समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 143, कुल 726 में से
संदर्भ में पढ़ें७८ समराङ्गणसूत्रधारे खवेधं प्रतिपद्येत तयष्टिर्यदि कृच्छ्रतः । प्रमादिनस्तदा राज्ञो जायते व्यसनं महत् ॥ ८२ ॥ निष्कृष्य योजितः शक्रध्वजो विघटते यदि । विश्लिष्यति तदा सन्धिः सामन्तैः सह भूपतेः ॥ ८३ ॥ स्फुटेद्$^१$ भज्येत वा कुष्ये योज्यमानोऽथ सर्वतः । तदा भङ्गे नृपव्याधिः स्फुटनादङ्गनावधः$^२$ ॥ ८४ ॥ अविदीर्णमपर्यस्तमव्यङ्गमविलम्बितम् । यथावन्न्यासमायाति योगं चेद् वासवध्वजः ॥ ८५ ॥ धनभृत्याङ्गनापत्यैः सामन्तैश्चान्वितोऽनुगैः$^४$। निरातङ्को बलाङ्गश्च वृद्धिमेति तदा नृपः ॥ ८६ ॥ यत्नतो रक्ष्यमाणस्य शय्यास्थस्यैव वज्रिणः । तस्याङ्गान्यखिलान्येव कुटन्त्यादीनि योजयेत् ॥ ८७ ॥ ऐन्द्रं बर्लाकं$^६$ यक्षेशं सर्पमादं दिगाह्वयम् । मयूरं चेन्द्रशीर्षं च पिटकाष्टकमित्यदः ॥ ८८ ॥ स्वप्रमाणेण कर्तव्यं स्पष्टरूपसमन्वितम् । तदाख्याश्चान्तरेष्वेषां सन्धयो वस्त्रनिर्मिताः ॥ ८९ ॥ मूलादन्वग्रमायातः स्वंवंशैर्विदलैर्दृढैः$^९$ । गुणैश्च वेष्टयेदेनं घनैर्शिशथिलैर्ध्वजम् ॥ ९० ॥ साङ्घ्रिणा ध्वजनाहेन सत्र्यंशेनाथ विस्तृतिः । विधेया शक्रपिटकस्योच्छ्रयस्तु तदर्धतः ॥ ९१ ॥ अस्मिन्नष्टौ दिशः कृत्वा वंशाव्यवहिते ततः । न्यस्येद् दिगीशांश्चतुरस्तस्योपरि यथादिशम् ॥ ९२ ॥ पञ्चमांशगते कुष्याद् वज्रिणः पिटके कृते । शेषाण्यप्यष्टभागोनान्यस्मिन् न्यस्येद् यथाक्रमम् ॥ ९३ ॥ १ द. स्फटेद् । २ द. स्फटनाद् । ३ क. मवल॑ । ४ द. ॰द्भगैः । ५ द. कुटभ्या- दीनि, ख. कूटभ्या॑ ६ शा. बजार्कं । ७ शा. स्वेष्टं , द. स्पष्टं । ८ क. दाक्षाश्च । ९ द. ख. तैस्तं वंशै।