समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 177, कुल 726 में से
संदर्भ में पढ़ें११२ समराङ्गणसूत्रधारे अथ निम्नोच्चादिफलानि नाम विंशोऽध्यायः। अग्रतःपृष्ठतःशब्दौ द्वारेण नियतौ गृहे। यतो द्वारं तदग्रं स्यात् पृष्ठं पृष्ठमुदाहृतम् ॥ १ ॥ द्रव्यायामोदयव्यासैः शाला यत्राधिका भवेत्। वामा वा दक्षिणा वापि अग्रतः पृष्ठतोऽपि वा ॥ २ ॥ हन्ति द्रव्याधिका द्रव्यमायामाभ्यधिका कुलम्। उच्छ्रायाभ्यधिका पूजां सन्ततिं विस्तराधिका ॥ ३ ॥ यस्य निम्ना भवेद् भूमिर्वामा दक्षिणकास्थला। बहुदोषं हि तद् वास्तु पुत्रपौत्रविनाशकम् ॥ ४ ॥ यस्य दक्षिणका निम्ना भूमिर्वामास्थला भवेत्। यत्नेनापि कृतं तत् स्याद् भर्तुरल्पफलोदयम् ॥ ५ ॥ पश्चिमेन भवेन्निम्ना भूमिः स्थूलतराग्रतः। यत्र तत् सर्ववर्णेषु सर्वकामप्रदं गृहम् ॥ ६ ॥ अग्रतश्च यदा हीनं पृष्ठतश्चोच्छ्रितं भवेत्। भवनं स्वामिनो ह्याशु विरागव्यसनाय तत् ॥ ७ ॥ सच्छत्रं च सकक्षं च तथैव सपरिक्रमम्। सप्रभं च समाख्यातं गृहमत्र चतुर्विधम् ॥ ८ ॥ बाह्योदकं च सच्छत्रं सकक्षमुभयोदकम्। सावश्यायं तु यद् वेश्म तद् विद्यात् सपरिक्रमम् ॥ ९ ॥ एकेनाप्यत्र मुखतः पृष्ठतः पार्श्वतोऽपि वा। सप्रभं स्यादलिन्देन लक्षणं तु पृथक् पृथक् ॥ १० ॥ एकोऽलिन्दस्तु कर्तव्यो मुखतो दक्षिणेन वा। मुखे राजप्रसादाय दक्षिणेऽर्थविवर्धनः ॥ ११ ॥ १ द. ख. प्रायो ।