्तम्यो यत्र वेश्मनि ॥ १५३॥ तदिह स्वैरमित्याहुर्धनधान्यसुखावहम् । तृतीयापञ्चमीषष्ठीसप्तम्यो द्वारमुत्तरम् ॥ १५४॥ पश्चिमं वा भवेद् यत्र सुप्रतीकं च वृद्धिकृत् । तुर्याद्यामिश्रतसृभिर्नलमुत्तरदिङ्मुखम् ॥ १५५॥ आद्याद्वित्यष्टमीभिः स्यात् सर्वरुग्भीतिकृत् क्षयम्† । व्याप्ते पूर्वा द्वितीया च स्याच्चतुर्थी तथाष्टमी ॥ १५६॥ आद्यातृतीयातुर्याः स्युराक्रीडे तद्वदष्टमी । ह्वाद्यास्तिस्रः क्रमाद् व्यर्थे मूषाः स्यादष्टमी तथा ॥ १५७॥ ईशानाख्ये स्युराद्याद्वित्रिपञ्चम्योऽष्टमी तथा । पूर्वाष्टमीत्रिपञ्चम्यो यस्मिंस्तत् सुखसंज्ञितम् ॥ १५८॥ तत् पूर्वोदङ्मुखं वृद्धयै जायते हानयेऽन्यथा । यत्र स्युरष्टमीद्वित्रिपञ्चम्यस्तदिहाव्ययम् ॥ १५९॥ द्वारं यथेष्टमेतस्य वास्तुविद्याविदो जगुः । यस्मिन् पूर्वाष्टमीतुर्यापञ्चम्यो मगधं हि तत् ॥ १६०॥ प्रागुदक्पश्चिमद्वारमिदं शंसन्ति सूरयः । यत्र द्वितुर्यापञ्चम्यो मूषाः स्युस्तद्वदष्टमी ॥ १६१॥ १ 'च सप्तमी यत्र तन्नतम् ।' क. पाठः । † क्षपमिति लक्ष्ये पठितम् ।
तत् क्षिप्रं नाम सुखकृद् यथेष्टं द्वारमिष्यते । त्रिपञ्चम्यष्टमीतुर्या आगस्त्ये पश्चिमामुखे ॥ १६२ ॥ द्वितीयाद्याष्टमीषष्ठ्यो यत्रैकोजं तदुच्यते । तृतीयाद्याष्टमीषष्ठ्यो यत्र तद् द्विर्गतं गृहम् ॥ १६३ ॥ द्वित्रिषष्ठ्योऽष्टमी चापि यस्मिंस्तल्लिहमुच्यते । आद्यातुर्याष्टमीषष्ठ्यो यत्र तत् पर्कमुच्यते ॥ १६४ ॥ षष्ठ्यष्टमीद्वितुर्याभिः(?) स्याद् विलोमाभिधं गृहम् । षष्ठ्यष्टमीद्वितुर्याभिरुद्दण्डमिति कीर्तितम् ॥ १६५ ॥ यस्मिन्नाद्याष्टमीषष्ठीपञ्चम्यो मुण्डमेव तत् । द्विपञ्चम्यष्टमीषष्ठ्यो मूषा मातङ्गसंज्ञिते ॥ १६६ ॥ त्रिपञ्चम्यष्टमीषष्ठयो भवन्त्यस्खलनामनि* । तत् खर्वनाम तुर्याद्यास्तिस्रो यस्मिंस्तथाष्टमी ॥ १६७ ॥ आद्याद्वितीयासप्तम्यः पिनाके स्युस्तथाष्टमी । त्रिसप्तम्यष्टमीपूर्वा यत्रोद्यन्तं तदुच्यते ॥ १६८ ॥ अष्टमीद्वित्रिपञ्चम्यो यस्मिंस्तद् विशिखं गृहम् । आद्या चतुर्थीसप्तम्यः प्रसभे स्युस्तथाष्टमी ॥ १६९ ॥ रजे द्वितुर्यासप्तम्यो मूषाः स्युस्तद्वदष्टमी । त्रिसप्तम्यष्टमीतुर्या यत्र तद् रुचकं विदुः ॥ १७० ॥ प्राक्प्रत्यग्द्वारमेतस्य शूद्राणामतिवृद्धिदम् । सप्तम्याद्याष्टमी मूषा पञ्चम्यपि च सैफले ॥ १७१ ॥ वामे द्विपञ्चसप्तम्यो मूषा ज्ञेयास्तथाष्टमी । त्रिपञ्चसप्तम्यष्टम्यो यस्मिंस्तद् वर्धमानकम् ॥ १७२ ॥ विशेषतो वृद्धिकरं वैश्यानामिति तद्विदः । चतुःपञ्चाष्टसप्तम्यो यस्मिंस्तद् धावनं भवेत् ॥ १७३ ॥ सप्तम्याद्याष्टमीषष्ठ्यो यत्र तत् सहमुच्यते । द्विसप्तषष्ठ्यष्टमीभिर्मूषाभिश्च्रयनं भवेत् ॥ १७४ ॥
