समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 167, कुल 726 में से
संदर्भ में पढ़ेंआद्या तृतीया षष्ठी च स्यात् प्रसाधकवेश्मनि । तद् भवेत् सर्वतोद्वारं तथा सर्वार्थसाधकम् ॥ ९७ ॥ द्वितीया च तृतीया च षष्ठी च क्षमनामनि । तस्य प्रत्यग्दिशि द्वारं शूद्रवर्गस्य चेष्टदम् ॥ ९८ ॥ षष्ठी चतुर्थी चाद्या च स्युर्विघाताह्वयवेश्मनि । षष्ठी द्वितुर्ये यस्मिंस्तदायातं दक्षिणामुखम् ॥ ९९ ॥ षट्चतुस्त्रियुतं कान्तं तत् स्यात् सर्वार्थसाधकम् । षट्पञ्चाद्यान्वितं चित्रं तच्च स्याद् याम्यदिङ्मुखम् ॥ १०० ॥ द्वितीयापञ्चमीषष्ठ्यो यस्मिन् स्युस्तद् द्विमन्दिरम् । यत्र त्रिपञ्चमीषष्ठ्यस्तद् वदन्ति सुदक्षिणम् ॥ १०१ ॥ चतुर्थीपञ्चमीषष्ठयो भये स्युस्तन्न वृद्धिकृत् । पूर्वाद्वातीयासप्तम्यो यत्र तच्छ्लिष्टसंज्ञितम् ॥ १०२ ॥ याम्यास्यमिदमिच्छन्ति शुभं सर्वार्थदं नृणाम् । साद्ये तृतीयासप्तम्यौ प्रमोदे परिकीर्तिते ॥ १०३ ॥ यत्र स्युर्द्वित्रिसप्तम्यस्तद् वेश्म व्यायतं स्मृतम् । यत्राद्या च चतुर्थी च सप्तम्यपि च तद् वियत् ॥ १०४ ॥ द्विचतुःसप्तमीमूषमाप्यं स्याद् दक्षिणामुखम् । त्रिचतुस्सप्तमीभिस्तु सुनागं वेश्म कीर्त्यते ॥ १०५ ॥ तच्च याम्यापरमुखं धनधान्यसुखप्रदम् । सप्तमी पञ्चमी पूर्वा मूषा नागेन्द्रसंज्ञिते ॥ १०६ ॥ मूषा द्विपञ्चसप्तम्यो याम्यं च मुखमीरितम् । त्रिपञ्चसप्तमीमूषाशोभितं शोभनं भवेत् ॥ १०७ ॥ चतुर्थी पञ्चमी यत्र सप्तम्यपि च तद् घनम् । पूर्वा षष्ठी सप्तमी च स्मृता शस्तोत्तरे गृहे ॥ १०८ ॥ द्वितीयासप्तमीषष्ठ्यो यस्मिंस्तत् कफसंज्ञितम् । द्वारं वारुणमेतस्य हितं च स्याद् द्विजन्मनाम् ॥ १०९ ॥
१ द. ख. ॰योच्छिष्टं ।