समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 194, कुल 726 में से
संदर्भ में पढ़ेंद्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । १२९ प्रथमं च द्वितीयं च गृहे तु हलकं यदि । चन्द्रं वृद्धिकरं नृणां सर्वलक्षणसंयुतम् ॥ ७ ॥ वायव्यं हलकं यत्र रोगं रोगविवर्धनम् । प्रथमं च तृतीयं च गृहे तु हलकं यदि ॥ ८ ॥ पापं तन्नामतो वास्तु सर्वपापप्रयोजकम् । पित्रूरोगोक्तकोणाभ्यां भयदं रोगमृत्युवे ॥ ९ ॥ पित्रूरोगानिकोणेषु नन्दनं गृहमादिशेत् । सुखमर्थप्रदं शान्तं हलकं परिकीर्तितम् ॥ १० ॥ ईशान्यां तु चतुर्थेन खादकं खादकं गृहम् । लाङ्गलाद्या यदा शाला ईशान्यां च यदापरा ॥ ११ ॥ ध्वाङ्क्षं तन्नामतो वास्तु दरिद्राणां विधीयते । द्वितीया च चतुर्थी च शाला लाङ्गलके यदि ॥ १२ ॥ विकृतं विकृतावासं प्रवासोऽत्र कुटुम्बिनः । आद्या शाला द्वितीया च चतुर्थी च यदा पुनः ॥ १३ ॥ विलयं हानिदं नित्यं गृहं तद् वित्तनाशनम् । वायव्यं हलकं यस्मिन्नैशान्यां च यदा पुनः ॥ १४ ॥ क्षयं क्षयकरं नित्यं हलकेषु गृहं भवेत् । अग्निवायुमहेशानां शाला लाङ्गलके यदि ॥ १५ ॥ याम्यं मृत्युकरं नृणां न तत् कुर्यात् कदाचन । मारुते नैर्ऋतैशान्योः शालाकर्णेषु लाङ्गलम् ॥ १६ ॥ विपरीतं व्याधिकरं नृणां नाशकरं तथा । चतस्रो हलके यत्र प्रादक्षिणयमुखाः स्थिताः ॥ १७ ॥ भद्रकं नाम तद् वास्तु सर्वभद्रप्रयोजकम् । द्वारोच्छ्रायं सविस्तारं तलोच्छ्रायं च वेश्मनाम् ॥ १८ ॥ १ ख. रोगभयप्रदम् । २ क. पापकं नामतो । ३ क. यस्मिन्नीशान्यां । ४ द. ख. ज्ञेयं । ५ द. ख. मुखास्तथा । वा, १७