समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 165, कुल 726 में से
संदर्भ में पढ़ें१०० समराङ्गणसूत्रधारे समवाये यथा भूयो जानीयात् साध्वसाधु च । तथाष्टावेकभद्राणि सप्तभद्राणि च क्रमात् ॥ ७१ ॥ द्विभद्राण्यष्टभिर्युक्ता षड्भद्राणि च विंशतिः । षट्पञ्चाशत् त्रिभद्राणि पञ्चभद्राणि चोन्नयेत् ॥ ७२ ॥ सप्ततिश्च चतुर्भद्राण्येकं भद्राभिरष्टभिः । एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥ ७३ ॥ भद्रैः पूर्वविधानेन चतुःशालाक्रियादिषु । मूषा स्यात् कुड्यजैस्तेषु चतुश्शालेषु वेश्मसु ॥ ७४ ॥ अनुवंशाश्रिते मूषे स्वस्तिके स्तःपराङ्मुखे । मुखायते च पुरतो द्वे स्यातामवकोसिमे ॥ ७५ ॥ नोदङ्मुखः स कर्तव्यः कार्यः प्राग्जीवसंयुतः । वर्धमाने तथा कार्ये?(र्यो) यथा प्राग्ग्रीवसंयुतः ॥ ७६ ॥ वर्धमाने तथा कार्ये द्वारमूषे मुखायते । मूषाया दक्षिणे स्यातां दीर्घवामेऽवकोसिमे ॥ ७७ ॥ नन्द्यावर्तगृहे सर्वा नन्द्यावर्ता भवन्ति ताः । द्वे स्तरु?(मू)षे रुचके स्यातामायते त्ववकोसिमे ॥ ७८ ॥ सर्वद्वारवहा मूषाः सर्वतोभद्रवेश्मनि । आदिमूषा भवेदेका गृहं प्रागायतं हि तत् ॥ ७९ ॥ द्वितीया प्राग्विलग्नमेकया तदनन्तरम् । प्रदक्षिणेन वेश्मानि जयादीन्येकयैकया ॥ ८० ॥ मूषया स्युः क्रमादेवं कथ्यन्ते तत्फलान्यथ । धनमर्थविनाशश्च जयश्चैवाशुभं सदा ॥ ८१ ॥ प्रीतिरुद्वेगकल्याणकलहाश्चाप्यनुक्रमात् । यत्र पूर्वे उभे मूषे तदीरं परिकीर्तितम् ॥ ८२ ॥ यत्र पूर्वा तृतीया च तत् १सुनीतं गृहं विदुः । आग्नेये द्वितृतीये स्तो द्वीपे चाद्यचतुर्थिके ॥ ८३ ॥ १ द. सुनीथं ।