समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 210, कुल 726 में से
संदर्भ में पढ़ेंसमस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४५ लक्षमेकं सहस्राणि सप्तषष्टिश्च वेश्मनाम् । शतानि चैकादशभिः षष्ट्यानि नव निर्दिशेत् ॥ १४९ ॥ लक्षं तथा सहस्राणि जायन्ते पञ्चविंशतिः । शतानि च द्वादशभिर्नव तद्वच्च सप्ततिः ॥ १५० ॥ सहस्राणि निकेतानां सङ्ख्यया सप्तसप्ततिः । सविंशतिः पञ्चशती त्रयोदशभिरीरिता ॥ १५१ ॥ अष्टात्रिंशत्सहस्राणि तथा सप्तशतानि च । स्युश्चतुर्दशभिः षष्ट्या वेश्मनामन्वितानि च ॥ १५२ ॥ स्यात् पञ्चदशसाहस्री शतैः पञ्चभिरन्विता । मृषाभिः पञ्चदशभिश्चत्वारि भवनानि च ॥ १५३ ॥ स्युः सहस्राणि चत्वारि तद्वदष्टौ शतानि च । तथा षोडशमृषाणां चत्वारिंशच्च पञ्च च ॥ १५४ ॥ सहस्रं सप्तदशभिः शतमेकं च वेश्मनाम् । चत्वारिंशच्च वेश्मानि भवन्ति परिसङ्ख्यया ॥ १५५ ॥ शतं नवत्यभ्यधिकमष्टादशभिरुच्यते । भवत्येकोनविंशत्या मृषाणां वेश्मविंशतिः ॥ १५६ ॥ एकमेव गृहं मृषाविंशतेर्बहनाद् भवेत् । सङ्ख्येयं दशशालानां मृषाभेदप्रचारतः ॥ १५७ ॥ प्रयुतं चत्वार्ययुतान्यष्टसहस्राणि पञ्च शतानि च । षट्सप्ततिर्गृहाणि च दशशालेष्वेकसङ्ख्येयम् ॥ १५८ ॥ चतुःशालादिगेहानि यावन्त्यादशशालततः । चतुर्गुणानि प्रत्याशं तान्यलिन्देन निर्दिशेत् ॥ १५९ ॥ एकद्वित्रिचतुःशालवेश्मनां सङ्गमान्मिथः । गृहाणि दशशालान्तान्येवमुक्तानि विस्तरात् ॥ १६० ॥ समारभ्य चतुःशाल(लं) दशशालान्तवेश्मनाम् । सङ्ख्यामिदानीमैक्येन सर्वेषामभिदध्महे ॥ १६१ ॥ वा. १९