भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

१२८ समराङ्गणसूत्रधारे द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद् गृहम् । त्रीण्यायुःपशुधान्यानां क्रमादाद्यानि वृद्धये ॥ ४० ॥ एतेषामेव नाशाय भवेद् वेश्म द्विकोकिलम् । इत्येकशालभवनान्युदितान्यलिन्द- षड्दारुकापवरकावरणादिभेदैः । संज्ञा च लक्षणफलैः करिणीमुखाभिः शालाभिरेवमपराणि च र्युग्मजानि ॥ ४१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे एकशाललक्षणफलद्विहंसादिलक्षणफलानि नाम त्रयोविंशोऽध्यायः । अथ द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । कर्णशालानिबद्धानि मण्डपैरन्तरस्थितैः । असम्बाधाजिराणि स्युर्ह्लानि दश पञ्च च ॥ १ ॥ ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम् । नन्दनं खादकं ध्वाङ्क्षं विकृतं विलयं क्षयम्² ॥ २ ॥ याम्यं च विपरीतं च भद्रकं चेति नामतः । एतानि हलकाख्यानि विद्याद् गेहानि यत्नतः ॥ ३ ॥ अग्निरक्षोनिलेशानकोणं³ङ्गानां यथाक्रमम् । एकद्वित्रिचतुर्थाख्या हलकानां प्रकल्पयेत् ॥ ४ ॥ अनेन क्रमयोगेन च्छन्दोभेदा भवन्ति च । तत्राद्येनेश्वरं नाम हलकेन गृहं भवेत् ॥ ५ ॥ सर्वलक्षणसंयुक्तं सर्ववृद्धिफलप्रदम् । वृषभं तु द्वितीयेन पुत्रदारविवर्धनम् ॥ ६ ॥ १ क. युग्मलाभिः, द. ख. युग्मितानि । २ द. क्षमम् । ३ द. ख. कोणे भागां ।

द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । १२९ प्रथमं च द्वितीयं च गृहे तु हलकं यदि । चन्द्रं वृद्धिकरं नृणां सर्वलक्षणसंयुतम् ॥ ७ ॥ वायव्यं हलकं यत्र रोगं रोगविवर्धनम् । प्रथमं च तृतीयं च गृहे तु हलकं यदि ॥ ८ ॥ पापं तन्नामतो वास्तु सर्वपापप्रयोजकम् । पित्रूरोगोक्तकोणाभ्यां भयदं रोगमृत्युवे ॥ ९ ॥ पित्रूरोगानिकोणेषु नन्दनं गृहमादिशेत् । सुखमर्थप्रदं शान्तं हलकं परिकीर्तितम् ॥ १० ॥ ईशान्यां तु चतुर्थेन खादकं खादकं गृहम् । लाङ्गलाद्या यदा शाला ईशान्यां च यदापरा ॥ ११ ॥ ध्वाङ्क्षं तन्नामतो वास्तु दरिद्राणां विधीयते । द्वितीया च चतुर्थी च शाला लाङ्गलके यदि ॥ १२ ॥ विकृतं विकृतावासं प्रवासोऽत्र कुटुम्बिनः । आद्या शाला द्वितीया च चतुर्थी च यदा पुनः ॥ १३ ॥ विलयं हानिदं नित्यं गृहं तद् वित्तनाशनम् । वायव्यं हलकं यस्मिन्नैशान्यां च यदा पुनः ॥ १४ ॥ क्षयं क्षयकरं नित्यं हलकेषु गृहं भवेत् । अग्निवायुमहेशानां शाला लाङ्गलके यदि ॥ १५ ॥ याम्यं मृत्युकरं नृणां न तत् कुर्यात् कदाचन । मारुते नैर्ऋतैशान्योः शालाकर्णेषु लाङ्गलम् ॥ १६ ॥ विपरीतं व्याधिकरं नृणां नाशकरं तथा । चतस्रो हलके यत्र प्रादक्षिणयमुखाः स्थिताः ॥ १७ ॥ भद्रकं नाम तद् वास्तु सर्वभद्रप्रयोजकम् । द्वारोच्छ्रायं सविस्तारं तलोच्छ्रायं च वेश्मनाम् ॥ १८ ॥ १ ख. रोगभयप्रदम् । २ क. पापकं नामतो । ३ क. यस्मिन्नीशान्यां । ४ द. ख. ज्ञेयं । ५ द. ख. मुखास्तथा । वा, १७

१३० समराङ्गणसूत्रधारे पीठस्य च समुत्सेधं भित्तिविस्तारमेव च । तथा दारुकलां(ला) चैव या प्रोक्ता गृहकर्मणि ॥ १९ ॥ एकशालाविधानं च तेषां नामानि यानि च । तत् संप्रति प्रवक्ष्यामो यथावदनुपूर्वशः ॥ २० ॥ षोडशानां समुद्देश्यो विंशतेरपि चापरः । विंशतेः^१ सचतुष्कायास्तथाष्टाविंशतेरपि ॥ २१ ॥ द्वात्रिंशतोऽपरश्चेति † पञ्च वर्गाधिपा मताः । शालाचतुर्थभागेन भित्तिविस्तार इष्यते ॥ २२ ॥ वर्गेषु भित्तिलक्ष्मोक्तं षोडशादिषु पञ्चसु । मर्मपीडा भवेद् यत्र भित्तिस्तम्भतुलादिभिः ॥ २३ ॥ कुर्वीत ह्रासं वृद्धिं वा तत्र मर्मव्यथां त्यजँन् । अतिसंवृतं^५विस्तारं कार्यमुद्दिश्य बुद्धिमान् ॥ २४ ॥ शालाप्रविष्टं कुर्वीत ‡ हीनवास्तुष्वलिन्दकम् । चतुरश्रीकृते क्षेत्रे भूमिभागे समीकृते ॥ २५ ॥ उपरिष्टाद् भवेत् पीठं * तलार्धसमुच्छ्रितम् । नियुक्ते तु ततः पीठे वास्तुविस्तारतोऽङ्गुलम् ॥ २६ ॥ प्रतिहस्तं समुद्धृत्य सप्तत्या सह योजयेत् । द्वारोच्छ्रायाः समाख्याता वर्गेषूक्तेषु पञ्चसु ॥ २७ ॥ उच्छ्रायार्धेन वैपुल्यमष्टांशेन विवर्जितम् । द्वारविस्तारपादांशो पट्टविस्तार इष्यते ॥ २८ ॥ विस्ताराध्र्धेन बाहल्यं सार्धं वेद्या तलोपरि । ^७उत्तरोत्तरवैपुल्यं कुर्याच्छाखावशाद् बुधः ॥ २९ ॥ १ द. ख. समुदायाे । २ द. ख. विंशतेरपि चतुष्कायां । ३ क. ह्रासवृद्धिं । ४ क. त्यजेत् । ५ क. ॰तं । ६ द. ख. विस्तरार्धेन बाहल्यं सार्धपेद्यातलोम्बरे (द. reads वेद्या) । ७ द. उत्तरोम्बर॰ † ‘पञ्चसमुदायाः विप्रादीनां व्युत्क्रमेण यथा (यथं) योज्याः । व्यासस्येदं चेष्टमानम्’ इति, ‡ ‘पञ्च++++हीनवास्तुप्रमाणं तद्गृहं शालाख्यं तदन्तर्गतं षड्दारुकं कुर्यात्’ इति, * ‘तलशब्देन प्रथमभूम्युच्छ्रायः’ इति च टिप्पणानि सन्ति क पुस्तके ।

