समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 155, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 155
९० समराङ्गणसूत्रधारे वातायनं तु भित्तीनामवलोकनमुच्यते । लघुर्वातयनो यः स्यादवलोकनकं हि तत् ॥ १४ ॥ हर्म्यस्य मध्ये यच्छिद्रं स उ लोक इति स्मृतः । १हर्म्यप्राकारकः स स्यात् कण्ठो² हर्म्यतलस्य योँ³ ॥ १५ ॥ वितर्दिकाष्ठमाला स्यात् सर्वतश्छदमूलगा⁴ । तत्तस्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥ १६ ॥ निर्यूहो हर्म्यदेशाद्⁵ यः काष्ठानामुपनिर्गमः । वलीकमिति विज्ञेयं काष्ठं छेदाद् विनिर्गतम् ॥ १७॥ ६छन्नैश्चतुर्भिः पार्श्वैर्यत् तच्चतुश्शालमुच्यते । त्रिभिस्त्रिशालं तत् प्राहुर्द्वाभ्यां तत् स्याद् द्विशालकम् ॥ १८ ॥ एकशालकमेकेन च्छन्नेन गृहमुच्यते । गृहमेकं तु यच्छन्नं सर्वं⁷ शालेति सा स्मृता ॥ १९ ॥ शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा । संछन्ना (चा ? सा)पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ २० ॥ गृहे महाजनस्थानं त्रिकुड्यं यत् प्रकल्पितम् । उपस्थानं तदत्राहुः स्याच्चोपस्थानकं लघु ॥ २१ ॥ प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता । दीर्घप्रासादिका यासौ वलभत्यभिधीयते ॥ २२ ॥ शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् । शालां विना तु वलभी वलभेति⁸ निगद्यते ॥ २३ ॥ अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः । गृहे चाभ्यन्तरंस्थानं शुद्धान्त इति कीर्त्यते ॥ २४ ॥ १०प्रतोलीं तां विदुर्लोकः सुरङ्गामिव यां वसेत् । सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥ २५ ॥
१ द. ख. हर्म्यः प्रा० । २ क. कण्ठो । ३ क. यः । ४ क. श्छद्° । द. ख. शा. श्छेद्° । ५ देशाग्रका° । ६ क. छिन्नै° । ७ क. सर्वशाले । ८ द. ख. वलभ्येति विधीयते । ९ क. ॰न्तरे । १० द. प्रतोलीनां विदुर्लोके सुरंगामित्रं ।