समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 212, कुल 726 में से
संदर्भ में पढ़ेंआयादिनिर्णयो नाम पञ्चविंशोऽध्यायः । १४७ आद्रियेत सिते पक्षे शोभने लग्न एव हि । रवौ कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ॥ ८ ॥ न कुर्यात् तद्धि शून्यं स्यान्न च वृद्धिर्भवेत् प्रभोः । १ न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवौ ॥ ९ ॥ कुर्वीत निष्फलं तत् स्यान्नृपदण्डवधादिकृत् । न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ ॥ १० ॥ तद् धनघ्नं कलिक्रुद्रराजचौरा३र्तिकृद् यतः । रवौ मिथुनसिंहस्थे न कर्कस्थेऽप्युदङ्मुखम् ॥ ११ ॥ कुर्यात् तद्धि दरिद्रत्वं दद्याच्चरणदासताम् । आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ॥ १२ ॥ गृहमानवशात् सम्यक् कर्तुः स्थानबलाबलम् । नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ॥ १३ ॥ तदलाभे करैः कार्यं सम्यगायविशुद्धये । यत्र हस्तैर्मितिः ४ क्षेत्रे तत्रायो हस्तसंश्रितः ॥ १४ ॥ ५ क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिहाङ्गुलैः । अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ॥ १५ ॥ पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः । गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ॥ १६ ॥ देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् । दैर्घ्यं हन्यात् पृथुत्वेन हरेद् भागं ततोऽष्टभिः ॥ १७ ॥ यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् । ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ॥ १८ ॥ ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् । अन्योन्याभिमुखास्त च कामं स्वच्छन्दचारिणः ॥ १९ ॥ १ द. ख. 'दक्षिणाभिमु' । २ ख. चापस्थि । ३ क. 'राग्निकृ' । ४ द. ॰र्मितैः । ५ द. क्षेत्रला॰ ।