द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । १३१ वेद्या विस्तारंबाहल्ये विधेये शाखयोरपि । द्वारविस्तारपादेन मूले स्तम्भस्य विस्तृतिः ॥ ३० ॥ दशभागविहीनाग्रे पट्टः स्तम्भेन सम्मितः । स्तम्भाग्रस्य त्रिभागेने पट्टकोटिर्विधीयते ॥ ३१ ॥ हीरग्रहणमायामे स्तम्भाग्रात् तु चतुर्गुणम् । पट्टान्यान्युद्गवेत्(?) तत्र व्यासबाहुल्ययोस्तथा ॥ ३२ ॥ पट्टकोट्यर्थमुत्सेधादुत्सेधार्धेन निर्गतम् । तन्त्रकस्य प्रमाणं स्यादिति शास्त्रविदो विदुः ॥ ३३ ॥ द्रव्याण्युपर्युपर्यस्य परापरविभागतः । पट्टकोट्याश्चतुर्थेन प्रविभागेन हासयेत् ॥ ३४ ॥ पूर्वामुखं गृहं यत्तु द्वारं माहेन्द्रसंयुतम् । हस्तिनी च भवेच्छाला तद् गृहं भद्रसंज्ञितम् ॥ ३५ ॥ भद्रं भद्रकरं भर्तुर्यशोबलविवर्धनम् । सिध्यन्ति चास्य कार्याणि भद्राख्ये वसतो गृहे ॥ ३६ ॥ दक्षिणाभिमुखं वेश्म द्वारं चास्य गृहक्षतम् । महिषी च भवेच्छाला तद् गृहं नन्दपीठकम् ॥ ३७ ॥ नन्दपीठगृहं पुंसा नित्यानन्दकरं स्मृतम् । सर्वसम्पद्गुणोपेतं धनधान्यविवर्धनम् ॥ ३८ ॥ वारुण्यभिमुखं सद्म द्वारं च कुसुमाह्वयम् । गावी चैव भवेच्छाला सौरभं तद्विदुर्बुधाः ॥ ३९ ॥ सौरभे नित्यहृष्टत्वं वसतां गृहमेधिनाम् । सफलं कृषिवणिज्यं पुत्राश्च वशवर्तिनः ॥ ४० ॥ उत्तराभिमुखं धिष्ण्यं द्वारं भल्लाटसंयुतम् । छागली च भवेच्छाला पुष्कराख्यं तदुच्यते ॥ ४१ ॥ १ द. बाहुल्ये । २ द. ख. त्रिभागोनां ३ द. ख. पदान्यान्याङ्कवेत् । ४ द. ख. संमुखम् ।

