समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 142, कुल 726 में से
संदर्भ में पढ़ेंइन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७७ प्रोद्यत्कलकलारावसुखराः पुरुषा यदि । उत्क्षिपेयुः प्रहृष्टा वा वहेयुर्वा सुराधिपम् ॥ ७० ॥ तदा भवति भूपालो जयी नन्दन्ति च प्रजाः । राष्ट्रे सुखं पुरे हर्षो भवेन्नश्यन्ति चेतयः ॥ ७१ ॥ मुञ्चत्युत्थापितः कृच्छ्राद् यदि शय्यां स गौरवात् । तदा नृपतिरभ्येति महतीं विमनस्कताम् ॥ ७२ ॥ स्खलन्तो दुःखिना दीना निःश्वसन्तः पदे पदे । २वैचित्त्यभाजो गच्छेयुर्देशहानिस्तदा ध्रुवम् ॥ ७३ ॥ भूमौ यदैकदेशेन हसितः(?)पतति ध्वजः । न सुभिक्षं न च क्षेमो न राज्ञो विजयस्तदा ॥ ७४ ॥ दीर्णे भग्नेऽथ पतिते कृत्स्ने चास्मिन् समुद्धृते । स्यान्नृपस्यावनिच्छेदः सुतध्वंसोऽथवा मृतिः ॥ ७५ ॥ वस्त्रालङ्कृतिमाल्यानां हरणात् पतनादुत । तादृशद्रव्यविध्वंसः पौराणां भवति ध्रुवम् ॥ ७६ ॥ पुरं भवति निःशब्दं निष्प्रभं वा प्रवेशने । समुच्छ्रये वा शक्रस्य तदा तन्नाशमृच्छति ॥ ७७ ॥ शक्रं स्वस्थानमानीतं शीघ्रं सुखमविघ्नतः । प्राग्वत् प्रदक्षिणं न्यस्येत् प्रागग्रं शयने निजे ॥ ७८ ॥ कुर्यात् तत्रैव नक्षत्रे शय्यास्थस्यामरेशितुः । भ्रमे ३कुष्ये च संयोगं यथाभागविकल्पितम् ॥ ७९ ॥ ४कुष्ये संयोग्यमानश्चेद् ध्वजो निपतति क्षितौ । तदा नरपतेः स्थानभ्रंशो भवति निश्चितः ॥ ८० ॥ ५कुष्ययोगे यदा शक्रो वामतः परिवर्तते । तदा स्यात् स्थपतेर्मृत्युर्भवेद् भङ्गश्च दक्षिणे ॥ ८१ ॥ १ क. च पाठः । २ द. वैच्छित्त्यं । ३ द. ख. कृष्ये । ४ द. पुष्ये । ५ द. पुष्ययोगे ।