भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 166, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 166

चतुःशालविधानं नामैकोनविंशोऽध्यायः । १०१ द्विचतुर्थ्यौ तथा चाप्ये त्रिचतुर्थ्यौ सुसंयमे । अर्धर्चे त्वाद्यपञ्चम्यौ द्वितीयेभे सपञ्चमी ॥ ८४ ॥ व्याकोशे च त्रिपञ्चम्यौ नैरृते द्विशराभिधे । वृषभे प्रथमाषष्ठ्यौ द्विषष्ठ्यौ च तथा विने ॥ ८५ ॥ काव्ये तृतीया षष्ठी च विपासेऽब्धिरसाभिधे । आनीरे पञ्चमीषष्ठ्यौ साद्या कान्ते च सप्तमी ॥ ८६ ॥ सौभे द्वितीयासप्तम्यौ त्रिसप्तम्यौ विपश्चिमे¹ । गवये सप्तमीतूर्ये श्रीवहे पञ्चसप्तमी ॥ ८७ ॥ सषष्ठी सप्तमी श्लिष्टे गणे पूर्वाष्टमी तथा । भीमेऽष्टमी द्वितीया च त्र्यष्टम्यौ चाप्ययोगमे ॥ ८८ ॥ वर्ते चतुर्थ्यष्टमी च पञ्चमी चाष्टमी चले । षष्ठ्यष्टम्यौ शठे क्रान्ते सप्तमी चाष्टमीति च ॥ ८९ ॥ इत्यष्टाविंशतिः प्रोक्ता द्विभद्राणामिहौकसाम् । अथ ब्रूमस्त्रिभद्राणि तत्रैन्द्रं पुष्टिवर्धनम् ॥ ९० ॥ स्याद् याम्यपश्चिमद्वारमाद्यमूषात्रयान्वितम् । आद्या द्वितीया तुर्या च यस्य द्वारं विपश्चिमम् ॥ ९१ ॥ विलोमं नाम तद् वेश्म शूद्राणां पुष्टिवर्धनम् । आद्या तृतीया तुर्या स्यादायामे सर्वतोमुखे ॥ ९२ ॥ वधे द्वित्रिचतुर्थ्यः स्युर्द्वारं च स्यादुदग्दिशि । यत्र साद्ये द्विपञ्चम्यावेकाक्षं तदुदाहृतम् ॥ ९३ ॥ साग्र्ये यत्र द्विपञ्चम्यौ तत् प्रोक्तं गृहमन्तिकम् । यत्र स्युर्द्वित्रिपञ्चम्यः प्रकाशं सर्ववृद्धिकृत् ॥ ९४ ॥ पूर्वा चतुर्थीपञ्चम्यौ यत्र तत् पैत्रमुच्यते । पञ्चमी द्विचतुर्थ्यौ च यत्राग्रस्तं तदीरितम् ॥ ९५ ॥ त्रिचतुःपञ्चमीयुक्तं भद्रमाहुर्मनीषिणः । आद्या द्वितीया³ षष्ठी च यत्र तत् प्रान्तशब्दितम् ॥ ९६ ॥ १ क. शोभे । २ द. ख. ॰ते । ३ द. ख. तृतीया ।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 166, कुल 726 में से · BharatKosha