१३२ समराङ्गणसूत्रधारे शीलवान् नित्यसन्तुष्टः सुहृत्सुजनवत्सलः । सुभगः पुष्कराख्ये च बहुपुत्रधनान्वितः ॥ ४२ ॥ भद्रं च नन्दपीठं च सौरभं पुष्करं तथा । प्रथमार्धे तु वर्गस्य प्रथमस्य प्रयोजयेत् ॥ ४३ ॥ सर्वभद्रादिकाः सर्वेkey? सर्वभद्रादिकाः सर्वे निवेशा ये प्रकीर्तिताः । उत्पन्नास्ते विमानेभ्यः पञ्चभ्यः पञ्चपञ्चके ॥ ४४ ॥ द्वारस्य पीठस्य च मन्दिरेषु भित्तेश्च मानं कथितं क्रमेण । तथोदिता दारुकलास्तु सम्यक् प्रहीणवास्तोः सकलं च लक्ष्म ॥ ४५ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारपीठभित्तिमानदारुकलाहीनवास्तुलक्षणं नाम चतुर्विंशोऽध्यायः ॥ अथ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः ॥ वेश्मनां पञ्चशालानां कथ्यन्ते लक्षणान्यथ । चतुर्विंशतिसंयुक्तं सहस्रं तानि सङ्ख्यया ॥ १ ॥ गुरूणां दशसङ्ख्यानां प्रस्तारस्य च कल्पनात् । गृहाणां पञ्चशालानां भेदा लघुविभागतः ॥ २ ॥ पञ्चशालं भवेद् योगाद् गृहयोर्द्वित्रिशालयोः । यद्वा योगाद् भवेदेतच्चतुःशालैकशालयोः ॥ ३ ॥ चतुर्णामपि वर्णानामिदं सद्म प्रशस्यते । हिरण्यनाभप्रभृति वर्णानामिह वेश्मनाम् ॥ ४ ॥ सिद्धार्थादिसमायोगान्निष्पद्येत गृहाष्टकम् । योगाद्धिरण्यनाभस्य सिद्धार्थेन गृहं भवेत् ॥ ५ ॥ १ ख. संहृष्टसुहृत्स्वजन°, द. संहृष्टमुहृत्स्वजन° । २ द. उत्पन्ना ये । ३ द. ख. अयंश्रोको नास्ति । ४ द. ख. चतुर्णांमि° ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३३ हेमकृटाख्यमस्यैव वातेन स्वर्णशेखरम् । सुक्षेत्रस्य च सिद्धार्थसंयोगेन श्रियावहम् ॥ ६ ॥ तस्यैव यमसूर्येण भवेद् वेश्म महानिधिः । चुल्लयास्तु यमसूर्येण सदादीप्तं प्रजायते ॥ ७ ॥ दण्डसंयोगतस्तस्य चित्रभान्वभिधं भवेत् । पक्षघ्नस्य तु दण्डेन सदा॑दोषं विनिर्दिशेत् ॥ ८ ॥ पक्षघ्नस्यैव वातेन योगात्रिर्विघ्नमुच्यते । न काचचुल्लीसंयोगस्त्रिशालादिषु शस्यते ॥ ९ ॥ अन्योन्यवीक्ष्यमाणानां भेदास्तेनेह नोदिताः । एकशालयुतै (ते) र्भेदाः स्युश्चतुश्शालवेश्मनि ॥ १० ॥ चत्वारः पञ्चशालानां ब्रूमस्तेषां च विंशतिः । यदा भवत्यजा शाला सर्वतोभद्रवेश्मनो ॥ ११ ॥ सुदर्शनमिति प्राहुः पञ्चशालं तदा गृहम् । तदेव करिणीयोगात् सुरूपमिति कथ्यते ॥ १२ ॥ सुन्दरं महिषीयोगाद् गावीयोगात्तु शोभनम् । वर्धमानस्य चैतासां शालानां योगतः क्रमात् ॥ १३ ॥ सुनाभं सुप्रभं योग्यं विनोदं च भवेद् गृहम् । नन्द्यावर्तेऽप्येवमेव शालायोगेन जायते ॥ १४ ॥ सुखदं नन्दनं नन्दं पुण्डरीकं च मन्दिरम् । रुचकस्याप्यजादीनां योगेन स्युरनुक्रमात् ॥ १५ ॥ नामतो भद्ररुचिररोचिष्णूनि प्रहर्षणम् । स्वस्तिकेऽप्यनया युक्त्या भवेद् गृहचतुष्टयम् ॥ १६ ॥ घोषं सुघोषणं नन्दिघोषं श्रीपद्ममेव च । विंशतिः सर्वतोभद्रप्रभृत्यालययोगतः ॥ १७ ॥ १ द. ख. स्वक्षेत्रस्य तु । २ द. ख. सदातोषं । ३ द. वक्ष्यमाणानां । ४ ख. नाम् । ५ द. सुनंदं । ६ शा. निन्दिं ।

१३४ समराङ्गणसूत्रधारे जातानि पञ्चशालानि योग्यानि पृथिवीभुजाम् । पूर्वोक्तैरष्टभिः सार्धं स्यादष्टाविंशतिर्गृहैः ॥ १८ ॥ † कथ्यते पञ्चशालानां मूषाभेदक्रमोऽधुना । विभद्रमेकं तत्रैकं१भद्राणि दशसङ्ख्यया ॥ १९ ॥ द्विभद्राणि पुनः पञ्चचत्वारिंशत् प्रचक्षते । त्रिभद्राणां शतं विंशत्युत्तरं द्वे दशोत्तरे ॥ २० ॥ चतुर्भद्रगृहाणां तु द्विपञ्चाशच्छतद्वयम् । गृहाणां पञ्चभद्राणां षड्भद्राणां दशोत्तरे ॥ २१ ॥ द्वे शते सप्तभद्राणां स्याद् विंशत्युत्तरं शतम् । गृहाणामष्टभद्राणां चत्वारिंशच्च पञ्च च ॥ २२ ॥ दश स्युर्नवभद्राणि तथैकं दशभद्रकम् । एवं सहस्रमेकं स्याद् विंशतिश्च चतुर्युता ॥ २३ ॥ गृहाणां पञ्चशालानां मूषावहनसङ्ख्यया । अथ लक्ष्म च संख्यां च ब्रूमः षट्शालवेश्मनाम् ॥ २४ ॥ एकद्वित्रिचतुश्शालगृहाणां योजनान्मिथः । द्विशालस्यैकशालस्य त्रिशालस्य च योगतः ॥ २५ ॥ षट्शालं जायते वेश्म भेदास्तस्य तु षोडश । पक्षघ्नावतयोर्योगादेकशालगृहस्य च ॥ २६ ॥ स्यात् पङ्कजाङ्कुरं नाम गृहं षट्शालमुत्तमम् । हिरण्यनाभं सिद्धार्थं चैकशालेन वेश्मना ॥ २७ ॥ संयोज्यं तु य३दा गेहं तदा स्याच्छ्रीगृहं शुभम् । संयोगादेकशालेन सुक्षेत्रयमत्सूर्ययोः ॥ २८ ॥ धनेश्वरं नाम गृहं जायते धनवृद्धये । दण्डाख्यचुल्ल्योः संयोगादेकशालगृहस्य च ॥ २९ ॥ १ क. तत्रैव । २ क. शाले सुयोजितम् । ३ क. सदा । † ' अमीषामष्टाविंशतीनां (?) मध्ये एकतमस्य मूषाभेदे कृते एतावन्ति रूपाणि भवन्ति' इति टिप्पणमस्तिकपुस्तके ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चत्रिंशोऽध्यायः । १३५ प्रभूतकाञ्चनकरं गृहं स्यात् काञ्चनप्रभम् । द्वादशान्यानि जानीयाद् भवनान्यनया दिशा ॥ ३० ॥ एतेषामेव भेदेषु शुभान्यखिलवर्णिनाम् । तुल्यात् त्रिशालद्वितयात् षट्शालकचतुष्टयम् ॥ ३१ ॥ स्याद् द्विशालचतुःशालयोगादन्यच्चतुष्टयम् । सिद्धार्थेन चतुःशालं वेश्मनां संयुतिर्य?(यं) दा ॥ ३२ ॥ गृहं तदा स्यात् षट्शालं त्रैलोक्यान्दकं शुभम् । यमसूर्येण संयुक्तं विलासचयमुच्यते ॥ ३३ ॥ दण्डयुक्तं चतुःशालं सुखदं नामतो भवेत् । वातेन च चतुःशालं संयुक्तं श्रीपदं भवेत् ॥ ३४ ॥ चतुर्विंशतिरेन्यानि षट्शालान्यन्ययोगतः । पञ्च यानि चतुश्शालान्युचितानि महीभृताम् ॥ ३५ ॥ तेषां द्विशालयोगेन षट्शालान्यभिदध्महे । सिद्धार्थे सर्वतोभद्रयुक्ते स्याच्छ्रीपुरं गृहम् ॥ ३६ ॥ श्रीवासं सर्वतोभद्रे यमसूर्यान्विते भवेत् । दण्डाख्ये भद्रयुक्ते श्रीभूषणं जायते गृहम् ॥ ३७ ॥ वाताख्यं सर्वतोभद्रयोगाच्छ्रीभाजनं विदुः । सिद्धार्थे वर्धमानेन युक्ते स्याद् भूतिमण्डनम् । ३८ ॥ यमसूर्ये तु तेनैव संयुक्ते भूतिभाजनम् । भूतिमानं तु दण्डाख्ये वाताख्ये भूतिभूषणम् ॥ ३९ ॥ नन्द्यावर्तस्य योगेन सिद्धार्थादि चतुष्टयम् । श्रीमुखं श्रीधरं श्रीमूँच्छ्रीध(क)रं चेति जायते ॥ ४० ॥ सिद्धार्थादिचतुष्कस्य भवेद् रुचकयोगतः । श्रियाकारं श्रियोवासं श्रीद्यानं श्रीमुखं तथा ॥ ४१ ॥ १ द. ख. त । २ द. ख. युक्तं तु वि० । ३ द. ख. रेतानि । ४, ५ द. ख. स्त्री । ६ क. संयुक्ते भूति० । ७ क. ख. द. धीकृन् ।

