समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 191, कुल 726 में से
संदर्भ में पढ़ें१२६ समराङ्गणसूत्रधारे मुदितं तद् भवेद् भर्तुर्भूतिकृद् भवनोत्तमम् । सुमुखस्य यदालिन्दो वक्त्रेऽन्यो विनिवेश्यते ॥ १५ ॥ वर्धमानं तदा तत् स्यात् स्वामिलक्ष्मीविवर्धनम् । क्रूरं युक्तं द्वितीयेन मुखालिन्देन मन्दिरम् ॥ १६ ॥ करालं तद् विजानीयाद् भर्ता तस्य विनश्यति । अलिन्देन द्वितीयेन धनदं योजितं पुनः ॥ १७ ॥ सुनाभं तद् भवेत् तस्मिन् पशून् पुत्रानवाप्नुयात् । आक्रन्दस्य पुरोभागे यद्यलिन्दः कृतोऽपरः ॥ १८ ॥ ध्वाङ्क्षसंज्ञं गृहं तज्ज्ञा निन्दितं प्रवदन्ति तत् । द्वितीयालिन्दघटना विजयस्य मुखे यदि ॥ १९ ॥ तत् समृद्धीमिति ख्यातं गृहं स्यात् पुण्यकर्मणाम् । यान्युक्तानि ध्रुवादीनि पूर्ववेश्मानि षोडश ॥ २० ॥ शालाविभागं ज्ञात्वैषां तिर्यक् षड्दारु विन्यसेत् । षोडशान्ये च भेदाः स्युः संज्ञाश्चैषामनुक्रमात् ॥ २१ ॥ सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम् । सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥ २२ ॥ उद्योतं भीषणं शून्यमजितं कुलनन्दनम् । नामभिर्वेश्मनामेषां गुणदोषान् प्रकल्पयेत् ॥ २३ ॥ यथार्थनामान्येतानि यस्मात् प्रोक्तान्यविस्तरात् । एभ्य एवापराणि स्युर्वेश्मान्यन्यानि षोडश ॥ २४ ॥ शालापुरोविनिर्युक्ततिर्यक्षड्दारुकारणात् । हंसं सुलक्षणं सौम्यं जयन्तं भव्यमुत्तमम् ॥ २५ ॥ रुचिरं सम्भृतं क्षेममाक्षेमं सुकृतं वृषम् । उच्छन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम् ॥ २६ ॥ एषामपि यथार्थत्वाद् गुणदोषान् निरूपयेत् । शालामध्ये च तिर्यक्स्थं षैड्दारु विनिवेशयेत् ॥ २७ ॥
१ क. ख. द. समृद्धिं । २ द. ˚न्येतानि । ३ द. भित्तिश्चैव निवेशयेत् ।