समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 190, कुल 726 में से
संदर्भ में पढ़ेंएकशाललक्षणफलादि नाम त्रयोविंशोऽध्यायः । १२५ गुरोरधो लघुं न्यस्येत् पूर्वं शेषं यथोपरि । गुरुभिः पूरयेत् पश्चाद् यावत् स्युर्लघवोऽखिलाः ॥ ३॥ विद्यादलिन्दान् सर्वेषु लघुस्थानेषु पण्डितः । संख्यावर्तं गृहमुखादेतांश्च विनियोजयेत् ॥ ४ ॥ एषामलिन्दसंयोगाद् भवनानां पृथक् पृथक् । नामानि गुणदोषांश्च वक्ष्यन्तेऽनुक्रमादतः ॥ ५ ॥ ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम् । सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ ६ ॥ आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् । ध्रुवे जैयमवाप्नोति धन्ये धान्यागमो भवेत् ॥ ७ ॥ जये सपत्नाञ् जयति नन्दे सर्वाः समृद्धयः । खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥ ८ ॥ आयुरारोग्यमैश्वर्यं तथा वित्तस्य सम्पदः । मनोरमे मनस्तुष्टिर्गृहभर्तुः प्रकीर्तिता ॥ ९ ॥ सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा । क्रूरव्याधिभयं क्रूरे सुपक्षं गोत्रवृद्धिकृत् ॥ १० ॥ धनदे हेमरत्नादि गाश्चैव लभते पुमान् । क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥ ११ ॥ आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः । यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥ १२ ॥ तद् गृहं रम्यनामेह भर्तुः सौभाग्यकारकम् । मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥ १३ ॥ तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीर्नित्यमाविशेत् । अलिन्दश्चेद् द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥ १४ ॥ १ द. सव्यावृत्तं । २ ख. ॰वं । ३ द. ख. ध्रुव॰ ।