१३६ समराङ्गणसूत्रधारे सिद्धार्थादिचतुष्कस्य भवेत्१ स्वस्तिकयोगतः । धनपालधनानन्तधनप्रदधनाह्वयम् ॥ ४२ ॥ भवन्त्येवं राजवेश्मयोगतो विंशतिर्गृहाः । प्राक् चतुर्विंशतिश्चेति चत्वारिंशच्चतुर्युता ॥ ४३ ॥ मृषाव्यूढिवशादेकभद्रादीन्यभिदध्महे । भिँदाभिरेकं(?)२मृषाभिरभद्रं द्वादशैकया ॥ ४४ ॥ द्वाभ्यां षट्षष्टिरुद्दिष्टा विंशे द्वे निस्तृभिः शते३ः(ते) । स्याद् व्यूढाभिश्चतसृभिः पञ्चोनं शतपञ्चकम् ॥ ४५ ॥ शतानि पञ्चभद्राणां सप्त द्वानवतिस्तथा । चतुर्विंशा नवशती षड्भद्राणामुदाहृता ॥ ४६ ॥ जानीयात् सप्तभद्राणि संख्यया पञ्चभद्रवत् । गृहाणामष्टभद्राणां पञ्चोनं शतपञ्चकम् ॥ ४७ ॥ द्वे विंशे नवभद्राणां भवनानां शते विदुः । षट्षष्टिर्दशभद्राणि तथा द्वादशसङ्ख्यया ॥ ४८ ॥ स्युरेकादशभद्राख्यान्येकं द्वादशभद्रकम् । एवं षट्शालगेहानां स्यात् साहस्रचतुष्टयम् ॥ ४९ ॥ षण्णवत्यधिकं ब्रूमः सप्तशालानि साम्प्रतम् । तुल्यं त्रिशालद्वितयमेकशालेन युज्यते ॥ ५० ॥ यदा स्युः सप्तशालानि तदा द्वादशसङ्ख्यया । एकशालं द्विशालं चं४ चतुःशालेन युज्यते ॥ ५१ ॥ यदा तदा सप्तशालमपरं वेश्म जायते । सैकशालं चतुःशालं यमसूर्येण संयुतम् ॥ ५२ ॥ तँदा५ भवेद् विभेदः (?) स्यात् तद्गृहं श्रीप्रदायकम् । वातेन श्रीपदं तद्वद् दण्डेन श्रीप्रदं भवेत् ॥ ५३ ॥ १ द. ख. स्वस्तिकालययोगतः । २ द. ख. तुद्वाभिरेकम् । ३ क. तैः । ४ क. वा । ५ द. ख. यदा । ६ द. ख. प्र.°

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३७ सिद्धार्थकेन श्रीमालं तद्भूदेव प्रजायते । पञ्चानां राजयोग्यानां स्युश्चतुश्शालवेश्मनाम् ॥ ५४ ॥ सप्तशालानि संयोगादेकशालद्विशालयोः । युज्यते सर्वतोभद्रं सिद्धार्थं च यदा गृहम् ॥ ५५ ॥ एकशालेन जायेत श्री१पदं श्री२पदं तथा । सर्वतोभद्रगेहस्य यमसूर्यैकशालयोः ॥ ५६ ॥ योगेन श्रीफलं नाम स्याद् गृहं श्रीफलावहम् । सर्वतोभद्रदण्डाभ्यामेकशालं युतं यदा ॥ ५७ ॥ श्रीस्थलं नाम भवनं तदा स्यादास्पदं श्रियः । स्यादेकशाले मिलिते सर्वतोभद्रवातयोः ॥ ५८ ॥ लक्ष्मीनिवासभवनं गृहं श्रीतनुसंज्ञितम् । यदैकशालं सिद्धार्थं वर्धमानं च युज्यते ॥ ५९ ॥ श्रीपर्वताभिधानं स्यात् तदानीं भवनोत्तमम् । यमसूर्यस्य योगेन वर्धमानैकशालयोः ॥ ६० ॥ श्रीवर्धनं नाम गृहं श्रियो वृद्धिकरं भवेत् । दण्डं च वर्धमानं चै३सैकशालं यदा भवेत् ॥ ६१ ॥ तदा श्रीसँङ्गमं नाम भवेद् भवनमुत्तमम् । यदैकशालं वातारूयं वर्धमानं च युज्यते ॥ ६२ ॥ भवनं श्री४प्रैसङ्गाख्यं नृपयोग्यं तदा भवेत् । सिद्धार्थमेकशालेन नन्द्यावर्तेन चान्वितम् ॥ ६३ ॥ श्रीभारं नाम भवनं भवेद् भूपालसेवितम् । नन्द्यावर्तस्य योगेन यमसूर्यैकशालयोः ॥ ६४ ॥ राज्ञां सुखावहं वेश्म श्रीभारमिति च स्मृतम् । श्रीशैलमेकशालेन स्यान्नन्द्यावर्तदण्डयोः ॥ ६५ ॥ १, २ द. ख. प्र.°, ३ द. ख. तु । ४, ५ द. ख. स्त्री । व', १८

