समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 192, कुल 726 में से
संदर्भ में पढ़ेंविहाय मर्मणां वेधानमीषामेव वेश्मनाम् । षोडशैव परेऽपि स्युर्भेदास्तांश्च यथाक्रमम् ॥ २८ ॥ कथयामः समासेन यथार्थैरेव नामभिः । अलङ्कृतमलङ्कारं रमणं पूर्णमम्बरम् ॥ २९ ॥ पुण्यं सुगर्भं कलशं दुर्गतं रिक्तमीप्सितम् । सुभद्रं वन्दितं दीनं विभवं सर्वकामदम् ॥ ३० ॥ शालान्तः स्थितषड्दारुपश्चादपवरैः कृतैः । एभ्योऽपरेऽपि निर्दिष्टा भेदाः षोडश वेश्मनाम् ॥ ३१ ॥ प्रभवं भाविकं क्रीडं तिलकं क्रीडनं सुखम् । यशोदं कुमुदं कालं भासुरं सर्वभूषणम् ॥ ३२ ॥ वसुधारं धनहरं कुपितं वित्तवृद्धिदम् । कुलोदयं च विज्ञेयं गुणदोषास्तु पूर्ववत् ॥ ३३ ॥ अनन्तरमिहोक्तानि यानि वेश्मानि षोडश । प्रत्येकं तान्यलिन्देन परिकु(ष्कु)र्याच्चतुर्दिशम् ॥ ३४ ॥ तद्भेदेभ्यः प्रसूतानि कथयामो विधानतः । चूडामणिं प्रभद्रं च क्षेमं शेखरमद्भुतम् ॥ ३५ ॥ विकाशं भूतिदं हृष्टं विरोधं कालपाशकम् । निरामयं सुशालं च रौद्रं मोघं मनोरथम् ॥ ३६ ॥ सुभद्रं चेति सदनं संज्ञाभिरुपलक्षयेत् । वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम् ॥ ३७ ॥ कथितं तच्च संस्थानैर्नामभिश्च यथाक्रमम् । हस्तिनी महिषी गावी छागली च यथाक्रमम् ॥ ३८ ॥ तद्द्रव्येन द्विपूर्वाणि ब्रूमो नामानि वेश्मनाम् । द्विहंसकं द्विचक्राह्वं द्विसारसमथापरम् ॥ ३९ ॥
१ द. ख. वञ्चितं । २ द. वृत्तिं । ३ द. परिकुर्याच्च तिर्यकम् ।