समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 209, कुल 726 में से
संदर्भ में पढ़ें१४४ समराङ्गणसूत्रधारे एकेन च द्विशालेन दशशालचतुष्टयम् । सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः ॥ १३७ ॥ एकद्विशालयोगाच्च चत्वारिंशत् तथापरा । तुल्यत्रिशालं त्रितयमेकशालयुतं यदा ॥ १३८ ॥ साधारणं तदान्यत् स्याद् दशशालचतुष्टयम् । तुल्ये त्रिशाले युज्येते सर्वभद्रादिभिर्यदा ॥ १३९ ॥ तदान्या दशशालानां समुत्पद्येत विंशतिः । तेष्वेकंमवहन्मूषं विंशतिर्मूषयैकया ॥ १४० ॥ वहन्त्या स्यादुभाभ्यां तु नवत्यभ्यधिकं शतम् । चत्वारिंशानि तिसृभिः शतान्येकादश ध्रुवम् ॥ १४१ ॥ चत्वारि² स्युश्चतसृभिः सहस्राणि शताष्टकम् । चत्वारिंशच्च गेहानि जायन्ते पञ्चभिः सह ॥ १४२ ॥ पञ्चभिस्तु सहस्राणि मूषाभिर्दशपञ्च च । जायन्ते सचतुष्काणि तथा पञ्चशतानि च ॥ १४३ ॥ अष्टात्रिंशत्सहस्राणि षड्भिः सप्त शतानि च । षष्ट्युत्तराणि जायन्ते वेश्मनां परिसङ्ख्यया ॥ १४४ ॥ गृहाणां स्युः सहस्राणि सप्तभिः सप्तसप्ततिः । शतपञ्चकमन्यच्च भवेद् विंशतिसंयुतम् ॥ १४५ ॥ लक्षमेकं सहस्राणि पञ्चविंशतिरष्टभिः । शतानि नव जायन्ते सप्तत्यभ्यधिकानि च ॥ १४६ ॥ लक्षमेकं सहस्राणि सप्तषष्टिः शतानि च । नव स्युः षष्टियुक्तानि नवमूषाप्रचारतः ॥ १४७ ॥ लक्षं चतुरशीतिश्च सहस्राणि शतानि च । सप्त स्युर्दशभिस्तद्वत् पञ्चाशच्च षडुत्तरा ॥ १४८ ॥ १ द. °लद्वितयं त्रिशालेन युतं । २ द. °रिशं ।