१३८ समराङ्गणसूत्रधारे योगाद् भोगावहं राज्ञां सप्तशालं गृहोत्तमम् । एकशालस्य योगेन स्यान्नन्द्यावर्तवातयोः ॥ ६६ ॥ श्रीखण्डं नाम भवनं भूभृतां भूतिकृद् भवेत् । सिद्धार्थस्यैकशालेन संयोगाद् रुचकस्य च ॥ ६७ ॥ श्रीषण्डं नामतो वेश्म भवेद् योग्यं महीभृताम् । रुचकस्यैव योगेन यमसूर्यैकशालयोः ॥ ६८ ॥ स्याच्छ्रीनिधानं श्रीकुण्डं तस्य दण्डैकशालयोः । वातैकशालरुचकैर्युक्तैः श्रीनाभमुच्यते ॥ ६९ ॥ भवनं भूमिपालानां तद् भवेद् भूतिदायकम् । एकशालेन युज्येते सिद्धार्थस्वस्तिके यदा ॥ ७० ॥ श्रीप्रियं स्यात् तदा वेश्म सन्ततं वल्लभं श्रियः । यमसूर्यैकशालाभ्यां स्वस्तिकं युज्यते यदा ॥ ७१ ॥ तदा श्रीकान्तमित्याहुर्भवनं भूभृतां हितम् । एकशालेन संयोगो दण्डस्वस्तिकयोर्यदा ॥ ७२ ॥ श्रीमंतं नामतो वेश्म तदा स्याद् विजयावहम् । वातस्वस्तिकसंयोगमेकशालं यदा व्रजेत् ॥ ७३ ॥ श्रीप्रदत्तमिति प्राहुस्तदा वेश्म महीभृताम् । एकैकस्य द्विभेदत्वाच्चत्वारिंशादियं भवेत् ॥ ७४ ॥ एवमत्र प्रकाराः स्युश्चत्वारिंशद् युताष्टभिः । यदा त्रिशालं भवनं चतुश्शालेन युज्यते ॥ ७५ ॥ तदापि सप्तशालं स्याच्चतुर्भेदं समासतः । पञ्चानां राजगेहानां मिलत्येकतमस्य चेत् ॥ ७६ ॥ त्रिशालं स्यात् तदा सप्तशालं विंशतिभेदवत् । हिरण्यनाभं भो(यो)गेन सर्वतोभद्रमन्दिरम् ॥ ७७ ॥

१ द. ख. श्रीघण्टं नां । २ द. ख. स्त्री । ३ क. ख. द. भागेन ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३९ श्रीवत्सं जनयेद् वेश्म नरेन्द्राणां हितावहम् । श्रीवृक्षं सर्वतोभद्रे सुक्षेत्रे मिलिते भवेत् ॥ ७८ ॥ चुल्लीयुक्ते पुनस्तस्मिन् श्रीपालं नाम जायते । पक्षघ्ने सर्वतोभद्रयुक्ते श्रीकण्ठमुच्यते ॥ ७९ ॥ हिरण्यनाभे श्रीवासं वर्धमानयुते भवेत् । श्रीनिवासं तु सुक्षेत्रे वर्धमानेन मिश्रिते ॥ ८० ॥ वर्धमानेन चुल्ल्या च गृहं श्रीभूषणं विदुः । पक्षघ्नं वर्धमानेन यदा संयोगमृच्छति ॥ ८१ ॥ तदा श्रीमण्डनं नाम जायते भवनोत्तमम् । जाते हिरण्यनाभस्य नन्द्यावर्तेन सङ्गमे ॥ ८२ ॥ स्याद् वेश्म श्रीकुलं नाम श्रियः कुलनिकेतनम् । नन्द्यावर्तेन सुक्षेत्रे युक्ते श्रीगोकुलं भवेत् ॥ ८३ ॥ नन्द्यावर्तस्य चुल्ल्याश्च योगे श्रीस्थावरं गृहम् । नन्द्यावर्तस्य पक्षघ्नयोगे कुम्भं प्रजायते ॥ ८४ ॥ हिरण्यनाभरुचकयोगे स्याच्छ्रीसमुद्गकम् । श्रीनन्दं नाम सुक्षेत्रे रुचकाख्येन संयुते ॥ ८५ ॥ चुल्ल्यां रुचकयुक्तायां श्रीह्रदं नाम जायते । श्रीधरं नाम पक्षघ्ने भवेद् रुचकसंयुते ॥ ८६ ॥ हिरण्यनाभेन युते स्वस्तिके श्रीकरण्डकम् । सुक्षेत्रेण युते तस्मिन् श्रीभाण्डागारसंज्ञितम् ॥ ८७ ॥ चुल्लीयुते श्रीनिलयं भवेन्नरपतिप्रियम् । स्वस्तिकस्य यदा योगः पक्षघ्नेन प्रजायते ॥ ८८ ॥ श्रीनिकेतनसंज्ञं स्यात् तदा नृपनिमन्दिरम् । उक्तानि सप्तशालानि नामलक्षणयोगतः ॥ ८९ ॥ सर्वाणि सार्वभौमानां नृपाणां मन्त्रिणामपि । भवन्ति च सतां वित्तयशोविजयवृद्धये ॥ ९० ॥

