समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 178, कुल 726 में से
संदर्भ में पढ़ेंनिम्नोच्चादिफलानि नाम विंशोऽध्यायः । ११३ वामतस्तु न कर्तव्य एकोऽलिन्दो न पृष्ठतः । वामतोऽर्थविनाशाय पृष्ठतो म्रियते गृही ॥ १२ ॥ यस्य स्यातामलिन्दौ द्वौ गृहस्योभयपार्श्वयोः । धनलाभं विजानीयात् तत्प्रवेशे कुटुम्बिनः ॥ १३ ॥ यस्य स्यातामलिन्दौ द्वावग्रतः पृष्ठतस्तथा । धनधान्यमवाप्नोति सौभाग्यं चापि तद्गृही ॥ १४ ॥ यस्य वा हलकालिन्दो मुखतो दक्षिणेन वा । राजप्रसादैस्तत्स्वामी धनधान्यैश्च वर्धते ॥ १५ ॥ वामतो हलकालिन्दो मुखतश्च कृतो यदि । राजदण्डभयं विद्यात् पत्नी चास्य विनश्यति ॥ १६ ॥ दक्षिणो हलकालिन्दः पश्चिमश्च कृतो यदि । ततः परापि वृद्धिः स्यात् सौभाग्यं च परं भवेत् ॥ १७ ॥ पृष्ठतो हलकालिन्दो वामतश्च कृतो यदि । कलत्रमरणं तत्र भवेद् दुर्भाग्यतापि च ॥ १८ ॥ पृष्ठतो वामतश्चैव पुरतो दक्षिणेन वा । अलिन्दस्य कृतस्याथ वक्ष्यामोऽनुक्रमात् फलम् ॥ १९ ॥ पृष्ठतो दारनाशाय धनलाभाय दक्षिणे । अग्रे राजप्रसादाय वामतोऽर्थविनाशनः ॥ २० ॥ समापितं तु यद् वास्तु सर्वतः परिशोधितम् । स्वामिनस्तद् भवेद् धन्यं स्थपतेश्च यशस्करम् ॥ २१ ॥ अंर्जितं वर्धते तस्य वृद्धिश्च स्यान्नृपश्रिया । धर्मकामाश्च वर्धन्ते कीर्त्तिरायुर्यशो बलम् ॥ २२ ॥ नित्यं प्रक्रीडितजनं नित्त्यं सन्निहितश्रि तत् । नृत्यवादित्रगीतैश्च नित्यामोदं निरामयम् ॥ २३ ॥ तत्र नैकप्रकाराणि त्रिशालान्युपलक्षयेत् । प्रकारेषु च सर्वेषु निन्द्यौ याम्यापरोज्झितौ ॥ २४ ॥ १ द. ख. नाशाय । २ द. ख. चर्चितं । ३ द. ख. धन°। ४ द. ख. हितं । वा. १५