- इदमर्धं क. पुस्तके लुप्तम् । लक्षणवाक्यपाठानुसारेण पूर्वत्र लक्ष्यनिर्देशे अस्खलमिति पाठ्यम् ।
१०८ समराङ्गणसूत्रधारे षष्ठ्यष्टमीद्विसप्तम्यो(?) यस्मिंस्तत् सेव्यमीरितम् । यत्र तुर्याष्टमी षष्ठी सप्तमी चेति तत् कलम् ॥ १७५ ॥ तीर्णे षष्ठ्यष्टमीपञ्चसप्तम्यः सर्वकामदे । यत्राद्याः पञ्च तत् प्रोक्तं कानलं सर्वकामदम् ॥ १७६ ॥ एकद्वित्रिचतुःषष्ठ्यो यत्र तल्लोलुपं स्मृतम् । आद्यास्तिस्रः पञ्चषष्ठ्यौ यस्मिंस्तज्जिह्ममुच्यते ॥ १७७ ॥ प्रगाले पञ्चमीषष्ठीतुर्यापूर्वाद्वितीयकाः । त्रितुर्यापञ्चमीषष्ठ्यः साद्याः स्युः सालिनाभिधे ॥ १७८ ॥ यत्र द्वित्रिचतुःपञ्चषष्ठ्यस्तज्जिनमुच्यते । एकद्वित्रिचतुर्थ्यः स्युः सुजये सप्तमीयुताः ॥ १७९ ॥ पञ्चमीसप्तमीद्वित्रिपूर्वाः स्युर्विजयाभिधे । यत्रैकद्विचतुःपञ्चसप्तम्यो यामनाम तत् ॥ १८० ॥ यत्रैकत्रिचतुःपञ्चसप्तम्यस्तज्जयं विदुः । मूषा द्वित्रिचतुःपञ्चसप्तम्यो (जा?ज्ञा)तसंज्ञिते ॥ १८१ ॥ आद्यास्तिस्रस्तथा षष्ठीसप्तम्यौ यत्र तज्जपम् । आद्याद्वितुर्याषष्ठीभिः सप्तम्या च तपं विदुः ॥ १८२ ॥ षष्ठीत्रितुर्यासप्तम्यो जये?(मे)पूर्वान्विता मताः । द्वित्रितुर्यास्तथा षष्ठीसप्तम्यौ वैरसंज्ञिते ॥ १८३ ॥ चरं तद् यत्र पूर्वे द्वे पञ्चषट्सप्तमीयुते । *चैत्ये स्यात् सप्तमी षष्ठी पञ्चम्याद्या तृतीयका ॥ १८४ ॥ विशिखे द्वित्रिपञ्चम्यः स्यात् षष्ठी सप्तमी तथा । चतुर्थी पञ्चमी षष्ठी सप्तम्याद्या च सुप्रभे ॥ १८५ ॥ प्रभाख्ये द्विचतुःपञ्चषष्ठ्यः स्युः सप्तमी तथा । त्रिचतुःपञ्चसप्तम्यः षष्ठी च स्यात् प्रतीक्षके ॥ १८६ ॥ आद्याश्चतस्रो यत्र स्युः साष्टम्यः क्षमिणं हि तत् । सप्त?पूर्वा द्वित्रिपञ्चम्यो युक्तनाम्नि तथाष्टमी ॥ १८७ ॥ १. 'लुभं', २ 'पंच' ख. पाठः । * क. पुस्तकदृष्टलक्ष्मोद्देशरीत्या च 'वैरे' इति पाठ्यम् ।
चतुःशालविधानं नामैकोनविंशोऽध्यायः । १०९ शान्ते द्वितुर्यापञ्चम्यः पूर्वा स्यादष्टमी तथा । पूर्वात्रितुर्यापञ्चम्यः साष्टम्यश्चैतसंज्ञिते ॥ १८८ ॥ विनोदे द्वित्रिपञ्चम्यश्चतुर्थी चाष्टमी तथा । सन्दोहे त्वष्टमीषष्ठ्यै तिस्रः पूर्वादिकास्तथा ॥ १८९ ॥ आद्याद्वितुर्याषष्ठीभिरष्टम्या विप्रदोहकम् । षष्ठ्यष्टमीत्रितुर्याद्या यस्मिंस्तद् विद्रुतं विदुः ॥ १९० ॥ द्वित्रितुर्याष्टमीषष्ठ्यो यत्र तत् सततं मतम् । आद्याद्विपञ्चमीषष्ठ्यस्ततनाम्नि तथाष्टमी ॥ १९१ ॥ आद्यात्रिपञ्चमीषष्ठ्यो व्याकुले स्युस्तथाष्टमी । द्वित्रिपञ्चचतुष्षष्ठ्यो विज्ञेया लीनसंज्ञके ॥ १९२ ॥ तुर्याद्यापञ्चमीषष्ठ्य आलीने स्युस्तथाष्टमी । द्वितुर्यापञ्चमीषष्ठ्यो विचित्रे तद्वदष्टमी ॥ १९३ ॥ आद्याश्चतस्रो मूषाः स्युः साष्टम्यो लम्बनाह्वये । आद्यास्तिस्रोऽष्टमी तद्वत् सप्तम्यपि भवेत् खरे ॥ १९४ ॥ शेखरे सप्तमीतुर्याद्वितीयाद्यास्तथाष्टमी । विबुधे त्वष्टमी तुर्या तृतीयाद्याथ सप्तमी ॥ १९५ ॥ चैत्राख्ये ह्यष्टमीतुर्यासप्तम्यः सतृतीयकाः । आद्याद्विपञ्चसप्तम्यो व्यासक्ताख्ये तथाष्टमी ॥ १९६ ॥ आद्यात्रिपञ्चसप्तम्यः साष्टम्यः सम्पदाभिधे । यत्र द्वित्र्यष्टमीपञ्चसप्तम्यस्तत् पदं विदुः ॥ १९७ ॥ तुर्याद्यापञ्चमी[षष्ठी]सप्तम्यस्त्रिशिखे तथा । द्विपञ्चम्यष्टमीतुर्यासप्तम्यश्चतुराभिधे ॥ १९८ ॥ त्रिसप्तम्यष्टमीतुर्यापञ्चम्यः प्रान्तनामनि । आद्याद्वितीयासप्तम्यः षष्ठ्यष्टम्यौ च सुस्थिते ॥ १९९ ॥ दुःस्थितं यत्र षष्ठ्याद्या चतुर्थी सप्तमी तथा । स्थितेऽष्टमीद्विसप्तम्यस्त्रिषष्ठ्यावपि च स्मृते ॥ २०० ॥
चक्रे षष्ठ्यष्टमीतुर्यास्सप्तम्याद्याः प्रकीर्तिताः । वक्रे द्वितीयासप्तम्यौ षष्ठ्यष्टम्यौ चतुर्थिका ॥ २०१ ॥ लघ्वेऽष्टमीत्रिसप्तम्यस्तुर्याषष्ठ्यौ च कीर्तिते । पञ्चमीसप्तमीषष्ठ्यो लाभे पूर्वाष्टमी तथा ॥ २०२ ॥ द्विपञ्चसप्तम्यष्टम्यः षष्ठी संपर्कसंज्ञिते । त्रिपञ्चषष्ठीसप्तम्यो मूलनाम्नि तथाष्टमी ॥ २०३ ॥ स्युरष्टसप्तषट्पञ्चचतुर्थस्त्वव्ययाभिधे । पूर्वाद्या यत्र षण्मूषाः किन्नरं नाम तद् गृहम् ॥ २०४ ॥ यत्राद्यापञ्चसप्तम्यो सह तत् कौस्तुभं विदुः । पूर्वाद्वित्रिचतुःषष्ठीसप्तम्यो हर्म्यसंज्ञिते ॥ २०५ ॥ सप्तमी पञ्चमी षष्ठी द्वित्रिपूर्वाश्च धार्मिके । निषधे द्विचतुःपञ्चषष्ठ्याद्याः सप्तमी तथा ॥ २०६ ॥ त्रिचतुःपञ्चषट्सप्तम्याद्याः स्युर्यन्त्र तद् वसु । साटीके त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥ २०७ ॥ यत्राद्यापञ्चसप्तम्यो वामनं नाम तद् विदुः । आद्याद्वित्रिचतुःषष्ठ्यः साष्टम्यो गौरनामनि ॥ २०८ ॥ आद्याद्वित्र्यष्टमीषष्ठ्यः पञ्चमी चास्थिराभिधे । क्रमिणे त्रिचतुःपञ्चपूर्वाः षष्ठ्यष्टमी तथा ॥ २०९ ॥ खले पूर्वाष्टमीषष्ठीत्रितुर्याः पञ्चमीयुता । विवरे त्रिचतुःपञ्चद्विषष्ठ्यः स्युस्तथाष्टमी ॥ २१० ॥ आद्याद्वित्रिचतुःसप्तम्यष्टम्यो बालिशाभिधे । पूर्वाष्टमीद्वित्रिसप्तपञ्चम्यो धौमनामनि ॥ २११ ॥ त्रिपुष्टे द्विचतुःपञ्चसप्तम्यादास्तथाष्टमी । मन्दिरे त्रिचतुःपञ्चसप्तम्यादास्तथाष्टमी ॥ २१२ ॥ भवे द्वित्रिचतुःपञ्चम्यष्टम्यः सप्तमी तथा । अशोके द्वित्रिषट्सप्तम्यष्टम्यः पूर्वया सह ॥ २१३ ॥
१ 'नके' ख. पाठः । २ ख. द. द्वि° ।
चतुःशालविधानं नामैकोनत्रिंशोऽध्यायः । १११ भास्वरे द्विचतुःषष्ठ्यः सप्तम्याद्याष्टमीयुता [:] । त्रिसप्तम्यष्टमीषष्ठीतुर्याद्याश्चौष्यसंज्ञिते ॥ २१४ ॥ द्वित्रितुर्याष्टमीषष्ठ्यो लातव्ये सप्तमी तथा । द्विसप्तम्यष्टमीषष्ठीपञ्चम्याद्याश्च सुस्वने ॥ २१५ ॥ त्रिपञ्चम्यष्टमीषष्ठीसप्तम्याद्यास्तथा मखे । द्वित्रिसप्ताष्टमीषष्ठीपञ्चम्यो वाजिसंज्ञिते ॥ २१६ ॥ नेत्रे पूर्वाचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । भ्रमे स्युर्द्विचतुःपञ्चषट्सप्तम्योऽष्टमी तथा ॥ २१७ ॥ घोषे च त्रिचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । एकद्वित्रिचतुःपञ्चषट्सप्तम्यो भवन्ति चेत् ॥ २१८ ॥ मूषास्तदानीं भाण्डीरमिति प्राहुर्निवेशनम् । एकद्वित्रिचतुःपञ्चषष्ठ्यो यत्र तथाष्टमी ॥ २१९ ॥ तद् वैसनमिति प्राहुर्वास्तुविद्याविदो गृहम् । एकद्वित्रिचतुःपञ्चसप्ताष्टम्यो गृहे यदि ॥ २२० ॥ मूषा भवन्ति तद् विद्यात् प्रस्थमित्यभिधानतः । एकद्वित्रिचतुर्थ्यः स्युः षष्ठी सप्तम्यथाष्टमी ॥ २२१ ॥ यस्मिन् मूषास्तदत्राहुः प्रतानमिति मन्दिरम् । चतुर्थीवर्जिताभिः स्यान्मूषाभिर्वेश्म वासुलम् ॥ २२२ ॥ कटं तृतीयाहीनाभिर्विज्ञातव्यं निवेशनम् । मूषाभिरद्वितीयाभिर्लक्ष्मीवासमुदाहृतम् ॥ २२३ ॥ सुगन्धान्तमनाद्याभिरष्टाभिः सर्वभद्रकम् । इत्येकभद्रप्रभृतीनि वेश्मान्युक्तानि यावद्गृह्राष्टभद्रम् । एतांश्चतुशशालगृहप्रभेदान् यो वेत्ति पूजां स लभेत लोके ॥ २२४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे चतुश्शालविधानं नाम एकोनविंशोऽध्यायः ।
११२ समराङ्गणसूत्रधारे अथ निम्नोच्चादिफलानि नाम विंशोऽध्यायः। अग्रतःपृष्ठतःशब्दौ द्वारेण नियतौ गृहे। यतो द्वारं तदग्रं स्यात् पृष्ठं पृष्ठमुदाहृतम् ॥ १ ॥ द्रव्यायामोदयव्यासैः शाला यत्राधिका भवेत्। वामा वा दक्षिणा वापि अग्रतः पृष्ठतोऽपि वा ॥ २ ॥ हन्ति द्रव्याधिका द्रव्यमायामाभ्यधिका कुलम्। उच्छ्रायाभ्यधिका पूजां सन्ततिं विस्तराधिका ॥ ३ ॥ यस्य निम्ना भवेद् भूमिर्वामा दक्षिणकास्थला। बहुदोषं हि तद् वास्तु पुत्रपौत्रविनाशकम् ॥ ४ ॥ यस्य दक्षिणका निम्ना भूमिर्वामास्थला भवेत्। यत्नेनापि कृतं तत् स्याद् भर्तुरल्पफलोदयम् ॥ ५ ॥ पश्चिमेन भवेन्निम्ना भूमिः स्थूलतराग्रतः। यत्र तत् सर्ववर्णेषु सर्वकामप्रदं गृहम् ॥ ६ ॥ अग्रतश्च यदा हीनं पृष्ठतश्चोच्छ्रितं भवेत्। भवनं स्वामिनो ह्याशु विरागव्यसनाय तत् ॥ ७ ॥ सच्छत्रं च सकक्षं च तथैव सपरिक्रमम्। सप्रभं च समाख्यातं गृहमत्र चतुर्विधम् ॥ ८ ॥ बाह्योदकं च सच्छत्रं सकक्षमुभयोदकम्। सावश्यायं तु यद् वेश्म तद् विद्यात् सपरिक्रमम् ॥ ९ ॥ एकेनाप्यत्र मुखतः पृष्ठतः पार्श्वतोऽपि वा। सप्रभं स्यादलिन्देन लक्षणं तु पृथक् पृथक् ॥ १० ॥ एकोऽलिन्दस्तु कर्तव्यो मुखतो दक्षिणेन वा। मुखे राजप्रसादाय दक्षिणेऽर्थविवर्धनः ॥ ११ ॥ १ द. ख. प्रायो ।
निम्नोच्चादिफलानि नाम विंशोऽध्यायः । ११३ वामतस्तु न कर्तव्य एकोऽलिन्दो न पृष्ठतः । वामतोऽर्थविनाशाय पृष्ठतो म्रियते गृही ॥ १२ ॥ यस्य स्यातामलिन्दौ द्वौ गृहस्योभयपार्श्वयोः । धनलाभं विजानीयात् तत्प्रवेशे कुटुम्बिनः ॥ १३ ॥ यस्य स्यातामलिन्दौ द्वावग्रतः पृष्ठतस्तथा । धनधान्यमवाप्नोति सौभाग्यं चापि तद्गृही ॥ १४ ॥ यस्य वा हलकालिन्दो मुखतो दक्षिणेन वा । राजप्रसादैस्तत्स्वामी धनधान्यैश्च वर्धते ॥ १५ ॥ वामतो हलकालिन्दो मुखतश्च कृतो यदि । राजदण्डभयं विद्यात् पत्नी चास्य विनश्यति ॥ १६ ॥ दक्षिणो हलकालिन्दः पश्चिमश्च कृतो यदि । ततः परापि वृद्धिः स्यात् सौभाग्यं च परं भवेत् ॥ १७ ॥ पृष्ठतो हलकालिन्दो वामतश्च कृतो यदि । कलत्रमरणं तत्र भवेद् दुर्भाग्यतापि च ॥ १८ ॥ पृष्ठतो वामतश्चैव पुरतो दक्षिणेन वा । अलिन्दस्य कृतस्याथ वक्ष्यामोऽनुक्रमात् फलम् ॥ १९ ॥ पृष्ठतो दारनाशाय धनलाभाय दक्षिणे । अग्रे राजप्रसादाय वामतोऽर्थविनाशनः ॥ २० ॥ समापितं तु यद् वास्तु सर्वतः परिशोधितम् । स्वामिनस्तद् भवेद् धन्यं स्थपतेश्च यशस्करम् ॥ २१ ॥ अंर्जितं वर्धते तस्य वृद्धिश्च स्यान्नृपश्रिया । धर्मकामाश्च वर्धन्ते कीर्त्तिरायुर्यशो बलम् ॥ २२ ॥ नित्यं प्रक्रीडितजनं नित्त्यं सन्निहितश्रि तत् । नृत्यवादित्रगीतैश्च नित्यामोदं निरामयम् ॥ २३ ॥ तत्र नैकप्रकाराणि त्रिशालान्युपलक्षयेत् । प्रकारेषु च सर्वेषु निन्द्यौ याम्यापरोज्झितौ ॥ २४ ॥ १ द. ख. नाशाय । २ द. ख. चर्चितं । ३ द. ख. धन°। ४ द. ख. हितं । वा. १५