समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 176, कुल 726 में से
संदर्भ में पढ़ेंचतुःशालविधानं नामैकोनत्रिंशोऽध्यायः । १११ भास्वरे द्विचतुःषष्ठ्यः सप्तम्याद्याष्टमीयुता [:] । त्रिसप्तम्यष्टमीषष्ठीतुर्याद्याश्चौष्यसंज्ञिते ॥ २१४ ॥ द्वित्रितुर्याष्टमीषष्ठ्यो लातव्ये सप्तमी तथा । द्विसप्तम्यष्टमीषष्ठीपञ्चम्याद्याश्च सुस्वने ॥ २१५ ॥ त्रिपञ्चम्यष्टमीषष्ठीसप्तम्याद्यास्तथा मखे । द्वित्रिसप्ताष्टमीषष्ठीपञ्चम्यो वाजिसंज्ञिते ॥ २१६ ॥ नेत्रे पूर्वाचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । भ्रमे स्युर्द्विचतुःपञ्चषट्सप्तम्योऽष्टमी तथा ॥ २१७ ॥ घोषे च त्रिचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । एकद्वित्रिचतुःपञ्चषट्सप्तम्यो भवन्ति चेत् ॥ २१८ ॥ मूषास्तदानीं भाण्डीरमिति प्राहुर्निवेशनम् । एकद्वित्रिचतुःपञ्चषष्ठ्यो यत्र तथाष्टमी ॥ २१९ ॥ तद् वैसनमिति प्राहुर्वास्तुविद्याविदो गृहम् । एकद्वित्रिचतुःपञ्चसप्ताष्टम्यो गृहे यदि ॥ २२० ॥ मूषा भवन्ति तद् विद्यात् प्रस्थमित्यभिधानतः । एकद्वित्रिचतुर्थ्यः स्युः षष्ठी सप्तम्यथाष्टमी ॥ २२१ ॥ यस्मिन् मूषास्तदत्राहुः प्रतानमिति मन्दिरम् । चतुर्थीवर्जिताभिः स्यान्मूषाभिर्वेश्म वासुलम् ॥ २२२ ॥ कटं तृतीयाहीनाभिर्विज्ञातव्यं निवेशनम् । मूषाभिरद्वितीयाभिर्लक्ष्मीवासमुदाहृतम् ॥ २२३ ॥ सुगन्धान्तमनाद्याभिरष्टाभिः सर्वभद्रकम् । इत्येकभद्रप्रभृतीनि वेश्मान्युक्तानि यावद्गृह्राष्टभद्रम् । एतांश्चतुशशालगृहप्रभेदान् यो वेत्ति पूजां स लभेत लोके ॥ २२४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे चतुश्शालविधानं नाम एकोनविंशोऽध्यायः ।