समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 141, कुल 726 में से
संदर्भ में पढ़ें७६ समराङ्गणसूत्रधारे विन्यस्तास्वथ सर्वासु कुमारीषु विभागशः । त्रयस्त्रयः प्रतिक्षोभा योज्या दाढ्र्याय बाह्यतः ॥ ५८ ॥ निक्षिपन्नखिलं द्रव्यं भावयेत् पददेवताः । प्राप्नोति तत्तदाख्यां तद् द्रव्यं पूजां च तद्गताम् ॥ ५९ ॥ पीठपृष्ठसमं कन्यापार्श्वयोरुभयोरपि । कुर्यादनुसरद्वन्द्वं कीलकैर्बद्धमायसैः ॥ ६० ॥ संश्रित्याँनुसरद्वन्द्वं पीठौं चोपरि सङ्ग्रहात् । बध्नीयात् कीलकैर्लोहैर्यन्त्रनिश्चलताकृते ॥ ६१ ॥ यन्त्रकर्मणि निर्वृत्त इति शास्त्रविधानतः । प्रवेशयीत स्वस्थाने त्रिदशाधिपमैन्द्रभे ॥ ६२ ॥ स्नातस्य विधिवद् वस्त्रच्छन्नस्यालेपितस्य च । श्रीखण्डाद्यैः सुरभिभिः कुसुमैरर्चितस्य च ॥ ६३ ॥ रौहिणादिमुहूर्तेषु त्रिषु मैत्रेऽथ वज्रिणः । प्रवेशमभिनन्दन्ति करणेष्वर्चितेषु च ॥ ६४ ॥ स्थपतिर्वा पुरोधा वा शुचिः स्नातः समाहितः । गन्धमाल्यार्चिनान् विप्रॉस्तर्पयेद् दक्षिणादिभिः ॥ ६५ ॥ ततो मङ्गलघोषेण वादित्रनिनदेन च । पुण्याहजयशब्दैस्तमुत्क्षिपेयुः समाहिताः ॥ ६६ ॥ अलङ्कारभृतः पौराः प्रहृष्टमनसोऽखिलाः । नीरुजो बलिनः शक्ताः प्रकृत्यभिमताश्च ये ॥ ६७ ॥ स्तुवीरन् पुण्यमनसः स्तुतिभिः सूतमागधाः । वन्देरन् वन्दिनश्चैनं सेवेरन् गणिका अपि ॥ ६८ ॥ प्रविशन्तं निजं स्थानमनुगच्छेद्वराधिपः । सुराधिपं बलामात्यपौरजानपदान्वितः ॥ ६९ ॥ १ शा. द. विभागतः । २ क. नादयेत् । ३ द. ख. ॰ख्यानां द्रव्यं । ४ क. संश्रितानु॰ । ५ द. ख. पीठं ।