१४० समराङ्गणसूत्रधारे एकादिमूषावहनप्रभेदादथ वेश्मनाम् । एतेषां सप्तशालानां ब्रूमः संख्यामनुक्रमात् ॥ ९१ ॥ † वहत्येकापि नो यन्त्र मूषैकं तद् भवेद् गृहम् । विभद्रमेकभद्राणि विजानीयाच्चतुर्दश ॥ ९२ ॥ द्विभद्रवेश्मनां सैका नवतिः परिकीर्तिता । भवनानां त्रिभद्राणां चतुःषष्टिः शतत्रयम् ॥ ९३ ॥ सहस्त्रमेकाभ्यधिकं स्याच्चतुर्भद्रवेश्मनाम् । भवतः पञ्चभद्राणां द्वे सहस्रे द्विसंयुते ॥ ९४ ॥ षड्भद्राणां सहस्राणि त्रीणि त्रीणि गृहाणि च । द्वात्रिंशतां चतुस्त्रिंशत् सप्तभद्रशतानि च ॥ ९५ ॥ अष्टभद्राणि षड्भद्रसङ्ख्यातुल्यानि जायते(?) । गृहाणां नवभद्राणां द्वे सहस्रे तथा द्वयम् ॥ ९६ ॥ सहस्रं दशभद्राणामेकोत्तरमुदाहृतम् । तथैकादशभद्राणां चतुष्षष्ट्या शतत्रयम् ॥ ९७ ॥ सैका द्वादशभद्राणां नवतिर्वेश्मनां भवेत् । स्युस्त्रयोदशभद्राणि गृहाणीह चतुर्दश ॥ ९८ ॥ यच्चतुर्दशभिर्भद्रैरेकमेव हि वेश्म तत् । इत्येषां सप्तशालानां सहस्राण्यत्र षोडश ॥ ९९ ॥ ४एकोनत्रिंशती तद्वदशीतिश्चतुरुत्तरा । इदानीमष्टशालानि भवनान्यभिदध्महे ॥ १०० ॥ बहिरन्तैश्चतुःशालद्वयादेकं समासतः । अन्यानि सर्वभद्रादिद्वयसंयोगतो दश ॥ १०१ ॥ एकोनत्रिंशता क्षेत्रं चतुरश्रं विभाजयेत् । भागद्वयेन मूषा स्याच्छाला भागचतुष्टयात् ॥ १०२ ॥


१ द. ख. द्वात्रिंशानि । २ द. ख. शतभं । ३ द. ख. ॰र्भि॰ । ४ क. 'एकात्र त्रि' । ५ क. त्र चतु । ६ द. ॰विंशता । † 'रत्र यस्यां सप्तशालजातौ एकापि मूषा यद् गृहं न वहति न प्राप्नोति, तदेकं गृहं विभद्रं भवेत्' इति टिप्पणमस्ति क पुस्तके ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४१ कुर्वीत पञ्चभिर्भागैस्तन्मध्येऽङ्गणवापिकाम् । चतस्रश्च प्रतिदिशं मूषाः स्युस्तत्र वास्तुनि ॥ १०३ ॥ शालयोनं सप्तशालं षट्शालं द्वितयोज्झितम् । त्रिहीनं पञ्चशालं स्यादष्टशालमिदं क्वचित् ॥ १०४ ॥ तुल्यत्रिशालद्वितयं द्विशालेन युतं यदा । अष्टौ तदाष्टशालानि गृहाण्यन्यानि निर्दिशेत् ॥ १०५ ॥ मूषाव्यूढिवशादष्टशालानामथ कथ्यते । सङ्ख्या तत्र विभद्रं स्याद्वहन्मूषसंज्ञितम् ॥ १०६ ॥ षोडशैवकभद्राणि द्विभद्राणां शतं विदुः । विंशं षष्ट्या त्रिभद्राणां विज्ञेयं शतपञ्चकम् ॥ १०७ ॥ अष्टादशाहुर्विंशानि चतुर्भद्रशतानि च । पञ्चभद्रसहस्राणि चत्वारि स्युः शतत्रयम् ॥ १०८ ॥ अष्टषष्टिश्च गेहानि तानि सम्यग् विभावयेत् । सहस्राष्टकमष्टौ च षड्भद्राणि प्रचक्षते ॥ १०९ ॥ एकादशसहस्राणि तथा शतचतुष्टयम् । जानीयात् सप्तभद्राणि चत्वारिंशद् गृहाणि च ॥ ११० ॥ द्वादशैवाष्टभद्राणां सहस्राणि शताष्टकम् । सप्तत्याभ्यधिकं प्राहुर्वास्तुविद्याविशारदाः ॥ १११ ॥ एकादशसहस्राणि तथा शतचतुष्टयम् । चत्वारिंशच्च गेहानि नवभद्राणि सङ्ख्यया ॥ ११२ ॥ अष्टौ स्युर्दशभद्राणां सहस्राण्यष्टभिः सह । तथैकादशभद्राणां सङ्ख्या स्यात् पञ्चभद्रवत् ॥ ११३ ॥ अष्टादशशतानि स्युर्विंशतिर्भवनानि च । ५इति द्वादशभद्राणां सङ्ख्या भवति वेश्मनाम् ॥ ११४ ॥ १ द. ॰न्वि॰ । २ द. ख. ॰द्वं॰ । ३ द. दश॰ । ४ द. ख. ॰सहस्राणि विंश॰ । ५ द. इत्याख्या दश॰ ।

१७२ समराङ्गणसूत्रधारे स्यात् त्रयोदशभद्राणां षष्ट्यग्रं शतपञ्चकम् । स्याच्चतुर्दशभद्राणां विंशत्यभ्यधिकं शतम् ॥ ११५ ॥ वेश्मानि स्युस्तथा पञ्चदशभद्राणि षोडश । एकमेव हि विज्ञेयं गृहं षोडशभद्रकम् ॥ ११६ ॥ † पञ्चषष्टिसहस्राणि षट्त्रिंशं शतपञ्चकम् । गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥ ११७ ॥ स्यात् समानचतुश्शालद्वययोगात् समासतः । एकैकशालयोगाच्च नवशालचतुष्टयम् ॥ ११८ ॥ सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः । एकैकशालयोगाच्च चत्वारिंशत् तथापरा ॥ ११९ ॥ तुल्यत्रिशालत्रितययोगेन च चतुष्टयम् । गृहाणां नवशालानामन्यदुक्तं पुरातनैः ॥ १२० ॥ संस्थानमुक्तं गेहानां नवशालात्मनामिदम् । मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥ १२१ ॥ अवहन्मूषमेकं स्याद् वहन्त्याष्टादशैकया । द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥ १२२ ॥ तिसृभिः स्युः शतान्यष्टौ सह षोडशभिर्गृहैः । षष्ट्या सहस्रत्रितयं ताभिश्चतसृभिर्भवेत् ॥ १२३ ॥ पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः । वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ॥ १२४ ॥

