समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 162, कुल 726 में से
संदर्भ में पढ़ेंचतुःशालविधानं नामैकोनविंशोऽध्यायः । ९७ *आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् । अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥ ३७ ॥ मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम् । अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥ ३८ ॥ तमङ्गभद्रविन्यासरचनाभिरनेकधा । अपरस्परसंबाधात् १संवृत्तैर्विवृतैरपि ॥ ३९ ॥ गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते । यत्संबद्धं२चतुश्शालममूषालिन्दकं हि तत् ॥ ४० ॥ एकभद्रादिगेहानां ब्रूमो नामान्यतः परम् । यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥ ४१ ॥ कथयन्त्येकभद्राणि क्रमसंख्याविभागतः । प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥ ४२ ॥ प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् । अष्टौ तान्येकभद्राणि द्विभद्राण्यभिदध्महे ॥ ४३ ॥ पूर्वोत्तरोत्तरं पूर्वाद् भद्रादिह विधानतः । स्यातां ३प्राङ्मेलकाद्यद्वत् पूर्वाद्या दक्षिणा परे( ? ) ॥ ४४ ॥ ईरं सुनीर्थमाग्नेयं ५द्वीपमाप्यं सुसंयमम् । अर्धर्चमैभं व्याकोशं नैर्ऋतं वृषभं विनम् ॥ ४५ ॥ काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम् । गवयं श्रीवहं श्लिष्टं गणं भीममयोगर्मम् ॥ ४६ ॥ १ द. संवृते विवृतेरपि । २ क. °बद्धं । ३ द. ख. प्राश्लेषिका । ४ क. °तमा° । ५ द. ख. दीप्यं वाप्यमु° । ६ द. ख. कव्यं तिगस । ७ द. ख. विपश्चितम् । ८ द. ख. भीमं मयोग° ।
- ‘आद्यपङ्क्तौ प्रथमायामावलौ एको गुरुः, तस्याधस्तादपरो लघुः कर्तव्यः । एवं यथाक्रमं प्रस्तारसङ्ख्याक्रमित्यालिखेत् । तद्यथा—चतुर्गृहप्रस्तारे षोडश गुरुलघवः । ततस्तदग्रतो द्वौ गुरू द्वौ लघू इति एकैकस्याव्रो न्यसेत् । तदग्रतोऽपि चत्वारो गुरवश्चत्वारो लघवः । ततोऽपि अष्टौ गुरवः अष्टौ लघवः । एवं प्रतिपङ्क्ति द्विगुणान् गुरुलघून् न्यसेत् । अयमपरः प्रस्तारः ।’ इति टिप्पणमस्ति । [ शाखिणः ] बा. १३