समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 193, कुल 726 में से
संदर्भ में पढ़ें१२८ समराङ्गणसूत्रधारे द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद् गृहम् । त्रीण्यायुःपशुधान्यानां क्रमादाद्यानि वृद्धये ॥ ४० ॥ एतेषामेव नाशाय भवेद् वेश्म द्विकोकिलम् । इत्येकशालभवनान्युदितान्यलिन्द- षड्दारुकापवरकावरणादिभेदैः । संज्ञा च लक्षणफलैः करिणीमुखाभिः शालाभिरेवमपराणि च र्युग्मजानि ॥ ४१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे एकशाललक्षणफलद्विहंसादिलक्षणफलानि नाम त्रयोविंशोऽध्यायः । अथ द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । कर्णशालानिबद्धानि मण्डपैरन्तरस्थितैः । असम्बाधाजिराणि स्युर्ह्लानि दश पञ्च च ॥ १ ॥ ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम् । नन्दनं खादकं ध्वाङ्क्षं विकृतं विलयं क्षयम्² ॥ २ ॥ याम्यं च विपरीतं च भद्रकं चेति नामतः । एतानि हलकाख्यानि विद्याद् गेहानि यत्नतः ॥ ३ ॥ अग्निरक्षोनिलेशानकोणं³ङ्गानां यथाक्रमम् । एकद्वित्रिचतुर्थाख्या हलकानां प्रकल्पयेत् ॥ ४ ॥ अनेन क्रमयोगेन च्छन्दोभेदा भवन्ति च । तत्राद्येनेश्वरं नाम हलकेन गृहं भवेत् ॥ ५ ॥ सर्वलक्षणसंयुक्तं सर्ववृद्धिफलप्रदम् । वृषभं तु द्वितीयेन पुत्रदारविवर्धनम् ॥ ६ ॥ १ क. युग्मलाभिः, द. ख. युग्मितानि । २ द. क्षमम् । ३ द. ख. कोणे भागां ।