समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 140, कुल 726 में से
संदर्भ में पढ़ेंइन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७५ अहतेप्सितवासोभिराच्छाद्याचार्य स्रगादिभिः । १विक्षिप्य च बलिं दिक्षु द्विजातीन् स्वस्ति वाचयेत् ॥ ४६ ॥ त्रिसन्ध्यं पूजितां तत्र सर्वप्रकृतिभिस्ततः । पञ्चाहं वासयेद् यष्टिं गुप्तां चापधरैर्नरैः ॥ ४७॥ तस्मिन्नेवाह्नि यन्त्राणि सर्वाण्यपि च यष्टिवत् । स्नातान्याच्छादितानीन्द्रस्थानदेशं प्रवेशयेत् ॥ ४८ ॥ सूत्रितेऽथ ध्वजस्थाने यष्टेरष्टांशदैर्घ्यतः । तदर्धविस्तृते दिक्स्थे समे प्रागायते शुभे ॥ ४९ ॥ विभक्तेऽत्र विभागानामेकाशीत्या ततः क्रमात् । विन्यस्तास्वथ सर्वासु देवतासु यथातथम् ॥ ५० ॥ प्राचि मध्ये मैत्रपदे तन्मध्यान्मरुतो दिशि । मल्लं निम्नप्रमाणेन् पादकोणे निवेशयेत् ॥ ५१ ॥ भृङ्गुमुख्यपदद्वन्द्वंमध्ययोर्वायुकोणयोः । न्यस्येत् स्तम्भौ तयोः पीठीं मल्ले च विनिवेशयेत् ॥ ५२ ॥ पीठिका निर्गता बाहुयुग्मात् तत्रा३ग्रयोगतः । स्तम्भिन्यौ रोपयेद् ब्राह्मं पृथक्पदयुगं श्रिते ॥ ५३ ॥ प्रतिक्षोभाविह द्वौ द्वौ बाहुद्वितयमाश्रितौ । बाह्यतः प्रान्तपदयोर्मैत्रयोर्विनिवेशयेत् ॥ ५४ ॥ प्राच्यां मल्लाग्रतो ज्ञात्वा शक्रस्योर्ध्वगतिं क्रमात् । योजयेद् भ्रमणोपेतौ भ्रमपादावभङ्गुरौ ॥ ५५ ॥ मल्लात् पश्चिमदिग्भागे वरुणस्याश्रितां पदम् । भद्रां निवेशयेन्निम्नमानतः शक्रमातरम् ॥ ५६ ॥ स्युः पर्जन्यान्तरिक्षद्वा५र्यें (क्ष्मा ? क्ष्म) णां पदमाश्रिताः । क्रमान्नन्दोपनन्दारूयजय्याख्यविजयाभिधाः ॥ ५७ ॥ १ द. निक्षिप्य । २ द. ख. भृंगमुख्यापदं द्वन्द्वं मध्याभ्यां वायु । ३ शा. तत्त्वाग्र । ४ द. गतिः क्रमात् । शा. गतिक्रमः । ५ द. वार्यक्षमाणां ।