१ द. भद्राणां भं° । २ द. ख. °न्त्यष्टा° ।

| † अष्टशालगृहाणामैक्यं ६५५३६ षोडशगुरुणां प्रस्तारे | गृह १ | १६ | १२० | ५६० | १८२० | ४३६८ | ८००८ | ११४४० | १२८७० | | | भद्र ० | १ | २ | ३ | ४ | ५ | ६ | ७ भद्र | ८ | | | भद्र १६ | १५ | १४ | १३ | १२ | ११ | १० | ९ भद्र | • |

इति टिप्पणं दत्तमस्ति क पुस्तके ॥

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४३ अष्टादशसहस्राणि तथा पञ्चशतानि च । चतुःषष्टिं च गेहानि मूषाभिः षड्भिरादिशेत् ॥ १२५ ॥ एकत्रिंशत्सहस्राणि सहितान्यष्टभिः शतैः । चतुर्विंशतियुक्तानि मूषाभिः सप्तभिर्विदुः ॥ १२६ ॥ चत्वारिंशत्सहस्राणि त्रिसहस्री च वेश्मनाम् । शतानि चाष्टपञ्चाशत् सप्त मूषाभिरष्टभिः ॥ १२७ ॥ चत्वारिंशत्सहस्राणि सहस्राण्यष्ट षट्शती । विंशतिं चैव मूषाभिर्गृहाणां नवभिर्विदुः ॥ १२८ ॥ चत्वारिंशत्सहस्राणि सहस्रत्रयमोकसाम् । मूषाभिर्दशभिः साष्टपञ्चाशच्छतसप्तकम् ॥ १२९ ॥ एकत्रिंशत्सहस्राणि चतुर्विंशच्छताष्टकम् । मूषाभिरेकादशभिर्गृहाणां मुनयो जगुः ॥ १३० ॥ अष्टादशसहस्राणि तथा पञ्चशतानि च । धाम्नां द्वादशमूषाणां चतुःषष्टिश्च जायते ॥ १३१ ॥ भवन्त्यष्टौ सहस्राणि तथा पञ्चशतानि च । स्यात् त्रयोदशमूषाणामष्टषष्टिश्च वेश्मनाम् ॥ १३२ ॥ स्याच्चतुर्दशमूषाणां त्रिसहस्री सषष्टिका । मूषाभिः पञ्चदशभिः षोडशाष्टशती तथा ॥ १३३ ॥ धाम्नां षोडशमूषाणां त्रिपञ्चाशच्छतं भवेत् । स्युः सप्तदशमूषाणि वेश्मान्यष्टादश स्फुटम् ॥ १३४ ॥ मूषाभिरष्टादशभिर्वेश्मैकं तद्विदो विदुः । लक्षद्वयं सहस्राणि द्वाषष्टिश्च शतान्विता ॥ १३५ ॥ वेश्मनां नवशालानां चत्वारिंशच्चतुर्युता । स्यात् समानचतुःशालद्वययोगात् समासतः ॥ १३६ ॥ १ द. नवति˚। २ द. ˚र्णा।

१४४ समराङ्गणसूत्रधारे एकेन च द्विशालेन दशशालचतुष्टयम् । सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः ॥ १३७ ॥ एकद्विशालयोगाच्च चत्वारिंशत् तथापरा । तुल्यत्रिशालं त्रितयमेकशालयुतं यदा ॥ १३८ ॥ साधारणं तदान्यत् स्याद् दशशालचतुष्टयम् । तुल्ये त्रिशाले युज्येते सर्वभद्रादिभिर्यदा ॥ १३९ ॥ तदान्या दशशालानां समुत्पद्येत विंशतिः । तेष्वेकंमवहन्मूषं विंशतिर्मूषयैकया ॥ १४० ॥ वहन्त्या स्यादुभाभ्यां तु नवत्यभ्यधिकं शतम् । चत्वारिंशानि तिसृभिः शतान्येकादश ध्रुवम् ॥ १४१ ॥ चत्वारि² स्युश्चतसृभिः सहस्राणि शताष्टकम् । चत्वारिंशच्च गेहानि जायन्ते पञ्चभिः सह ॥ १४२ ॥ पञ्चभिस्तु सहस्राणि मूषाभिर्दशपञ्च च । जायन्ते सचतुष्काणि तथा पञ्चशतानि च ॥ १४३ ॥ अष्टात्रिंशत्सहस्राणि षड्भिः सप्त शतानि च । षष्ट्युत्तराणि जायन्ते वेश्मनां परिसङ्ख्यया ॥ १४४ ॥ गृहाणां स्युः सहस्राणि सप्तभिः सप्तसप्ततिः । शतपञ्चकमन्यच्च भवेद् विंशतिसंयुतम् ॥ १४५ ॥ लक्षमेकं सहस्राणि पञ्चविंशतिरष्टभिः । शतानि नव जायन्ते सप्तत्यभ्यधिकानि च ॥ १४६ ॥ लक्षमेकं सहस्राणि सप्तषष्टिः शतानि च । नव स्युः षष्टियुक्तानि नवमूषाप्रचारतः ॥ १४७ ॥ लक्षं चतुरशीतिश्च सहस्राणि शतानि च । सप्त स्युर्दशभिस्तद्वत् पञ्चाशच्च षडुत्तरा ॥ १४८ ॥ १ द. °लद्वितयं त्रिशालेन युतं । २ द. °रिशं ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४५ लक्षमेकं सहस्राणि सप्तषष्टिश्च वेश्मनाम् । शतानि चैकादशभिः षष्ट्यानि नव निर्दिशेत् ॥ १४९ ॥ लक्षं तथा सहस्राणि जायन्ते पञ्चविंशतिः । शतानि च द्वादशभिर्नव तद्वच्च सप्ततिः ॥ १५० ॥ सहस्राणि निकेतानां सङ्ख्यया सप्तसप्ततिः । सविंशतिः पञ्चशती त्रयोदशभिरीरिता ॥ १५१ ॥ अष्टात्रिंशत्सहस्राणि तथा सप्तशतानि च । स्युश्चतुर्दशभिः षष्ट्या वेश्मनामन्वितानि च ॥ १५२ ॥ स्यात् पञ्चदशसाहस्री शतैः पञ्चभिरन्विता । मृषाभिः पञ्चदशभिश्चत्वारि भवनानि च ॥ १५३ ॥ स्युः सहस्राणि चत्वारि तद्वदष्टौ शतानि च । तथा षोडशमृषाणां चत्वारिंशच्च पञ्च च ॥ १५४ ॥ सहस्रं सप्तदशभिः शतमेकं च वेश्मनाम् । चत्वारिंशच्च वेश्मानि भवन्ति परिसङ्ख्यया ॥ १५५ ॥ शतं नवत्यभ्यधिकमष्टादशभिरुच्यते । भवत्येकोनविंशत्या मृषाणां वेश्मविंशतिः ॥ १५६ ॥ एकमेव गृहं मृषाविंशतेर्बहनाद् भवेत् । सङ्ख्येयं दशशालानां मृषाभेदप्रचारतः ॥ १५७ ॥ प्रयुतं चत्वार्ययुतान्यष्टसहस्राणि पञ्च शतानि च । षट्सप्ततिर्गृहाणि च दशशालेष्वेकसङ्ख्येयम् ॥ १५८ ॥ चतुःशालादिगेहानि यावन्त्यादशशालततः । चतुर्गुणानि प्रत्याशं तान्यलिन्देन निर्दिशेत् ॥ १५९ ॥ एकद्वित्रिचतुःशालवेश्मनां सङ्गमान्मिथः । गृहाणि दशशालान्तान्येवमुक्तानि विस्तरात् ॥ १६० ॥ समारभ्य चतुःशाल(लं) दशशालान्तवेश्मनाम् । सङ्ख्यामिदानीमैक्येन सर्वेषामभिदध्महे ॥ १६१ ॥ वा. १९

