भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 156, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 156

नगरादिसंज्ञा नामाष्टादशोऽध्यायः । ९१ यदुपस्थानकं नाम ये चापवरकास्तथा । ते कोष्ठका या तु कण्ठा कुड्यं¹ भित्तिश्चयश्च सा ॥ २६ ॥ ²भक्तशाला भवेद् या तु तन्महानसमुच्यते । यच्छन्नं द्वारदेशे तु तमाहुर्द्वारकोष्ठकम् ॥ २७ ॥ प्रवेशनमिति प्राहुर्द्वारनिर्गमनं तथा । जलनिर्गमनस्थानं विज्ञेयमुदकभ्रमः ॥ २८ ॥ भवनस्याङ्गणं यत्तु तदाहुर्भवनाजिरम् । वनाजिरं वनमही त्वाश्रमाजिरमाश्रमे ॥ २९ ॥ उत्तरोदुम्बरस्याधः श्लिष्टां मध्ये च कु³ड्ययोः । तज्ज्ञास्तां देहलीत्याहुः कपाटाश्रयमेव च ॥ ३० ॥ कपाटं द्वारपक्षः स्यात् कपाटपुटमेव च । पक्षः पिधानं⁴वरणो द्वारसंवरणं तथा ॥ ३१ ॥ कपाटं संपुटस्ते द्वे(?) कपाटयुगलं च तत् । कलिका द्वारबन्धार्था या स्यात् तामर्गलां विदुः ॥ ३२ ॥ सा स्यादर्गलसूचीति यदि दीर्घा प्रमाणतः । पुराणां सा तु परिघः फलिहो गजवारणम् ॥ ३३ ॥ छिद्रैर्गवाक्षप्रतिमैश्छिद्रितं सर्वतस्तु यत् । फलकं तद् गवाक्षः स्याज्जालमित्यपि कथ्यते ॥ ३४ ॥ हर्म्यद्वारे गृहद्वारे तथा हर्म्यावलोकने । प्राकारान्तरपृष्ठे तु या च प्रासादिका भवेत् ॥ ३५ ॥ पार्श्वयोरुभयोरेषां फलकद्वयमुच्छ्रितम् । उपर्युपरि संक्षिप्तमर्धचन्द्रद्वयाकृति ॥ ३६ ॥ आनने द्वे यथा चास्मिन् श्लिष्टैरग्रैर्महाधरैः⁵ । तयोरुपरि सन्धौ च तारकाकृति मण्डलम् ॥ ३७ ॥


१ द. कुड्यमिति । २ क. भुक्तिशां । ३ द. ख. पिंडयोः । ४ क. पिधानावरणो । ५ द. ˚रिहाधरैः ।