१५६ समराङ्गणसूत्रधारे । मूषाभेदेन लक्षाणि स्युस्त्रयोदश वेश्मनाम् । सहस्राण्यष्टनवतिस्तथा वेश्मानि षोडश ॥ १६२ ॥ मूषासंस्थानभेदेन भिन्नानां वेश्मनां पुनः । जायन्ते कोटिशो भेदा यस्मान्नोक्तानि तान्यतः ॥ १६३ ॥ इत्थं चतुःशालमुखानि वेश्मान्युक्तानि यावद्दशशालमत्र । शालाप्रभेदेन मिथोऽमिषङ्गात् सङ्ख्या च तेषामुदिता यथावत्॥१६४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः ॥ अथ आयादिनिर्णयो नाम षड्विंशोऽध्यायः । इदानीमभिधास्यामः सूत्रपातं विधेः क्रमम् । शस्ते मासि सिते पक्षे विदध्यात् तं शुभेऽहनि ॥ १ ॥ चैत्रे शोकाकुलो भर्त्ता वैशाखे च धनान्वितः । ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौ ॥ २ ॥ श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद् गृहे । कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्त्तिके ॥३॥ मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः । माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा ॥ ४ ॥ द्वितीया पञ्चमी मुख्या सप्तमी नवमी तथा । एकादशीत्रयोदश्यस्ति(स्त्यौ ति)थयः स्युः शुभावहाः ॥ ५ ॥ चन्द्रताराबलं भर्तुरनुकूलं च शस्यते । इयं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि ॥ ६ ॥ कार्या पुरनिवेशे च प्रारम्भे भवनस्य च । शिलानिवेशने द्वारस्तम्भोच्छ्रायादिकेषु च ॥ ७ ॥ १ द. ॰शालजयुक्त॰। २ द. ख. ॰विधिं । ३ द. ख. ॰र्त्ता स्याद् वैशाखे ध॰। ४ ख. भयं विद्यात् फा॰।

आयादिनिर्णयो नाम पञ्चविंशोऽध्यायः । १४७ आद्रियेत सिते पक्षे शोभने लग्न एव हि । रवौ कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ॥ ८ ॥ न कुर्यात् तद्धि शून्यं स्यान्न च वृद्धिर्भवेत् प्रभोः । १ न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवौ ॥ ९ ॥ कुर्वीत निष्फलं तत् स्यान्नृपदण्डवधादिकृत् । न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ ॥ १० ॥ तद् धनघ्नं कलिक्रुद्रराजचौरा३र्तिकृद् यतः । रवौ मिथुनसिंहस्थे न कर्कस्थेऽप्युदङ्मुखम् ॥ ११ ॥ कुर्यात् तद्धि दरिद्रत्वं दद्याच्चरणदासताम् । आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ॥ १२ ॥ गृहमानवशात् सम्यक् कर्तुः स्थानबलाबलम् । नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ॥ १३ ॥ तदलाभे करैः कार्यं सम्यगायविशुद्धये । यत्र हस्तैर्मितिः ४ क्षेत्रे तत्रायो हस्तसंश्रितः ॥ १४ ॥ ५ क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिहाङ्गुलैः । अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ॥ १५ ॥ पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः । गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ॥ १६ ॥ देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् । दैर्घ्यं हन्यात् पृथुत्वेन हरेद् भागं ततोऽष्टभिः ॥ १७ ॥ यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् । ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ॥ १८ ॥ ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् । अन्योन्याभिमुखास्त च कामं स्वच्छन्दचारिणः ॥ १९ ॥ १ द. ख. 'दक्षिणाभिमु' । २ ख. चापस्थि । ३ क. 'राग्निकृ' । ४ द. ॰र्मितैः । ५ द. क्षेत्रला॰ ।